गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 111, कुल 360 में से
संदर्भ में पढ़ेंअथ प्रथमप्रश्ने पञ्चमोऽध्यायः
गर्भाधानकालं प्रस्तौति—
ऋतावुपेयात् ॥ १ ॥
रजोदर्शनादारभ्य षोडशाहोरात्रा ऋतुः स्त्रीणां गर्भग्रहणकालस्तत्रोपगच्छेद्भार्याम् । तत्राऽऽपस्तम्बीये विशेषः—
चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमनमित्युपदिशन्ति ।
मानवं तु—
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिरितरैः सार्धमहोभिः सद्भिर्गर्हितैः ॥
तासामाद्याश्चतस्रस्तु निन्द्या एकादशी तु या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ॥
अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥ इति ।
याज्ञवल्क्यस्तु —
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ॥ इति च ।
तदिह षोडशसु रात्रिष्वादितस्तिस्रः सर्वथा वर्ज्याः । इतरासु गच्छेदिति सर्वस्मृतिचोदितनिषेधान्परित्यज्य गच्छन्नुत्कृष्टं पुत्रं जनयति । द्वेषादिना ऋतावनुपयन्प्रत्यवेयादिति । तथा च देवलः—
यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति गर्भं प्राप्तं विनाशय सः ॥ इति ।
स्मृत्यन्तरं च—
ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥ इति ।
अयं तु रागतः प्राप्तत्वे सत्यप्यकरणे प्रत्यवायश्रवणाद्विधिश्च भवति । ऋतावेवोपेयादेवेति कस्यचिन्मतेन नियमश्च भवति ॥ १ ॥
ऋतुकाल में पत्नी के समीप ( सम्भोग के लिए ) गमन करे ॥ १ ॥