गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
३०२ गन्धर्वतन्त्रे । ममत्व१समता देहे प्रिये चातिसुदुर्लभे । तस्मादेषु महद्दुःखं नान्यत्र खलु पार्वति ॥ ३१ ॥ देहत्यागे शुनो य(स्मा ? द्व)त्तथेन्द्रचन्द्रयोरपि । आव्रयोर्जायते प्रीतिः कामदा कामुकस्य च ॥ ३२ ॥ न शस्तं मारणं कर्म ब्रह्मासौ ब्रह्मसाधके । यदा सर्वाणि भूतानि स्वात्मैव परिपश्यति ॥ ३३ ॥ सर्वभूतमित्वात्मानं ब्रह्म संपद्यते तदा । शक्तिर्महेश्वरो ब्रह्म त्रयस्तुल्यार्थवाचकाः ॥ ३४ ॥ स्त्रीपुंनपुंसको भेदः शब्दतो न परार्थतः । अन्ते सिद्धिर्भवेत्पुंसां वशगा भोगमोक्षदा ॥ ३५ ॥ स्त्रीणामपीह पुरुषो वशगः सर्वसिद्धिदः । नपुंसकात्मकं तत्तु स्वयमेव प्रकाशते ॥ ३६ ॥ द्वयोरेकतरद्वैतयोगान्मत्तैकभावना । निष्ठीवनं२रवं छिक्कामधोवायुविसर्जनम् ॥ ३७ ॥ पूजामध्ये तु यः कुर्यात् स भवेद्योगिनीपशुः । देशानां व्यवहारा(णि ? दि)विज्ञाय मतिमान् सदा ॥ ३८ ॥ पञ्चमादिपराम(र्षः ? र्श)स्वतन्त्रो न भवेत् क्वचित् । यत्र देशे य३ आचारस्तत्र धर्मस्तु तादृशः ॥ ३६ ॥ अविरोधः सर्वभूतैः परिपन्थिषु निग्रहः । अनुग्रहः संश्रितेषु देववत् पुरुषेऽपि च ॥ ४० ॥ गुरुपुत्रकलत्रादि गुरुवदेव संश्रयेत् । पर्वसु च विशेषार्चां कुलवृक्षान्नपल्लवः ॥ ४१ ॥ १ 'त्व ममता' क पाठ । २ 'वूल वर शूका' क पाठ । ३ 'च' क पाठ । ४ 'क्षौन्' क पाठ ।
चतुस्त्रिंशः पटलः । ३०३ अनिच्छा मिथ्यावचने परदारधनेषु च । स्वस्तुतौ परनि(न्देच?न्दायां)आनन्दंचापि न स्पृशेत् ॥ ४२॥ संभाष्याभिमुखीं शक्तिं नासंभाष्य व्रजेत् क्वचित् । स्त्रीणां समूहमालोक्य प्रणमेद्भावतत्परः ॥ ४३ ॥ पुण्ड्रेक्षुदण्डजातानि भक्षयेन्न कदाचन । प्राज्ञेनैव सदा कार्या पूजा सर्वसमृद्धिदा ॥ ४४ ॥ आगमोक्तविधौ दृष्ट्या त्यजेद्दोषं¹ तु पञ्चमे । स्नायात् सुगन्धिसलिलैः स्याद्देहो निर्मलो यथा ॥ ४५ ॥ निर्मलं धारयेद्वासः सर्वदा निर्मलः शुचिः । सुस्निग्धदेहवदनो न रूक्षः स्यात् कदाचन ॥ ४६ ॥ कृत्वा सुमङ्गलं देहं मृदुभाषणतत्परः । न बहु प्रलपेद्धीरो नैव रूक्षं कदाचन ॥ ४७ ॥ गन्धर्वरूपवान् भूत्वा वीणावादनतत्परः । मदिराघूर्णनयनो मदिराक्षीसमन्वितः ॥ ४८ ॥ सर्वदा देवताभावः संगीतरसपारगः । यतिर्वा भूपतिर्वापि प्रशस्तः साधकोत्तमः ॥ ४६ ॥ भूपतिर्व्यस्तसंभारैर्यतिरिन्द्रियनिग्रहैः । चतुराश्रमिणां मध्ये ह्यवधूताश्रमो महान् ॥ ५० ॥ खादन् मांसं पिबन् मद्यं विषयी विषयान्(यु?जु)षन् । रामारमो रमणीभिर्भूषिताभिर्विभूषितः ॥ ५१ ॥ तत्तदानन्दसंदोहैरानन्दितान्तरात्मवान् । निस्पन्देन्द्रियवान् यस्तु सोऽवधूतो यतिर्महान् ॥ ५२ ॥ १ 'पमप' क पाठ । २ 'चि' क पाठ ।
३०४ गन्धर्वतन्त्रे । स्रक् चन्दनं च वस्त्रादि भूषणं यद्विलेपनम् । यदृच्छयोपपन्नं यत् तदप्यन्यैर्निवेदितम् ॥ ५३ ॥ अगृध्नुदुपयुञ्जीत न चासक्तमना भवेत् । एकान्तविजने रम्ये सदा योगं समभ्यसेत् ॥ ५४ ॥ इन्द्रियाणि यदा भिक्षोश्चञ्चलानि महात्मनः । तदा पर्यटनं कार्यं तीर्थादिषु प्रयत्नतः ॥ ५५ ॥ विभूतिभूषणो भिक्षां कुर्वन्नैकत्रै संवसेत् । त्वं मातर्देहि मे भिक्षां कुण्डलीं तर्पयाम्यहम् ॥ ५६ ॥ विभूतिमतुलां प्राप्य न मत्तो नैव मत्सरी । संपत्तौ च निरानन्दः समरूपगुणान्वितः ॥ ५७ ॥ सर्वदानन्दहृदयो दानभोगपरायणः । प्रासादे चोत्तमे रम्ये लाक्षारुणसमप्रभे ॥ ५८ ॥ दिव्योपकरणैर्युक्ते मणिकाञ्चनभूषिते । परार्ध्यास्तरणे रम्ये रत्नसिंहासने शुभे ॥ ५९ ॥ नानाकुसुमसौरभ्यसुरभीकृतदिङ्मुखे । चन्दनागुरुकर्पूरधूपैः संमोदितान्तरे ॥ ६० ॥ कर्पूरज्वलितैर्दीपैरुज्ज्वले रत्नसंज्वले । शरच्चन्द्रनिभं छत्रं मुक्तामाणिक्यमण्डितम् ॥ ६१ ॥ हेमदण्डशिखालम्बिश्वेतचामरभूषितम् । निधायोर्ध्वं विशेत् तत्र कृतासनपरिग्रहः ॥ ६२ ॥ चन्दनागुरुकर्पूरमृगनाभिविलेपितः । सर्वशृङ्गारवेशाढ्यो रत्नभूषाविभूषितः ॥ ६३ ॥ १ 'न्न चिरं वसेत्' क पाठ । २ 'लीस्त' क पाठ । ३ 'र' क पाठ ।
चतुस्त्रिंशः पटलः । ३०५ स्रग्भिर्विचित्रभूषाभिर्भूषितोऽतिमनोहरः । कर्पूरशकलोन्मिश्रताम्बूलपूरिताननः ॥ ६४ ॥ निर्वृत्ताखिलचिद्वृत्तिर्मदिराघूर्णलोचनः । विधाय पुरतः शक्तिं सुवेशां सुमनोहराम् ॥ ६५ ॥ दुकूलक्षौमकौशेयैर्नानारत्नैर्विराजिताम् । निर्लेपं निर्गुणं शुद्धमात्मानं त्रिपुरामयम् ॥ ६६ ॥ आत्माभेदेन संचिन्त्य याति तन्मयतां नरः । भोगेन मोक्षमाप्नोति स्वयं त्रिपुरभैरवः ॥ ६७ ॥ तत एव समुत्पन्ना ब्रह्मविष्णुमहेश्वराः । तदेवैते न संदेहस्तस्माद्भिन्नं न भावयेत् ॥ ६८ ॥ भेदावभाषिणो मूढाः पतन्त्येव वरानने । सर्वदो सर्वदाः सर्वास्तोषयेद्भूषयेत् स्त्रियः ॥ ६६ ॥ वासोभूषणगन्धाद्यैः पेयैर्भक्ष्यैर्मुदान्वितः । प्रथमे राजसो भूत्वा द्वितीये तामसो भवेत् ॥ ७० ॥ तृतीये सात्त्विको धर्मी तुर्ये पञ्चपरायणः । पूजाहोमजपान्तेऽस्या बलिभिः शत्रुनिग्रहैः ॥ ७१ ॥ दानभोगैस्तृतीये च चतुर्थे संमतात्मनः । तच्चित्तस्तद्गतप्राणो मदिरामदविह्वलः ॥ ७२ ॥ सात्त्विको दिव्यभावस्तु स्थिराय जायते पुनः । नाशाय (सै ? चै) व भावस्तु तामसः खलु मानुषे ॥ ७३ ॥ विपर्ययाद्भवेन्मृत्युर्कालसंभवः शिवे । विषशस्त्रजनैश्चौरैर्दस्युभिर्वा वरानने ॥ ७४ ॥ १ 'परित' क पाठ । २ 'पे' क पाठ । ३ 'भामिन्यो' क पाठ । ४ 'दा' क पाठ । ५ 'चतुर्थे' क पाठ । ६ 'म' क पाठ । ७ 'त्ता' क पाठ । ८ 'णा' क पाठ ९ 'क्षा' क. पाठ. ।
३०६ गन्धर्वतन्त्रे । विनाशं तस्य दुर्बुद्धेः समूलं विद्धि पार्वति । पुत्रमित्रकलत्रादिसुहृद्धृत्यादयोऽपरे ॥ ७५ ॥ विप्रा भ्रात्रादयो यस्य वि (सी? षी) दन्ति सुदुःखिताः । दुश्चरित्राः स्त्रियो यस्य भवन्त्यन्तःपुरे शिवे ॥ ७६ ॥ मृगयाभिरतिर्यस्य दुरोदरप्रियस्य च । अद्भुतानि च जायन्ते हाहाकारयुताः प्रजाः ॥ ७७॥ पीडिताः क्लेशविक्षिन्ना विपत् तस्य पदे पदे । यस्यैते चातिसंतुष्टाः सुस्था मङ्गलशंसिनः ॥ ७८ ॥ तस्यायुर्वर्धते नित्यं महालक्ष्मीः स्थिरा गृहे । कलहो यस्य देवेशि विना कारणमापतेत् ॥ ७६ ॥ नार्योऽमङ्गल (संशि ? शंसि) न्यस्तस्य हानिं विनिर्दिशेत् । एतेषामपि चान्येषां दोषाणां ग्रहसंकटे ॥ ८० ॥ आयुर्वृद्धौ तथा शान्त्यै कोटिहोमं चरेन्नृपः । कोटिहोमात् परं नास्ति कर्म रिष्टिविनाशने ॥ ८१ ॥ न तत्तुल्यं तथा रैक्षां महोत्पातविनाशनम् । पुरश्चर्यां प्रकुर्वीत संध्यासु जपतत्परः ॥ ८२ ॥ वर्षेकेन हि तत् सिद्ध्येत् सर्वविघ्नविनाशनम् । ज्ञानलोपो भवेद्यस्य मद्यपानात् सुलोचने ॥ ८३ ॥ विकारं जनयेद्वापि स पुनर्यात्यधोगतिम् । प्रलापो भ्रंशनं हास्यं क्रोधोन्मादभयानकाः ॥ ८४ ॥ आलस्यं चातिचिन्ता च परानिष्टप्रवर्तनम् । हिंसासूथा तथेर्ष्या च दम्भमोहौ प्रमादता ॥ ८५ ॥ १ 'नि' क पाठ । २ 'राज्ये' क पाठ । ३ 'प' क पाठ ।
चतुस्त्रिंशः पटलः । ३०७ आवेशो मरणं मूर्च्छा विकाराः समुदीरिताः । समता सर्वभूतेषु मानापमानयोः समः ॥ ८६ ॥ समः शत्रौ च मित्रे च समलोष्टाश्मकाञ्चनः । ब्रह्मचिन्तोद्द्भवानन्दनिवृत्तबाह्यचित्तता ॥ ८७ ॥ सर्वकालेषु सर्वत्र समत्वं निर्विकारता । चक्षुषोरनिमेषत्वं मधुरस्मितभाषणम् ॥ ८८ ॥ अमृतस्य गुणा एते कथिता भुवि दुर्लभाः । वैराग्यं च मुमुक्षुत्वं त्यागिता सर्ववश्यता ॥ ८९ ॥ अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम् । सर्वभूतेष्वनुकम्पा सर्वज्ञादिगुणोदयः ॥ ९० ॥ इत्यादिगुणसंपत्तिः सिद्धेर्लक्षणमुच्यते । ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम् ॥ ९१ ॥ नृपाणामङ्गनानां च राजत्वं लोकवश्यता । महैश्वर्यं धनित्वं च पुत्रदारादिसंपदः ॥ ९२ ॥ अधसाः सिद्धयः प्रोक्ता मन्त्रिणां प्रथमस्त्विह । सिद्धयस्तु सुराः साक्षान्मानवानामसंशयः ॥ ९३ ॥ यत्कृते परमेशानि निःश्वसन्ति कुलाङ्गनाः । साश्रुपातं विना पञ्च गद्गदं भृशदुःखिताः ॥ ९४ ॥ तस्य स्युर्विफलाः सर्वाः क्रियाः सर्वत्र चोदिताः । कान्तासंतापजो वह्निर्दहत्यासप्तमं कुलम् ॥ ९५ ॥ कान्ताः संतोषयेत् तस्माद्विप्रियं न मनाक् स्पृशेत् । संसिद्धेः कारणं कान्ता मूलं संसारवर्त्मसु ॥ ९६ ॥ १ 'स्व' क पाठ ।
३०८ गन्धर्वतन्त्रे । जाया मुख्यतमा प्रोक्ता यादौ पाणिप्रपीडिता । जायते स्वयमेवास्यां जाया तेन निगद्यते ॥ ६७ ॥ एका पतिव्रता भार्या साध्वी चेत्सहचारिणी । किमन्याभिर्महेशानि यथैवाहं त्वया प्रभुः ॥ ६८ ॥ श्रिया विष्णुः सरस्वत्या ब्रह्मा शच्या पुरंदरः । एकया चेप्सितं (कृत्वा १ कार्यं) मनसाकृष्य पूरुषम् ॥ ६६ ॥ त(स्याप्ये २ स्मादे) कां समासाद्य नाप्यन्यां मनसा स्मरेत्। जाया चेत् कुलटा गेहे स्वयं कुलोपचारकः ॥ १०० ॥ मूषिकोपहतं कोषं तथा तस्य तदीरितम् । प्रयत्नेन विना देवि या स्वयमभिकाङ्क्षति ॥ १०१ ॥ यदा तदा तु सा तस्य परकीया न चोच्यते । हठादाकर्षते यस्तु प्रलोभ्य च धनादिभिः ॥ १०२ ॥ परकान्तां महेशानि स याति चाधमां गतिम् । स्वकान्ता परकान्ता वा कामविरहिता शिवे ॥ १०३ ॥ या नेच्छन्तीप्सयाश्रद्धां तां गत्वा च तथा भवेत् । दुःशीला तु यदा नारी त्यजेत् तां नैव ताडयेत् ॥ १०४ ॥ अतिदुष्टां स्त्रियं देवि नीचपुरुषगामिनीम् । राजद्वारे च दिग्वस्त्रां त्यजेत् तां नैव संश्रयेत् ॥ १०५ ॥ कुलशास्त्रं कुलाचारान्४ कामयागमनुत्तमम् । अयोग्येषु प्रकाशयैव सिद्धोऽपि नश्यति ध्रुवम् ॥ १०६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे कुला- चारवर्णनं नाम चतुस्त्रिंशः पटलः ॥ ३४ ॥ १ 'कं' ख पाठ । २ 'न्य' ख पाठ । ३ 'त्वाप्ता' ख पाठ । ४ 'रं कुल' क पाठ ।
पञ्चत्रिंशः पटलः । ————— ❖❖❖❖❖ ————— देव्युवाच साधका गुप्तरूपाश्च तेषां साध्यं कथं भवेत् । साध्यं च कीदृशं देव काम्यं वा कीदृशं भवेत् ॥ १ ॥ पूजा च कीदृशी कार्या तन्मे वद सुविस्तरात् । ईश्वर उवाच अत्यन्तगुप्तरूपेण काम्यं कृत्वार्चयेन्नरः ॥ २ ॥ तदा तत्काममाप्नो (ति म ? त्यान) न्दभाक् शक्तिपूजनात् । पूजाफलेन दौर्भाग्यं दुःखदारिद्र्यसंकुलम् ॥ ३ ॥ सर्वं प्रशमनं याति चेश्वरो जायते भुवि । अतिगुप्ततरं यस्मात् तस्माद्रात्रौ विधीयते ॥ ४ ॥ प्रकटे कार्यहानिः स्यात् क्रुद्धा भवति सुन्दरी । गुरुभक्तिविहीनस्य विफलं साधनं प्रिये ॥ ५ ॥ अहं गुरुप्रसादेन सर्वगः सर्ववित् प्रभुः । शक्तेः पूजा सदा कार्या प्रसन्ना येन सा भवेत् ॥ ६ ॥ विफला शक्तिरहिता पूजाऽऽसंवप्रसारिणी । ध्यानमानन्दरहितं यथा निष्फलमद्रिजे ॥ ७ ॥ शक्तौ दर्पं घृणां लज्जा वर्जयेत् क्रोधमत्सरम् । कदाचिद्दर्परूपेण पुष्पेणापि न ताडयेत् ॥ ८ ॥ शक्तौ न विस्मयः कार्यों यस्मात्सा तत्स्वरूपिणी । विस्मिता विलयं यान्ति पशवः शास्त्रमोहिताः ॥ ६ ॥ ———————————————————————————————— १ 'र्वे' क पाठ :
३१० गन्धर्वतन्त्रे । सु¹भक्त्या प्रणमेद्यस्तु शक्तिमेकाग्रचेतसा । तस्य सर्वार्थसिद्धिः स्यादन्ते मोक्षमवाप्नुयात् ॥ १० ॥ निश्चयं मुक्तिमाप्नोति सहस्रैशक्तिपूजनात् । शक्तिपूजासु विमुखः पामरः पुरुषाधमः ॥ ११ ॥ स निर्लज्जः कथं ब्रूते पूजयामि महेश्वरीम् । पूजाहोमं विना चेह नाधिकारः कथंचन ॥ १२ ॥ विना होमं महेशानि शक्तियागमकारणम् । शक्तियागं विना होमो निष्फलो नात्र संशयः ॥ १३ ॥ तस्माद्भावविशुद्धात्मा सर्वतन्त्रार्थकोविदः । साधकोऽपि च तत्त्वज्ञो नित्यं शक्तिं समाश्रयेत् ॥ १४ ॥ मदिराया न वा शक्तौ जातिवृत्तिं विचारयेत् । नानाजातिषु सम्भूतां व्रजेत् संप्राप्य न त्यजेत् ॥ १५ ॥ सर्वशङ्काविनिर्मुक्तः सर्वज्ञः साधकोत्तमः । शक्तियागविधिं कृत्वा भवेद्भूमौ पुरन्दरः ॥ १६ ॥ पूजयेदर्थरात्रे च निर्जने पशुवर्जिते । सर्वालंकारसुभगो गन्धचन्दनभूषितः ॥ १७ ॥ आकृष्य विमलां शक्तिं रमणीं वामलोचनाम् । हारा³लंकारसुभगां घृणालज्जाविवर्जिताम् ॥ १८ ॥ परार्ध्यास्तरणे रम्ये स्थापयेत्² तूलिकोपरि । स्थापयेत् सुरया पूर्णं कुम्भं वामे सुवासितम् ॥ १६ ॥ आनन्दहृदयं कृत्वा सद्यः प्रसन्नमानसः । गुरुं नत्वा विधानेन ह्यमृतं तद्विचिन्तयेत् ॥ २० ॥ १ ‘स्व’ क पाठ । २ ‘स्र’ ख पाठ । ३ ‘नाना’ ख पाठ । ४ ‘दाफलो’ क ख पाठ ।
पञ्चत्रिंशः पटलः । ३११ मांसं मत्स्यं तथा मुद्रां विधाय पुरतः शिवे ॰१। अर्घ्यपात्रं तदा वह्निसूर्यसोमामृतं स्मरेत् ॥ २१ ॥ सिन्दूरेण ललाटेऽस्याः कृत्वा तिलकमद्रिजे । साध्यं च विलिखेत्तत्र मूलविद्याविदर्भितम् ॥ २२ ॥ गन्धैः पुष्पैस्तथा माल्यैर्भूषयित्वा तु तां पुनः । कृत्वा धूपेन सौगन्ध्यं दीपानुज्ज्वल्य पार्वति ॥ २३ ॥ नाभेश्चरणपर्यन्तं वाग्भवं कूटमुत्तमम् । हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ॥ २४ ॥ शिरसो हृत्प्रदेशान्तं तदीयं परिभावयेत् । सर्वदेवमयं देहं सर्वमन्त्रमयं वपुः ॥ २५ ॥ चिन्तयेत्साधकः शक्तिं साक्षात् कामेश्वरीं पुरः । हृदि हस्तं समादाय जपेदष्टोत्तरं शतम् ॥ २६ ॥ आत्मानं चिन्तयेत्कामं शक्तिं कामेश्वरीं पराम् । मुहुर्मुहुः पिबेन्मद्यं शक्तिजिह्वावलोडितम् ॥ २७ ॥ मन्त्रशुद्धं पिबेन्मद्यं निःशब्दं हास्यवर्जितः । भोजनान्ते विषं पानं पानान्ते भोजनं विषम् ॥ २८ ॥ अमृतं तद्विजानीयाद् यदन्नं सुरया सह । विष्णुना च पुरा पीतौ३ शंकरेण ततः परम् ॥ १६ ॥ शक्रेण च तथा पीता पुष्पदन्तेन चैव हि । शुक्रेण च पुरा पीता दत्तात्रेयेण सेविता ॥ ३० ॥ श्रीमता बलरामेण समानीताथ भूतले । तस्मादिमां सुरां पुण्यां भक्त्या तां च पिबाम्यहम् ॥ ३१ ॥ १ 'सघोर' क पाठ. । २ 'दृदृहा' ख पाठ. । ३ 'त' क पाठ ।
३१२ गन्धर्व्वतन्त्रे । पशुपशविनाशाय दिव्यज्ञानोपलब्धये । इदं पवित्रममृतं पिबामि भवभेषजम् ॥ ३२ ॥ मद्यं मांसं तथान्यत्तु यत्किंचित् कुलभूषणम् । शक्त्यै दत्त्वा पुनः शेषमात्मन्येव नियोजयेत् ॥ ३३ ॥ पाययित्वा पुनः पानं तन्मुखादमृतं पिबेत् । ततश्च शोधयेद्दीपं दीपो भवति नान्यथा ॥ ३४ ॥ आनन्दोदयपर्य्यन्तं साधकश्च पिवेन्मधु । कर्पूर (स ? श) कलोन्मिश्रताम्बूलपूरिताननः ॥ ३५ ॥ मदिराघूर्णनयनो दिग्वासाः कुलभूषणः । वदेत् सविनयं वाक्यं सिद्धिदे परमेश्वरि ॥ ३६ ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव । इति प्रसादमासाद्य कारयेत्तां दिगम्बरीम् ॥ ३७ ॥ त्रिकोणावद्भगं ज्ञात्वा सर्वसिद्धिप्रदायकम् । कूटत्रयात्मकं स्मृत्वा सर्वानन्दमयं स्मरेत् ॥ ३८ ॥ आत्मानं देवतारूपमद्वैतं परिचिन्तयन् । पूर्णचन्द्रनिभं वक्त्रं पू (र्णेर्शीं ? र्णांदिं) चुम्बनैर्यजेत् ॥ ३६ ॥ जालन्धरं महापीठं स्तनद्वयमुदीरितम् । अपानमूरुयुगलं कामरूपमतः परम् ॥ ४० ॥ यत्पीठं ब्रह्मणो वक्त्रं गुह्यं सर्वसुखावहम् । यतो देवाश्च देव्यश्च मुनयश्चैव भौवजाः ॥ ४१ ॥ सर्वेऽप्याविर्भवन्त्येते तेन गुह्यं महीतले । द्विविधं चैव तत्पीठं गुह्यं व्यक्तं महेश्वरि ॥ ४२ ॥ १ 'रीम्' क पाठ । २ 'मानव' ख पाठ ।
पञ्चत्रिंशः पटलः । ३१३ व्यक्ताद्भुतं महापुण्यं दुरापं पशुभिः प्रिये । गुप्तं सर्वत्र देवेशि लभ्यते कुलपूजकैः ॥ ४३ ॥ यत्र तत्र यजेद्देवीमुपचारैस्तथाविधैः । लिङ्गेनाकर्षयेद्योनिं मुखे जिह्वामृतं पिबेत् ॥ ४४ ॥ नखदन्तक्षतान्यत्र पुष्पाणि विहितानि च । आलिङ्गनं तु कस्तूरीकर्पूरागुरुचन्दनम् ॥ ४५ ॥ चुम्बनं स्तवनं देवि मथनं ह(र?व)नं शिवे । त्रिभिः कूटैस्त्रिघातं स्यात् त्रिघातैर्जपमेकतः ॥ ४६ ॥ एवं कृत्वा महेशानि स च कामेश्वरो भवेत् । मद्यं मांसं विना देवि कुलपूजां यथा चरेत् ॥ ४७ ॥ जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति । निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् ॥ ४८ ॥ मुखं बिन्दुवदाकारं तदधः कु(ल?च)युग्मकम् । सर्वविद्यामृतैः पूर्णं सर्ववाग्विभवप्रदम् ॥ ४९ ॥ सर्वार्थसाधकं देवि सर्वरञ्जनकारणम् । तदधः परमेशानि स्वदेहं परिचिन्तयेत् ॥ ५० ॥ सर्वज्ञानसुसंपन्नं सर्ववश्यप्रदायकम् । ध्यात्वा यष्टाथवा देवि भवेत्कामकलान्वितः ॥ ५१ ॥ कुलस्य विविधं रूपं ज्ञात्वा तत्परिचिन्त्य च । कुलीनो जायते यस्मात् कथं तत्तु प्रकाशयेत् ॥ ५२ ॥ एवमभ्यासयोगेन सिद्धो भवति नान्यथा । मासेनाकर्षणी सिद्धिस्त्रिमासैर्वाक्पतिर्भवेत् ॥ ५३ ॥
१ 'खैजि' क पाठ । २ 'र्षा सिद्धि' क पाठ ।
३१४ गन्धर्वतन्त्रे । एवं चतुष्टये मासि भवेद्दिक्पालगोचरः । पञ्चमे पञ्चकामः स्यात् षष्ठे रुद्रो न संशयः ॥ ५४ ॥ चिन्तनं योषिता सार्धं पूजनं च तयैव हि । तया विरहितो मन्त्री न सिध्यति कदाचन ॥ ५५ ॥ भावयेद्योषिता सार्धं जुहुयाच्च तयैव हि । तया विरहितो मन्त्री न सिध्यति कदाचन ॥ ५६ ॥ स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् । स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रिया अपि ॥ ५७ ॥ रात्रौ पर्यटनं कार्यं रात्रौ च शक्तिपूजनम् । रात्रौ कुलकथालापं रात्रौ चान्यत् समापयेत् ॥ ५८ ॥ प्रातः स्नानं ततो देवि देवान्पितॄन्नृणांस्तथा । तर्पयित्वा यजेद्देवीमुपचारैर्यथाविधि ॥ ५९ ॥ पूर्वाह्नविहितां पूजां गृह्णाति परदेवता । मध्याह्नविहितां देवि गृह्णन्ति योगिनीगणाः ॥ ६० ॥ अपराह्नकृता पूजा नीयते यक्षराक्षसैः । पूर्वाह्णे दीयते यच्चैदमृतं समुदीरितम् ॥ ६१ ॥ मध्याह्ने तत्तु देवेशि शोणितं च परं स्मृतम् । तस्मात् सर्वप्रयत्नेन बाह्यपूजां महेश्वरि ॥ प्रातरेव सदा कुर्याद्गृहस्थो गृहिणीयुतः ॥ ६२ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे काम्यपू- जादिविधिनिरूपणं नाम पञ्चत्रिंशः पटलः ॥ ३५ ॥
१ 'बाण.' ख पाठ । २ 'म' ख पाठ । ३ 'तुन्न' क पाठ ।
षट्त्रिंशः पटलः । —:():*():— ईश्वर उवाच शक्त्यन्तरं प्रवक्ष्यामि सविकल्पस्य सुन्दरि । स्वशक्त्या परशक्तिं च यथानयति साधकः ॥ १ ॥ अदीक्षिताङ्गनासङ्गात् सिद्धिहानिर्भवेच्छिवे । तस्मात् सर्वप्रयत्नेन दीक्षयेन्निजकौलिनीम् ॥ २ ॥ गुरुसैवैकमात्रेण यथा सिद्धिर्भवेन्नृणाम् । महापद्मवनध्यानाद् यथा सिद्धीश्वरो भवेत् ॥ ३ ॥ त्रिपुराध्यानमात्रेण जीवन्मुक्तो यथा भवेत् । गङ्गास्मरणमात्रेण निष्पापो जायते यथा ॥ ४ ॥ योषित्स्मरणमात्रेण तथैयं वरदायिनी । न स्नानं न तथा पूजा न ध्यानं न्यासं एव वा ॥ ५ ॥ मन्त्रस्मरणमात्रेण योषितां वरदायिनी । निजकान्तां समानीय सुशीलां सुयशस्विनीम् ॥ ६ ॥ कुलभक्तं गुरुं प्राप्य दीक्षयेत् कुलविद्यया । दीक्षयित्वा गुरुस्तां तु निजपुत्रीवदाचरेत् ॥ ७ ॥ अद्य प्रभृति पुत्रि त्वं कुलपूजारता भव । यथोपदिष्टविधिना स्वामिनं वश्यमानय ॥ ८ ॥ १ 'समेव' क पाठ । २ 'मिवश्य समानय' क पाठ ।
३१६ गन्धर्वतन्त्रे । हररूपस्य त्वत्पत्युर्न^१चान्यं मनसा स्मर । इत्याज्ञां^२ च गुरोर्लब्ध्वा प्रणमेद्दण्डवद्भुवि ॥ ६ ॥ त्वत्पदाम्भोरुहच्छायां मूर्ध्नि देहि यशोधन । दीक्षिता नच योषा चेत् कथं स्यात्कुलपूजनम् ॥ १० ॥ कुलपूजा न चेद्देवि कुलविद्या पराङ्मुखी । दिवसं प्राप्य भौतं च निर्जने पशुवर्जिते ॥ ११ ॥ अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि । आनीय यत्नतः शुद्धं सिन्दूरं च मनोहरम् ॥ १२ ॥ तेन चक्रं समालिख्य सुरेखं परमोज्ज्वलम् । षट्कोणं पद्मगर्भस्थं शरावे दाहवर्जिते ॥ १३ ॥ तन्मध्ये प्रतिमां देवि सिन्दूरेण समालिखेत् । कपोले साध्यमालिख्य मूलमन्त्रविदर्भितम् ॥ १४ ॥ कामबीजं ततो देवि लिखेत् सर्वाङ्गसंधिषु । पुष्पासवं मुखे दत्त्वा वसन्तसुन्दरीं जपेत् ॥ १५ ॥ ꩜कामामिन्द्रं तुरीयं च बिन्दुनादसमन्वितम् । बीजं तद्भुवनेशाम्या द्वादशस्वरबिन्दुकम् ॥ १६ ॥ ततस्तु नीलसुभगे हिलिहिलि ततः परम् । विच्चे स्वाहापदं दद्याद्विद्या वसन्तसुन्दरी ॥ १७ ॥ ध्यानं कृत्वा तु सुन्दर्या जीवन्यासं च कारयेत् । संविदानन्दहृदयः साधकः स्थिरमानसः ॥ १८ ॥ संविदासवयोर्मध्ये संविदेव गरीयसी । संवि(यां ? दं) योजयेद्देवि स्वयं चापि कुलेषु च ॥ १६ ॥ १ 'नान्य मनसा सस्मर' क पाठ । २ 'ज्ञा कुलगुरो' क पाठ । ꩜ काम क इन्द्र ल तुरीयं बिन्दुनादादियुक्त ई भुवनेशी ह्री एव क्लीं ह्रीं नीलसुभगे हिलि हिलि विच्चे स्वाहा-इति वसन्तसुन्दरी ॥
षट्त्रिंशः पटलः । ३१७ ताम्बूलपूरितमुखो रक्ताभरणभूषितः । रक्तासनोपविष्टस्तु स्वकुलं तूलिकोपरि ॥ २० ॥ वामभागे समासीनं रक्तवस्त्रविभूषितम् । सर्वशृङ्गारवेशाढ्यं स्फुरच्चकितलोचनम् ॥ २१ ॥ जितामितकुचद्वन्द्वविशालकरिकुम्भेकम् । तत्स्कन्धे बाहुमाधाय भङ्ग्या धृतकुचाञ्चले ॥ २२ ॥ प्रतिमायां ततो देवि पूर्ववन्न्यासमाचरेत् । पूर्वोक्तविधिना पूजा कर्तव्या वीरवन्दिते ॥ २३ ॥ ताम्बूलपूरितमुखं कुशं तदभिसं(ज्ञि?हि)तम् । ध्यानयोगेन मनसा लक्षमेकं तदा जपेत् ॥ २४ ॥ शतयोजनसंस्थानां नदीपर्वतमध्यगाम् । दीपान्तरसहस्रेषु रक्षितां निगडादिभिः ॥ २५ ॥ पयोधरभारक्षुब्धगमनां श्यामलोचनाम् । नितम्बबिम्बविध्वस्तैर्गुरुजघनमण्डनाम् ॥ २६ ॥ साधकाद्धि(त?ष्ट)हृदयां विवरान्तःप्रसर्पिणीम् । कवाटलोहसंबद्धप्राकारविविधान्तरे ॥ २७ ॥ कुलाकुलजपं कृत्वा समानयति साधकः । होमान्तरं प्रवक्ष्यामि येन ब्रह्ममयो भवेत् ॥ २८ ॥ शिवशक्तिमयं विद्धि चेतनाचेतनं जगत् । मम ज्ञानप्रभावेन दृष्टं यत् कथयामि ते ॥ २९ ॥ निर्जने शुद्धदेशे च शुद्धनाडीगणः शिवे । सम आसन आसीनः समकायो यथासुखम् ॥ ३० ॥ १ 'स्तुकम्' क पाठ । २ 'स्ता' क पाठ. । ३ 'हिता' क. पाठ ।
३१८ गन्धर्वतन्त्रे । पद्मासनसमासीनः साधकः शुद्धचेतनः । प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ॥ ३१ ॥ हस्तावाच्छाद्य आधारयोगदण्डावलम्बिनौ । नयने नासिकाप्रान्ते निमेषोन्मेषवर्जिते ॥ ३२ ॥ भ्रुवोर्मध्ये स्थितश्चात्मा दन्तैर्दन्तांस्तु संस्पृशेत् । ओष्ठेन चाधरं चैव जिह्वया चाथ तालुकम् ॥ ३३ ॥ एषा तु सुन्दरीमुद्रा सुन्दरीमोददायिनी । सहस्रारे परे पद्मे आधारोत्थेन वायुना ॥ ३४ ॥ कुलदीपशिखाकारं संक्षोभ्यामृतमण्ड (नं ? लम् ) । सुधाधारां स्मरेद् भूयः पतितां मूलपङ्कजे ॥ ३५ ॥ एवं च सप्तधा कुर्याद्देवीसांनिध्यहेतवे । मूलेन ध्यानयोगेन स्मृत्वा ब्रह्ममयीं पराम् ॥ ३६ ॥ हृदये पद्ममध्ये तु बाणलिङ्गे तु तेजसि । तत्राचां पूजयेद्देवीं हृदये कामरूपिणीम् ॥ ३७ ॥ पूरकेन समावाह्य संस्थाप्य कुम्भकेन तु । देहचक्रं समापाद्य दद्यात् पाद्यादिकं मुदा ॥ ३८ ॥ कुण्डलीपात्रसंस्थेन परमामृतवारिणा । पाद्यं चरणयोर्दद्यात् पुनश्चार्घ्यं प्रदापयेत् ॥ ३९ ॥ सहस्रदलभृङ्गा (या ? र्याः) लुलितालुलिताच्च्युतम् । परमामृतपानीयं दद्यादाचमनं मुखे ॥ ४० ॥ षट्त्रिंशत्तत्त्वरूपं तु गन्धं दद्याद्विचक्षणः । अहिंसा परमं पुष्पं पुष्पमस्तेयमेव च ॥ ४१ ॥ १ 'हृद्या' क पाठ । २ 'च्च्युतिम्' क पाठ. ।
षट्त्रिंशः पटलः । ३१६ दया पुष्पं क्षमा पुष्पं पुष्पमिन्द्रियनिग्रहम् । अमोहं चाप्यमात्सर्यमविद्वेषं तथैव च ॥ ४२ ॥ अरागं च तथा सत्यं पुष्पाण्येवं विदुर्बुधाः । एतानि भावपुष्पाणि सदैव विनिवेदयेत् ॥ ४३ ॥ वायुं च धूपकं दद्यात्तेजो दीपं निवेदयेत् । सुराम्बुधिं तथा दद्याद्दद्याच्च मांसपर्वतम् ॥ ४४ ॥ सूर्यं च दर्पणं दद्याच्चन्द्रं च च्छत्रमुत्तमम् । आनन्दाभरणं दद्यादम्बरं चामरं तथा ॥ ४५ ॥ अनाहतध्वनिमयीं घण्टामेतां निवेदयेत् । ततश्च साधकश्रेष्ठः शृङ्गारादिरसोद्भवैः ॥ ४६ ॥ नृत्यगीतैश्च वाद्यैश्च तोषयेत्परमेश्वरीम् । ध्वनिना शब्दभेदेन तेजश्राकाशसंकुले ॥ ४७ ॥ सहस्रदलमध्ये तु चिन्तयेत्सुन्दरीं पराम् । भैरवानन्दलिङ्गं तु तन्मध्ये योनिसंयुतम् ॥ ४८ ॥ एकी (कार्य?भावं) तयोः कृत्वा अमृतं (श्रा?स्त्रा)वयेत्ततः । जिह्वया गलं संयोगात् पिबेत्तदमृतं तदा ॥ ४६ ॥ योगिभिः पीयते तत्तु न मद्यं गौडपैष्टिकम् । पृथिव्यन्तर्गता आपस्तदन्तः शून्यमद्रिजे ॥ ५० ॥ शून्यमध्ये वसेद्वायुर्वाय्वन्तर्ध्वनिरीश्वरि । तदन्तर्नाद एवासौ नादान्तर्बिन्दुरीश्वरः ॥ ५१ ॥ तन्मध्ये तु परं ज्योतिः शिखा सूक्ष्मा परात्परा । विद्यु(च्चान?द्योत)नसंकाशा सहस्रादित्यभास्वरा ॥ ५२ ॥ १ 'नाल' ग्व पाठ ।
३२० गन्धर्वतन्त्रे । सुनयनातिसूक्ष्मा च निराकारा निरालया । परानन्दमयी पूर्णा सा भवेत् सुन्दरी परा ॥ ५३ ॥ पार्थिवे पार्थिवानां च लयैः¹ कार्यः समाधिना । अप्सु चापां लयः कार्यः शून्ये शून्यस्य वै तथा ॥ ५४ ॥ लयो वायौ च वायूनां ध्वनौ ध्वनिं समर्पयेत् । ज्योतिषां च लयस्तत्र ब्रह्मरायेवं² मनोलयः ॥ ५५ ॥ मनः करोति पापानि मनः पापेषु लिप्यते । मनसि³ चोन्मनीभूते न धर्मो न च पातकम् ॥ ५६ ॥ एवं भावनया हृष्टः परमानन्दनिर्भरः । संसारसागरं धीरो गोष्पदीकुरुते शिवे ॥ ५७ ॥ भुक्तिमुक्ती⁴ करे तस्य मम तुल्यो भवेद्भुवि । पूजा ज्ञानमयी प्रोक्ता न तु होमस्तु तादृशः ॥ ५८ ॥ तद्रूपं विद्धि कुण्डस्य बिन्दुत्रिवलयात्मकम् । आनन्दमेखलारम्यं मात्रायोनिविभूषितम् ॥ ५९ ॥ तद्ब्रह्म परमं ध्यात्वा सर्वज्ञानविजृम्भिते । दीपितेऽग्नौ हुनेद्देवि प्रपञ्चहविरुत्तमम् ॥ ६० ॥ शब्दाख्या मातृका रूपमक्षरं⁵ तु विराजितम् । अक्षरं च हुतं चात्र निःशब्दं ब्रह्म जायते ॥ ६१ ॥ पुण्यपापे हविर्देवि कृत्याकृत्ये हविः शिवे । संकल्पश्च विकल्पश्च धर्माधर्मौ हविस्तथा ॥ ६२ ॥ धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा । सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ॥ ६३ ॥ १ 'य कार्ये' क पाठ । २ 'पो' क पाठः । ३ 'स्युन्म' क पाठः । ४ 'यावि' ख पाठः । ५ 'म' क पाठ । ६ 'मौ' क पाठ ।
षट्त्रिंशः पटलः । ३२१ प्रकाशाकाशहस्ताभ्यामव(लोक्यो?लम्ब्यो)न्मनास्स्रुचैम् । धर्माधर्मकलास्नेहपूर्णां वह्नौ जुहोम्यहम् ॥ ६४ ॥ वह्निजायान्वितं प्रान्ते मन्त्राभ्यां होमयेच्छिवे । निष्प्रपञ्चो यदा देवि जायते मन्त्रवित्तमः ॥ तदा स चिन्मयः साक्षात्केवलं ब्रह्म साधकः ॥ ६५ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे शक्त्यानयन- पूजातत्त्वनिरूपणं नाम षट्त्रिंशः पटलः ॥ ३६ ॥ १ 'मर्श' क पाठ. । २ 'चा' ख पाठ. । ३ 'र्गा' क-पाठ.