गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 337, कुल 446 में से
संदर्भ में पढ़ें२५६ गन्धर्वतन्त्रे । प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते । यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥ लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः । नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥ स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥ पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः । तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥ गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः । शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥ कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् । कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥ आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् । चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥ देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः । अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥ द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि । गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥ ग्रामे वा नगरे देशे पुरे वा पत्तने तथा । क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥ १ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः । ५ 'का चै' क पाठ ।