गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 315, कुल 446 में से
संदर्भ में पढ़ें२३४ गन्धर्वतन्त्रे । संग्रामे शास्त्रवादे च दुर्जयः स हि जायते । मूलमूर्तिर्महादेव्या योनिरूपा निगद्यते ॥ २० ॥ तत्र संपूज्य तां देवीं पुनर्जन्म न विद्यते । पुण्यक्षेत्रमिति प्रोक्तं न प्रकाश्यं कदाचन २१ देव्युवाच संग्रामे सूतके चैव रोगभीतौ तथापदि । तदा किं स्यान्महादेव तदिह कथयस्व मे ॥ २२ ॥ ईश्वर उवाच अशौचं साधकेन्द्राणां नास्ति रोगभयं तथा । शुचीनां धर्मचर्याणामापदामुद्भवः कुतः ॥ २३॥ यदि विघ्नो भवेद् देवि पूर्वकर्मनिबन्धनात् । तदैवं परमेशानि विधिं कुर्याद्विचक्षणः ॥ २४ ॥ गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च । एतैर्हीना तु या पूजा न सा कल्याणदायिनी ॥२५॥ पुष्पाञ्जलिं विधायाथ पूजयेच्चक्रदेवताः । अष्टकोणं त्रिकोणं वा बैन्दवं परिपूजयेत् ॥ २६ ॥ एवं कृत्वा जपेद्विद्यां समर्प्य च विसर्जयेत् । कुमार्यै भोजनं दत्त्वा संपूर्णफलभाग् भवेत् ॥ २७ ॥ अथवाऽद्वैतभावेन आत्मानं तन्मयं स्मरेत् । अद्वैतभावसंपन्नास्त्रिपुरीकृतविग्रहैः ॥ २८ ॥ आत्मन्येव यजेद् देवीमुपचारैर्यथाविधि । १ 'हे' ख पाठ ।