गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
अष्टाविंशः पटलः । देव्युवाच —=:!०!:— पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा । ईश्वर उवाच अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥ विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि । यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥ तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः । आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥ अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि । तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥ न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् । गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥ यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया । सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥ गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया । अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥ १ 'ता' ख, पाठः ।
२५६ गन्धर्वतन्त्रे । प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते । यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥ लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः । नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥ स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥ पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः । तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥ गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः । शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥ कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् । कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥ आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् । चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥ देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः । अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥ द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि । गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥ ग्रामे वा नगरे देशे पुरे वा पत्तने तथा । क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥ १ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः । ५ 'का चै' क पाठ ।
अष्टात्रिंशः पटलः । २५७ शक्तिक्षेत्रे शिवक्षेत्रे दीपस्थानं विचिन्तयेत् । वर्त्तुलं रचयेद् देवि कूर्म्माकृति सुलोचने ॥ १८ ॥ तन्मध्ये नव कोष्ठानि कृत्वा वर्णान् समालिखेत् । स्वरान् युग्मक्रमेणैव दिक्षु चाष्टदलेषु च ॥ १९ ॥ अवर्गः कथितो देवि कवर्गादिकसप्तकम् । पूर्वादिक्रमतो देवि कुबेरान्तं लिखेत्ततः ॥ २० ॥ ळक्षवर्णं शंभुकोणे विलिखेत् कूर्मसंज्ञके । यस्मिन् कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ॥ २१ ॥ अङ्गेषु पार्श्वयोः पाणियुग्मं जानीहि सुन्दरि । ततः पार्श्वद्वयं देवि कुक्षिस्थानं निगद्यते ॥ २२ ॥ ततः पादद्वयं देवि चान्ते पुच्छं प्रकीर्त्तितम् । मुखे कार्याणि सिध्यन्ति मनोरथशतानि च ॥ २३ ॥ कण्ठस्थाने महेशानि सर्वकार्यविनाशकृत् । उदरे दुःखदारिद्र्यं पादयोर्हानिरुच्यते ॥ २४ ॥ पुच्छे तु धनहानिः स्यादित्येवं कथितं मया । दीपस्थानं समाश्रित्य जपपूजां समाचरेत् ॥ २५ ॥ पूर्वोक्तविधिसंपन्नं गुरुं नत्वा विधानतः । अक्षमालां समाश्रित्य मातृकां वर्णरूपिणीम् ॥ २६ ॥ मन्त्रसिद्धिप्रदां शुद्धां सर्वपापौघनाशिनीम् । प्रणवो मातृका देवी माया चैवामृतत्रयम् ॥ २७ ॥ अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिध्यति ।
२५८ गन्धर्वतन्त्रे । अथ मुक्ताफलमयी वाञ्छोत्फलदायिनी ॥ २८ ॥ सर्वसिद्धिप्रदा नित्यं सर्वलोकवशंकरी । यथा मुक्ताफलमयी स्फाटिकी च तथा भवेत् ॥ २९ ॥ रुद्राक्षमालिका भोगमोक्षानन्तफलप्रदा । प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ ३० ॥ [मलिना?माणिक्य]रचिता माला साम्राज्यफलदायिनी । पुत्रजीवोद्भवा माला पुत्रपौत्रप्रदायिनी ॥ ३१ ॥ पद्माक्षमालया लक्ष्मीर्जायते महती यशः । रक्तचन्दनमाला तु वश्ये सर्वसमृद्धिदा ॥ ३२ ॥ महाशङ्खमयी माला मारणोच्चाटनादिषु । वीराणां शस्यते सा हि शेषयोर्न शुभप्रदा ॥ ३३ ॥ पञ्चाशद्भिः शतैः कुर्यादष्टाविंशति [रेव?भिश्च] वा । न न्यूनैर्नाधिकैः कार्या बीजायैर्न विभूतये ॥ ३४ ॥ एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसंभवः । आद्यं स्थूलं ततो न्यूनं न्यूनं न्यूनतरं ततः ॥ ३५ ॥ विन्यसेत् क्रमतस्तस्मात् सर्पाकारा [वि?प्ये]नायता । ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं तथास्थितम् ॥ ३६ ॥ अन्यथा विफला माला संस्कृता जपकर्मणि । रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा ॥ ३७ ॥ नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं तु यत् । १ 'ततस्तस्मात्' ख पाठः । २ 'च सा यत' क पाठ ।
अष्टाविंशः पटलः । २५६ यदोन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ॥ ३८ ॥ मिश्रीभावं तदा याति चण्डालैः पापकर्मभिः । एकजातीयबीजेन यः कुर्यान्मालिकां सदा ॥ ३९ ॥ जन्मान्तरे जायते स वेदवेदाङ्गपारगः । पूर्वोक्तेन विधानेन गृहीत्वा दिव्यमालिकाम् ॥ ४० ॥ जपं समारभेत् पश्चात् प्रोक्तयोगसमन्वितः । तत्र स्थित्वा जपेद्विद्यां लक्षमात्रं सदा शुचिः ॥ ४१ ॥ दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् । तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ॥ ४२ ॥ नारिकेलफलं चैव कदली लव(र्गा?ली)तथा । आम्रमामलकं चैव पनसं च हरीतकी ॥ ४३ ॥ व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधैः । अवैष्णवमलभ्यं च यदशस्तं व्रतान्तरे ॥ ४४ ॥ त्याज्यमेव तु तत् सर्वं यदीच्छेत् सिद्धिमात्मनः । क्षारं च लवणं मांसं गृञ्जनं कांस्येभोजनम् ॥ ४५ ॥ माषाढकीमसूरांश्च कोद्रवांश्चणकानपि । ताम्बूलं च द्विभक्तं च दुःसंवादं प्रमत्तताम् ॥ ४६ ॥ श्रुतिस्मृतिविरुद्धं च जपं रात्रौ विवर्जयेत् । भूशय्या ब्रह्मचारित्वं मौनं चाप्यननसूयता ॥ ४७ ॥ नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानं देवैतास्तुतिकीर्तनम् ॥ ४८ ॥
२६० गन्धर्वतन्त्रे । नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ॥ ४९ ॥ स्त्रीशूद्रपतितव्रात्य[पतितो?नास्तिको]च्छ्लिष्टभाषणम् । असत्यभाषणं जि(ह्म?ह्य)भाषणं परिवर्जयेत् ॥ ५० ॥ स(त्यै?भ्यै)रपि न भाषेत जपहोमार्चनादिषु । अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम् ॥ ५१ ॥ वाङ्मनःकर्मभिर्नित्यं निःस्पृहावान् भवेत् सदा । वर्जयेद् गीत[नृत्या?वाद्या]दिश्रवणं नृत्यदर्शनम् ॥ ५२॥ माल्यं च गन्धलेपं च पुष्पधारणमेव च । मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् ॥ ५३ ॥ कौटिल्यं चौरमभ्यङ्गमनावेदितभोजनम् । प्राणिहिंसां न कुर्वीत पुरश्चरणकृन्नरः ॥ ५४ ॥ अस्नातांश्च द्विजाञ् शूद्रान् स्त्रियो नैव स्पृशेत्तथा । असंकल्पितकृत्यं च वर्जयेन्मर्दनादिकम् ॥ ५५ ॥ त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् । शिवाङ्गं पञ्चगव्येन क्षालयेद् बहिरन्तरम् ॥ ५६ ॥ स्नायाच्च पञ्चगव्येन केवलामलकेन वा । १अपवित्रकरो नग्नः शिरसि प्रावृतोऽपिवा ॥ ५७ ॥ निरासनः शयानो वा गच्छन्नुत्थित एव वा । रथ्यायामशिवे२स्थाने न जपेत् तिमिरालये ॥ ५८ ॥ १ 'अपत्रकरलग्नो वा शि' क पाठ । २ 'माशब्द' क पाठ ।
अष्टाविंशः पटलः । २६१ प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते । सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥ प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् । बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥ पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥ कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् । शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥ प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् । एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥ एवमुक्तविधानेन विलम्बत्वरितं विना । उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥ देवतागुरुमन्त्राणामैक्यं संभावयन् धिया । जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥ यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने । यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥ नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् । दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥ मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) । कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥ एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।
२६३ गन्धर्वतन्त्रे । एकग्रामे स्थितो गत्वा वन्देत केवलं गुरुम् ॥ ६९ ॥ प्रणामोऽष्टाङ्ग एवात्र देवतावन्दनं तथा । नित्यं नैमित्तिकं कुर्यात् सङ्गं च साधुभिः सह ॥ ७० ॥ शक्तौ त्रिषवणस्नानं द्वे सकृद्वा तथा चरेत् । परकीयतरे तोये स्नानं पूर्वं समाचरेत् ॥ ७१ ॥ संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः । यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले ॥ ७२ ॥ अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः । तथा होमदशांशं तु जले संपूज्य देवताम् ॥ ७३ ॥ तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् । जपो होमस्तर्पणं च (पू?मृ)जा ब्राह्मणभोजनम् ॥ ७४ ॥ पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् । स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥ ७५ ॥ प्राणायामं ततः कुर्यात् पूर्वपूर्वदशांशतः । दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ॥ ७६ ॥ तत्पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः । यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥ ७७ ॥ करणं विजयान्तं तत्प्रोक्तं देशिकसत्तमैः । तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥ ७८ ॥ गुरुं संतोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।
अष्टाविंशः पटलः । २६३ होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥ इतरेषां तु वर्णानां त्रिगुणादिः समीरितः । एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥ अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् । सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥ विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः । न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥ तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् । अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥ नियतान्यपि कर्माणि हीनानि द्विजभोजनैः । निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥ अथवान्यप्रकारेण पुरश्चरणमुच्यते । ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥ नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः । ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥ अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् । होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥ अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् । तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥ गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् । १ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।
२६४ गन्धर्वतन्त्रे । ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ॥८९॥ ततस्तु मन्त्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् । अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥ ९० ॥ पुरश्चरणहीनोऽपि मन्त्रसिद्धिरसंशयः । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुरश्चर्याविधिनिरूपणं अष्टाविंशः पटलः ॥ २८ ॥
४. पटल ३१-४२: सिद्धि-लक्षण, कुलधर्म एवं तन्त्र-उपसंहार
एकोनत्रिंशः पटलः । —=::❀::=— ईश्वर उवाच पूर्वोक्तविधिना देवि लक्षार्धं प्रजपेत् तथा । रात्रौ ताम्बूलपूर्णास्यस्तथैवोक्तविधानतः ॥ १ ॥ कामरूपं वपुः कृत्वा कामिन्येवै महानिशि । कुलयुक्तो जपेल्लक्षं निशाया मध्यभागतः ॥ २ ॥ अत्र यत् क्रियते कर्म तदनन्तफलप्रदम् । मूलाधारे महादेवि लिङ्गं स्वयंभूवाचकम् ॥ ३ ॥ ज्योतीरूपं तु योनिस्यं तत्रैव मनसा जपेत् । ध्यायेत् कुण्डलिनीं देवि तद्विद्यान्तररूपिणीम् ॥ ४ ॥ हृदि त्रिकोणमध्ये च बाणलिङ्गे च तेजसि । तत्र संचिन्त्य मनसा जपेल्लक्षं समाहितः ॥ ५ ॥ मूर्ध्नि त्रिकोणमध्ये तु इतरं पश्चिमामुखम् । तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः ॥ ६ ॥ एवं लक्षत्रये सिद्धे यद्भावस्तूपजायते । तमुपाश्रित्य भावेन यथा देवस्तथा (रवे?भवेत्) ॥७॥ नवलक्षं जपेद्विद्यामिह भोगसमृद्धये । न ध्यानं नच विन्यासो न पूजा न पुरस्क्रिया ॥८॥
१ 'रास्य.' ख. पाठ. । २ 'नी' ख. पाठ. ।
२६६ गन्धर्वतन्त्रे । केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् । कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥ यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा । मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥ ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् । विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥ नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये । ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥ नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् । हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥ भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् । लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥ नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः । लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥ नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् । विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥ मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु । नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥
एकोनत्रिंशः पटलः । २६७ विधिवज्जायते देवि रुद्रमूर्त्तिरिवापरः । मन्त्राणां नव लक्षाणि कृत्वा लिङ्गानि वै नव ॥१८॥ नवैव परिजप्याथ नवलक्षफलं लभेत् । जातसूतकमादौ स्याद् वृत्ते च मृतसूतकम् ॥१९॥ सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति । स्वयं तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ॥२०॥ सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः । सत्कुलस्थानजातीनां शुचीनां श्रीमतां सताम् ॥ २१ ॥ नियतमग्निहोतॄणां भिक्षाशिनो(शना) ग्रजन्मनाम् । एषां मध्ये तु यः कश्चिद्गुरुर्वा शिष्य एव वा ॥२२॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति च । कथितं सूतकं तस्य जपात् सिद्धिर्न जायते ॥२३॥ गुप्तवी(जा?र्या)श्च ये मन्त्रा न दास्यन्ति फलं प्रिये । मन्त्राश्चैतन्यसंयुक्ताः सर्वसिद्धिकराः स्मृताः ॥२४॥ चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् । फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ २५॥ मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् । शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ २६ ॥
२६८ गन्धर्वतन्त्रे । हृदये ग्रन्थिभेदश्च सर्वावयववर्धनः । मन्त्रार्थः कथ्यते देवि शृणु तत्प्रथमं प्रिये ॥ २७ ॥ भावार्थः संप्रदायार्थो निग(र्वा?र्भा)ख्यश्च कौलिकः । तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ॥ २८ ॥ अ(त्यन्ता?न्तरा)र्थो हि भावार्थः केवलं परमेश्वरि । शिवशक्तिसमायोगाज्जनितो मन्त्रराजकः ॥ २६ ॥ तन्मयीं परमानन्दनन्दितां मन्तरूपिणीम् । नि[संज्ञ?सर्ग] सुन्दरीं देवीं ज्ञात्वा खैरमुपासते ॥ ३० ॥ शिवशक्त्यात्मसं[यन्त्र?घट्ट]रूपिणी ब्रह्मरूपिणी । तत्प्रथाप्रसराश्लेषभुवि त्विन्द्रोपलक्षिते ॥ ३१ ॥ ज्ञातुर्ज्ञानमयाकारकरणान्मन्तरूपिणी । मध्यबिन्दुवि[सर्गान्तः] समौस्थानमये परे ॥ ३२ ॥ कुटिलारूपके तस्याः प्रतिरूपे३ त्रियत्कले४ । मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः ॥ ३३ ॥ मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः । [बाह्य?राहु]कूटद्वयस्फूर्जच्च[रुद्रा?लक्ता]संस्थितस्य तु ।३४। धर्माधर्मस्य वाच्यस्य [वीरा?विषा]मृतमयस्य च । वाचकाक्षरसंयुक्तेः प्रथिताँ विश्वरूपिणी ॥ ३५ ॥
१ 'भ्रं' ख पाठ । २ 'मस्था' ख पाठ । ३ 'बिम्ब' क पाठ । ४ 'ता' क पाठ । ५ 'णीम्' क पाठ ।
एकोनत्रिंशः पटलः । २६६ तेषां समस्तरूपेण पराशक्तिस्तु मातृका । कूटत्रयात्मिका देवी समष्टिव्यष्टिरूपिणी ॥ ३६ ॥ कूटत्रये तु ह्रींकारं देव्या नेत्रत्रयं शुभम् । हकारस्त्वग्निरू[ढ?प]त्वात् संहरेद्भेदसंततिम् ॥ ३७ ॥ रेफः कालाग्निरू[ढ?प]त्वात् पापौघक्षयकारकः । तयोर्विमर्श ईकारो बिन्दुना त्रिगुणात्मना ॥ ३८ ॥ अमृतत्वं करोतीन्दुः कामः कामानशेषतः । सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ॥ ३६ ॥ विश्वाकारप्रथायास्तु महत्त्वं च (स?य)दाश्रयम् । शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ॥ ४० ॥ जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये । पञ्चभूतमयं विश्वं तन्मयी सा सनातनी ॥ ४१ ॥ तन्मयी मूलविद्या च तथापि कथयामि ते । हकाराद्व्योम संभूतं (ह?क)कारात्तु प्रभञ्जनः ॥ ४२ ॥ रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः । लकारात् पृथिवी जाता तस्माद्विश्वमयी च सा ॥ ४३ ॥ गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शुभा । यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता ॥ ४४ ॥ १ 'का देवी' क पाठ । २ 'णीम्' क पाठ । ३ 'त्मना' क पाठ ।
२७० गन्धर्वतन्त्रे । सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः । व्याप्या पञ्चदशार्णैः सा पञ्चभूत[स्तु?गु]णात्मिका¹ ॥ ४५ ॥ पञ्चभिश्च तथा षड्भिश्चतुर्भिरपि चाक्षरैः । स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ॐ ॥ ४६ ॥ सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी । तत्त्वातीतस्वभावा च विज्ञेयं भाव्यते सदा ॥ ४७ ॥ पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् । भूतं[लं सस्तलं?त्वधस्तनं] व्याप्यं तद्गुणा व्यापकाश्रयाः ४८ व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः । तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ॥४६॥ व्योमबीजैस्तु विद्या[चै?स्थै]र्लक्ष्ये[तु च?च्छब्द] पञ्चकम् । तेषा कारणरूपेण स्थितं व्योममये परम् ॥ ५० ॥ भवे(ज्जवलु?द्गुण)वतां बीजं गुणानामपि वाचकम् । कार्यकारणभावेन तयोरैक्यविवक्षया ॥ ५१ ॥ १ 'काम्' क पाठ । २ 'ध्वनिमय' ख पाठ । ॐ प्रथमबीजेऽकारचतुष्टयमकारश्चेति पञ्च स्वरा व्यञ्जनषटक चेति एवमेकादश । द्वितीयबीजेऽकारपञ्चकमीकारश्चेति षट् स्वरा सप्त व्यञ्जनानि एव त्रयोदश । तृतीयबी- जेऽकारत्रयमीकारश्चेति चत्वार स्वरा पञ्च व्यञ्जनानि एव नव । एवं विभजने त्रय- स्त्रिशत् । बीजत्रयान्ते बिन्दुद्वयम् इति षट्त्रिंशत् । एतत्समष्टिरेका । एव सप्तत्रिंश- त्प्रभेदिनी विज्ञेति ।
एकोनत्रिंशः पटलः । २७१ महामायात्रयेणापि कारणेन च बिन्दुना । वाय्वग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ॥ ५२ ॥ उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः । रूपाणां त्रितयं त[त्त्वं?द्वत्]त्रिभी रेफैर्विभावितम् ॥ ५३ ॥ प्रधानं तेजसो रूपं तद्बीजेन हि जन्यते । विद्यास्थैश्चन्द्रबीजैस्तु स्थूलः सूक्ष्मो रसः स्मृतः ॥ ५४ ॥ सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च । वसुन्धरागुणो गन्धस्त[द्विद्धि?ल्लिपिः]गन्धवाचिका ॥ ५५॥ भुवनत्रयसं [बुद्ध्या?बन्धात्] त्रिधात्वं तु महेश्वरि । अशुद्ध [स्तत्त्व?शुद्ध] मिश्राणां प्रमातॄणां परं वपुः ॥ ५६ ॥ क्रोधीशत्रितयेनाथ विद्यास्थेन प्रकाश्यते । श्रीक[श्व?ण्ठ] दशकं तद्वद्व्यक्तस्य हि' वाचकम् ॥ ५७॥ प्राणारूपस्थितो देवि त (त्त्वमे?द्वाद)कादशः (पुनः?परः) । एकः सन्नेव पुरुषो बहुधा जायते हि सः ॥ ५८ ॥ रुद्रेश्वरसदेशाख्या देवता मितैविग्रहाः । बिन्दु(क्रमे?त्रये)ण कथिता, अमितामितैर्विग्रहाः ॥ ५९ ॥ शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनैः । वा[ग्भवो?गुरा] मूलवलये सूत्राद्याः कवलीकृताः ॥ ६० ॥
२७२ गन्धर्वतन्त्रे । तथा ऽमन्त्राः समस्ताश्च विद्याया(य?म)त्र संस्थिताः । गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ॥ ६१ ॥ निग[र्वो?र्भो]ऽपि च देवेशि शिवगुर्वा[थ?त्म] गोचरैः । तत्प्रकारं च देवेशि दिङ्मात्रेण वदामि ते ॥ ६२ ॥ शिवगुर्वात्मनामैक्यानुसंधानात् तदात्मकम् । निष्कलत्वं शिवे बुद्ध्वा तद्रूपत्वं गुरोरपि । तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥ ६३ ॥ भावयेद्भक्तिनम्रस्तु शङ्कोन्मेषाकलङ्कितः । कौलिकं कथयिष्यामि चक्र[मे?दे]वतयोरपि ॥ ४६ ॥ विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते² । तथा मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥ ६५ ॥ एकादशाधिकशतै³र्देवतात्मतया स्थितम् । लकारैश्चतुरस्राणि, वृत्तत्रितयसंयुक्तम् ॥ ६६ ॥ सरोरुहद्वयं (शक्तो?शाक्तै)रग्नी(सो?षो) मात्मकं प्रिये । हृल्लेखात्रयसम्भु[ल्यै?तै]रक्षरैर्नवसंख्यकैः ॥ ६७ ॥ बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये । मण्डलत्रयसंयुक्तं चक्रं शक्त्यनलात्मकम् ॥ ६८ ॥ व्योमबीजत्रयेणापि, प्रमातृत्रितयात्मकम् । इच्छा[दिना?ज्ञान]क्रियारूपमादनत्रयसंयुक्तम् ॥ ६६ ॥ १ 'गौरव' क पाठ । २ 'दृश्यते' क पाठ । ३ 'त' क पाठ ।
एकोनत्रिंशः पटलः । २७३ सर्ववर्णात्मकं बिन्दुचक्रं सद्यः शिवात्मकम् । गणेशत्वं महादेव्याः ससोमरविपावकैः ॥ ७० ॥ इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैः पुनः । ग्रहरूपा परा देवी, ज्ञानकर्मेन्द्रियैरपि ॥ ७१ ॥ त(दुत्थै?दर्थै)रेव देवेशि करणैरान्तरैः पुनः । प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥ ७२ ॥ नक्षत्रविग्रहा जाता, योगिनीनामथोच्यते । त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥ ७३ ॥ वर्गाष्टकनिविष्टाभिर्योगिनी(भ्य?भि)स्तु संयुता । योगिनीरूपमास्थाय क्रीडते विश्वरूपिणी ॥ ७४ ॥ प्राणोऽपानः समानश्च व्यानोदानौ तथा पुनः । । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ७५ ॥ जीवात्मा परमात्मा च तैरेव [बलि?राशि]रूपिणी । अकथादित्रिपंक्त्यात्मतार्तीयादिक्रमेण सा ॥ ७६ ॥ (जनना?गणेशोऽ)भून्महाविद्या परावागादिवाङ्मयी । बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ७७ ॥ हृल्लेखात्रयसम्भूतैस्तिथिसंख्यैरथाक्षरैः । अन्यैर्द्वादशभि[र्व्यक्तै?र्वर्णै]रेषा नक्षत्ररूपिणी ॥ ७८ ॥
२७४ गन्धर्वतन्त्रे । विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः¹ षद्भिरथाक्षरैः । योगिनी[वर्गा?त्वं च]विद्याया, राशित्वं चान्त्यवर्जितैः ॥७६॥ एवं विश्वप्रथाकारचक्ररूपा महेश्व(रि?री) । देवीदेहो यथा देवि गुरुदेहस्तथैव च ॥ ८० ॥ तत्प्रसादाच्च शिष्योऽपि तद्रूपः सम्प्रकाशते । सहस्रदलमध्ये तु त्रिकोणं परिचिन्तयेत् ॥ ८१ ॥ तत्रैव मादनं बीजं बिन्दुमाश्रित्य दीपयेत् । कोटिचन्द्रप्रतीकाशं चिदानन्दमयं परम् ॥ ८२ ॥ अनुत्तरपदं गुह्यं ललाटोर्ध्वे व्यवस्थितम् । भगमाधारसंस्थानं त्रिकोणपुरमाश्रितम् ॥ ८३ ॥ मृणालतन्तुरूपौ हि विश्वोत्पत्तेश्च कारणम् । इच्छाज्ञानक्रियारूपा चतुर्थी हृदये स्थिता ॥ ८४ ॥ शक्रं ललाटमध्ये तु दीपाभं परिचिन्तयेत् । विद्युत्कोटिप्रतीकाशं पञ्चमं नेत्रनासिके ॥ ८५ ॥ शिवो नादाख्यसंयुक्तस्त्रिषु शून्येषु संस्थितः । सूर्यकोटिप्रतीकाशो महापद्मोपरिस्थितः ॥ ८६ ॥ सकारं मुखमध्ये तु बालार्कसदृशं परम् । मादनं जठरे देवि वराभं परिचिन्तयेत् ॥ ८७ ॥ १ 'कै' ख पाठ.। २ 'ष' ख पाठः।