गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 103, कुल 360 में से
संदर्भ में पढ़ेंअथ चतुर्थोऽध्यायः ।
गृहस्थधर्मा उच्यन्ते—
गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् ॥ १ ॥
गृहस्थ इति भाविसंज्ञाव्यपदेशः । अथवा गृहस्थस्य ये धर्मास्ते विवाहात्प्रागपि स्नातकस्यापि समा इति दर्शनार्थं च । जात्या कुलेन च सदृशीम् । अन्यस्मै वाचाऽप्यदत्ताम् । अवरवयसोमेवंभूतां भार्यां विन्देतोद्वहेत् ॥ १ ॥
गृहस्थ ( जाति और कुल में ) अपने समान, पहले वाग्दान द्वारा भी किसी को न दी गई तथा अपने से कम आयु की पत्नी से विवाह करे ॥ १ ॥
असमानप्रवरैर्विवाहः ॥ २ ॥
समान एकः प्रवरो येषां तैः सह न विवाहः । तद्यथा हरितकुत्सपिङ्गलशङ्खदर्भहैमकभवानामाङ्गिरसाम्बरोपयौवनाश्वेति । हारीतः कौत्सीं नोद्वहेदित्यादिप्रवरप्रपञ्च आपस्तम्बीये द्रष्टव्यः ॥ २ ॥
भिन्न प्रवर वालों में ही विवाह होना चाहिए ॥ २ ॥
ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो बीजिनश्च मातृबन्धुभ्यः पञ्चमात् ॥ ३ ॥
पितरमारभ्य तद्बन्धुवर्गे गण्यमाने सप्तमाच्छिरस ऊर्ध्वं जातां कन्यकामुद्वहेत् । मातरमारभ्य तद्बन्धुवर्गे गण्यमाने पञ्चमाच्छिरस ऊर्ध्वं जातामुद्वहेत् । बीजिनश्च सप्तमादूर्ध्वमिति चकारात्सिध्यति । यथा क्षेत्री वन्ध्यो रुग्णो वा देवरं प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयेति । यद्वा संतानक्षये विधवा गुखो नियुञ्जते, दृष्टं विचित्रवीर्यक्षेत्रे सत्यवतीवाक्याद्व्यासो धृतराष्ट्रादीनुत्पादितवानिति । यथाऽऽह याज्ञवल्क्यः—
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति ।
तद्विषयमेतद् बीजिनश्चेति ॥ ३ ॥
पिता से लेकर उनके बन्धुवर्ग में सात पीढ़ी से ऊपर की, बीजी ( = नियोग विधि से उत्पन्न करने वाला पिता से भिन्न पुरुष ) के वंश में भी सात पीढ़ी से