गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
पृष्ठ 383, कुल 446 में से
संदर्भ में पढ़ें३०२ गन्धर्वतन्त्रे । ममत्व१समता देहे प्रिये चातिसुदुर्लभे । तस्मादेषु महद्दुःखं नान्यत्र खलु पार्वति ॥ ३१ ॥ देहत्यागे शुनो य(स्मा ? द्व)त्तथेन्द्रचन्द्रयोरपि । आव्रयोर्जायते प्रीतिः कामदा कामुकस्य च ॥ ३२ ॥ न शस्तं मारणं कर्म ब्रह्मासौ ब्रह्मसाधके । यदा सर्वाणि भूतानि स्वात्मैव परिपश्यति ॥ ३३ ॥ सर्वभूतमित्वात्मानं ब्रह्म संपद्यते तदा । शक्तिर्महेश्वरो ब्रह्म त्रयस्तुल्यार्थवाचकाः ॥ ३४ ॥ स्त्रीपुंनपुंसको भेदः शब्दतो न परार्थतः । अन्ते सिद्धिर्भवेत्पुंसां वशगा भोगमोक्षदा ॥ ३५ ॥ स्त्रीणामपीह पुरुषो वशगः सर्वसिद्धिदः । नपुंसकात्मकं तत्तु स्वयमेव प्रकाशते ॥ ३६ ॥ द्वयोरेकतरद्वैतयोगान्मत्तैकभावना । निष्ठीवनं२रवं छिक्कामधोवायुविसर्जनम् ॥ ३७ ॥ पूजामध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः । देशानां व्यवहारा(णि ? दि)विज्ञाय मतिमान् सदा ॥ ३८ ॥ पञ्चमादिपराम(र्षः ? र्श)स्वतन्त्रो न भवेत् क्वचित् । यत्र देशे य३ आचारस्तत्र धर्मस्तु तादृशः ॥ ३६ ॥ अविरोधः सर्वभूतैः परिपन्थिषु निग्रहः । अनुग्रहः संश्रितेषु देववत् पुरुषेऽपि च ॥ ४० ॥ गुरुपुत्रकलत्रादि गुरुवदेव संश्रयेत् । पर्वसु च विशेषार्चां कुलवृक्षान्नपल्लवः ॥ ४१ ॥ १ 'त्व ममता' क पाठ । २ 'वूल वर शूका' क पाठ । ३ 'च' क पाठ । ४ 'क्षौन्' क पाठ ।