गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 313, कुल 446 में से
संदर्भ में पढ़ेंपञ्चविंशः पटलः । —❧— ईश्वर उवाच पुण्यक्षेत्राणि वक्ष्यन्ते शृणु प्राधान्यतो मम । पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् ॥ १ ॥ तीर्थप्रदेशाः सिन्धूनां संगमः पावनं वनम् । उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः ॥ २ ॥ तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् । अश्वत्थामलकीमूलं गोशाला जलमध्यतः ॥ ३ ॥ देवतायतनं कूलं समुद्रस्य निजं गृहम् । गुरूणां संनिधानं च चित्तैकाग्र्यस्थलं तथा ॥ ४ ॥ सर्वेषामुत्तमं प्रोक्तं निर्जनं पशुवर्जितम् । यत्र तत्र नरः पूजां निर्जने कुरुते तु यः ॥ ५ ॥ तस्यै दत्ते शुभं देवि पत्रं पुष्पं फलं जलम् । श्रद्धाभ[क्त्रा?त्त्यो]श्च बाहुल्यात् पूजाद्रव्यस्य विस्तरात् ।६। देव्याः संनिधिरत्र स्यान्निर्जने पूजनात् तथा । वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ॥ ७ ॥ ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसंनिधौ । ततोऽपि द्विगुणा प्रोक्ता द्वारवत्यां विशेषतः ॥ ८ ॥ सर्वक्षेत्रेषु पीठेषु पूजा द्वारवतीसमा । विन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ॥ ६ ॥