भारतकोश
गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

पृष्ठ 382, कुल 446 में से

संदर्भ में पढ़ें
पृष्ठ 382

चतुस्त्रिंशः पटलः । ३०१ द्वापरे त्वग्गताः प्राणाः कलावन्नगता मताः । निराहारव्रतं देवि कलौ तेन विवर्जितम् ॥ २० ॥ बलिदानं विना हिंसां कलौ नैवात्र कारयेत् । न स्वयं छेदयेद्देवि बलिं साधकसत्तमः ॥ २१ ॥ बलिदानं विना देव्याः प्रीतिर्नान्यैस्तथा भवेत् । प्रोक्षणे तु परो मन्त्रः सोऽयमेव प्रकीर्तितः ॥ २२ ॥ उत्बुध्यस्व पशो त्वं हि नापरस्त्वं शिवोऽसि हि । शिवोत्कृत्यमिदं पिण्डमतस्त्वं शिवतां व्रज ॥ २३ ॥ बहवो नैव हन्तव्या यदीच्छेदात्मनो हितम् । बहवो यत्र हन्यन्ते तत्र कृत्या क्षयंकारी ॥ २४ ॥ भवत्येवाचिरेणैव बन्धनोच्चाटनं शिवे । आत्मप्राणसमा देवि परेषामपि सा कथा ॥ २५ ॥ परहिंसाभवोऽधर्मः क्रमात् सर्व हरिष्यति । य इहात्मकृते देवि परान्निष्पीड्य जीवति ॥ २६ ॥ नेहापि लभते सिद्धिं परत्रापि कदाचन । यो वा विधिमनादृत्य जन्तून् हत्वा शिवां यजेत् ॥ २७ ॥ भवन्त्येव महोत्पाता (य ? स्त) त्र तस्य न संशयः । यज्ञादिषु महेशानि हिंसया दारुणाज्ञया ॥ २८ ॥ परहिंसाभवोऽधर्मः परिणामेऽतिदुःखदः । तथैव प्रतिजानेऽहं मोहात्किं वा न दृश्यते ॥ २६ ॥ कियत्कालसुखावाप्तिकाम्यया कामुकान् शिवे । हन्तीह परमो मोहः परमोहः सुदारुणः ॥ ३० ॥


१ 'शोस्तुष्टि नापरस्त' क पाठ । २ 'शिवायत्तमित्क पाठ । ३ 'निष्पाद्य' क पाठ । ४ 'नीहि' ख पाठ । ५ 'प्ति' क पाठ ।