गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
तथा भ्रमति जीवाख्यं प्राणापानैस्तु पञ्चभिः । चतुष्कलासमायुक्तो भ्राम्यते हृदये स्थितः ॥ २९ ॥ गोलकैस्तु यथा देवि स्वेन दण्डेन ताडितः । उत्पत्य पतते² शीघ्रमविश्रान्तः पुनः पुनः ॥ ३० ॥ पार्वत्युवाच यदिदं सकलं ब्रह्म व्योमातीतं निरञ्जनम् । निष्कलं निर्मलं शान्तं निष्प्रपञ्चमलक्षणम् ॥ ३१ ॥ अप्रत्यक्षमविज्ञेयं विनाशोत्पत्तिवर्जितम् । कैवल्यं केवलं शान्तं शुद्धस्फटिकसंनिभम् ॥ ३२ ॥ करणयोगनिर्मुक्तं हेतुसाधनवर्जितम् । तत्क्षणान्मुच्यते येन तज्ज्ञानं ब्रूहि शंकर ॥ ३३ ॥ ईश्वर उवाच एतदेव महाभागे कुमारो ब्रह्मणः सुतः । परिसमेत्य योगीशं³ विष्णुं विश्वैककारणम् ॥ ३४ ॥ उवाच परया भक्त्या ब्रह्मविद्यां वद् प्रभो । ययाचिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ३५ तस्मै स होवाच जगत्प्रभुश्च श्रद्धाभक्तिध्यानयोगादवेहि । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः ॥ ३६ ॥ परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति । वेदान्तविज्ञानविनिश्चितार्थाः संन्यासयोगाद्⁴ यतयो विशुद्धाः ॥ ३७ ॥ १ 'क' क पाठ । २ 'ततस्तु पतने' क पाठ. । ३ गेयतत्तो' क. पाठ. । ४ 'गि' क. पाठ. ।
३६० गन्धर्वतन्त्रे । ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे । विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ॥ ३८ ॥ स्वस्वाश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य । हृत्पुण्डरीके विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ॥ ३९ ॥ अचिन्त्यमव्यक्तमनन्तरूपं शिवं शान्तममृतं ब्रह्म योनिम् । अथादिमध्यान्तविहीनमेकं विधिं¹ चिदानन्दरूपमद्भुतम् ॥ ४० ॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ४१ ॥ स ब्रह्मा शिवः स इन्द्रः सोऽक्षरः परमः स्वराट् । स³ एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ४२ ॥ स⁴ एव सर्वं यद्भूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ४३ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन् परं ब्रह्म याति नान्येन हेतुना ॥ ४४ ॥ १ 'भु' क, पाठः । २ 'श' क. पाठ. । ३ 'स विष्णु' ४ 'स स' क पाठ ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः ॥ ४५ ॥ स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रीस्वन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ ४६ ॥ स्वप्ने च जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ॥ ४७ ॥ पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये क्रीडति यश्च जीव- स्ततस्तु जातं सकलं विचित्रम् ॥ ४८ ॥ आधारमानन्दमखण्डबोधं यस्मिंल्लयं याति पुरत्रयं च । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापश्च पृथिवी विश्वधारिणी ॥ ४९ ॥ यत्पुनर्ब्रह्म सर्वात्मा सर्वस्यायतनं महत् । सूक्ष्मात् सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ५० ॥ जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ५१ ॥
१ 'ध्या' ख पाठ । २ 'तो' क पाठ ।
३६२ गन्धर्वतन्त्रे । त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः सोऽहं चिन्मात्रोऽहं सदाशिवः ॥ ५२ ॥ मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५३ ॥ अणोरणीयानहमेव तद्व- न्महानहं विश्वमहं विचित्रम् । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ५४ ॥ अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ ५५ ॥ वेदैैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५६ ॥ न भूमिरापो मम नास्ति वह्नि- र्न चानिलो मेऽस्ति नचाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ ५७ ॥ समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥ ५८ ॥ १ 'साक्षी' क. पाठ. । २ 'द्वयो' क. पाठ ।
द्वाचत्वारिंशः पटलः । ३६३ य एतत्तन्त्रं समधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति कृत्याकृत्यात्पूतो भवत्यगम्यगमनात्पूतो भवति ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे तत्त्वज्ञानोपदेशनं नाम द्वाचत्वारिंशः पटलः ॥ ४२ ॥ समाप्तमिदं श्रीशिवार्पणं भूयात् ॥
प्रस्तुत पृष्ठ पूर्णतः रिक्त (सफेद/blank) है, इस पर कोई पाठ (text) या सामग्री उपलब्ध नहीं है। कृपया सही पृष्ठ की छवि पुनः संलग्न करें।
The provided image appears to be a solid magenta/blank placeholder image and does not contain any readable text or scriptural content to transcribe.
Please upload a clear image of the page you would like transcribed.