गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 358, कुल 446 में से
संदर्भ में पढ़ेंित्रंशः पटलः । —=:!0:-=— ईश्वर उवाच , अकथ्यमपि देवेशि तव स्नेहाद्वदाम्यहम् । त्रिकूटान्ते हंसबीजं बिन्दुनादविभूषितम् ॥ १ ॥ विपरीतेन वा देवि दुर्लभं पापचेतसाम् । हकारः प्राणरूपस्तु सकारो जीव उच्यते ॥ २ ॥ उभौ जीवेति विख्यातौ त्रैलोक्ये सचराचरे । हकारं शुक्लवर्णाढ्यं चन्द्रकोटिसमप्रभम् ॥ ३ ॥ सकारं रक्तवर्णाढ्यं कोटिसूर्यसमप्रभम् । भावनं त्वस्य मन्त्रस्य जपमात्रं न विद्यते ॥ ४ ॥ अजपा तेन विख्याता शिवशक्तिसमन्विता । न्यासमन्त्रस्य विद्याया हकारः प्राण उच्यते ॥ ५ ॥ सकारो जीव आख्यातो जीवः कामेन मण्डितः मादनं प्राणरूपं तु वि(मर्श?कासः) शिव उच्यते ॥६॥ सकारस्थः परो ज्ञेयः संकोचः शक्तिरूपवान् । संकोचः परमा शक्तिर्वि(मर्शः?कास.) परमः शिवः ॥७॥ संकोचश्च विकासश्च हस इत्यक्षरद्वयम् । तयोरखररूपेण [क?ह]वर्णौ बिल्व(न्दु)मालिनी ॥ ८ ॥
१ 'सकार जीवमाख्यात जीव कामेन मण्डितम्' क पाठ ।