गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 380, कुल 446 में से
संदर्भ में पढ़ेंचतुस्त्रिंशः पटलः। —=०४०=— ईश्वर उवाच कुलाचारं शृणु प्राज्ञे प्रकीर्णं कथ्यते मया । (अमा?विना मान्) दक्षिणां वामं नोपोष्या परमां यजेत् ॥ १॥ प्राणिहिंसां न कुर्वीत न चात्मानं प्रपीडयेत् । हेतुद्रव्यमनास्वाद्य न स्मरेत्सुन्दरीं शिवे ॥ २॥ विना मद्येन मांसेन परस्त्रीरमणं विना । यजनं तु महादेव्या अगव्यं भोजनं यथा ॥ ३॥ अनैन्दवमगत्यं च भोजनं मृतभोजनम् । उपवासव्रतं नैव कुर्यादिह कदाचन ॥ ४॥ दुर्गन्धवदनो वापि विरागवदनोऽपि च । अकौलभूषणो वापि रक्तपुष्पविवर्जितः ॥ ५॥ अविश्वासहृदा युक्तः शिवस्य पत्रधारकः । तथा नान्यमना भूत्वा सुन्दरीं समुपासयेत् ॥ ६॥ अतो न तुलसीपुष्पैस्तत्पत्रैर्न यजेत्पराम् । कन्यायोनिं न वीक्षेत³ बीभत्सं न विलोकयेत् ॥ ७॥ न नग्नां नान्ययोषां च न वीक्षेतप्रकटस्तनीम् । क्रीडाकुलकुमारीणां दर्शनाद्वन्दनं शिवे ॥ ८॥
१ 'नैवो' क पाठ. । २ 'च' क पाठ । ३ 'यु' क पाठ. ।