गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 336, कुल 446 में से
संदर्भ में पढ़ेंअष्टाविंशः पटलः । देव्युवाच —=:!०!:— पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा । ईश्वर उवाच अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥ विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि । यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥ तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः । आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥ अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि । तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥ न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् । गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥ यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया । सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥ गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया । अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥ १ 'ता' ख, पाठः ।