गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 314, कुल 446 में से
संदर्भ में पढ़ेंपञ्चविंशः पटलः । २३३ आर्यावर्ते मध्यदेशे ब्रह्मावर्ते$^१$ तथैव च । विन्ध्यवत् फलदा पूजा प्रयागे पुष्करे तथा ॥ १० ॥ ततश्चतुर्गुणा प्रोक्ता करतोयानदीजले । तस्माच्चतुर्गुणफला नन्दिकुण्डे च पार्वति ॥ ११ ॥ ततश्चतुर्गुणा प्रोक्ता जल्पीशेश्वरसंनिधौ । तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा मता ॥ १२ ॥ ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि । तत्समा कामरूपे च सर्वत्रैव जले स्थले ॥ १३ ॥ सर्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्वोत्तमा यथा । देवीपूजा तथा शस्ता कामरूपे सुरालये ॥ १४ ॥ देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् । अन्यत्र विरला देवी कामरूपे गृहे गृहे ॥ १५ ॥ ततः शतगुणा प्रोक्ता नीलकूटस्य मस्तके । ततोऽपि द्विगुणा प्रोक्ता हारके शिवलिङ्गके ॥ १६ ॥ ततोऽपि द्विगुणा प्रोक्ता दाक्षायण्याः स्वयोनिषु । ततः शतगुणा प्रोक्ता$^३$ कामाख्यायोनिमण्डले । कामाख्यायां महादेवीपूजां यः कृतवान् सकृत् ॥ १७ ॥ स चेह लभते कामान् परत्र शिवरूपता(म्) । न तस्य सदृशोऽन्योऽस्ति रिपुस्तस्य न विद्यते ॥१८॥ वाञ्छितं समवाप्नोति चिरायुरभिजायते । वायोरिव गतिस्तस्य भवेदन्चैरबाधिता ॥ १६ ॥ १ ‘ह्मदेशे’ क. पाठ. । २ ‘ल्ले’ ख पाठ. । ३ ‘र्णां प्रोक्त’ ख पाठ ।