भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 113, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 113

४८ गौतमधर्मसूत्राणि

यथाशक्ति दद्यात्। अत्र चकारान्नित्यं देवर्षीणामपि तर्पणं कर्तव्यमिति दर्शितम्। तत्र मनुर्ब्रह्मचारिणं प्रकृत्याऽऽह—

नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ॥ इति ।

कात्यायनः—

देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम् । असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् ॥ इति ।

भृगुः—

नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । नोपतिष्ठति तन्तोयं यद् भूम्यां न प्रदीयते ॥

उशना—

आपो देवगणाः सर्व आपः पितृगणाः स्मृताः । तस्मादप्सु जलं देयं पितॄणां दत्तमक्षयम् ॥ इति ।

भृगुः प्रकारान्तरमाह—

नाभिमात्रे जले स्थित्वा चिन्तयन्नूर्ध्वमानसः । आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् ॥ त्रिभिरञ्जलिमाकाशमुच्चैरुच्चतरं बुधः । उक्त्वा चोक्त्वा क्षिपन् वारि वाग्यतो दक्षिणामुखः ॥इति ॥५॥

पितरों के लिए जल दे और अपनी शक्ति के अनुसार अन्य पदार्थ (भोजन, फल आदि) प्रदान करे । (इसे पितृयज्ञ कहते हैं) ॥ ५ ॥

देवयज्ञस्याग्निकार्यमूलत्वादग्निपरिग्रहकालं तावदाह—

भार्यादिरग्निर्दायादिर्वा ॥ ६ ॥

भार्याशब्देन विवाहो लक्ष्यते । यस्मिन्नग्नौ भार्योह्यते तमग्निमारभ्य वा यस्मिन्नहनि पितृभ्रात्रादिभिर्दायविभागः क्रियते तदहरारभ्य वा सायमुपक्रममग्निं परिचरेत् । दायविभागात्पूर्वं पितुर्ब्येष्ठभ्रातुर्वा कर्मण्युपजीवतो न प्रत्यवायः ॥ ६ ॥

जिस अग्नि में विवाह के समय कर्म किये जाते हैं उससे प्रारम्भ करके अथवा पिता या भाइयों से बँटवारे के समय से प्रारम्भ करके सायं एवं प्रातः काल अग्नि कर्म करे ॥ ६ ॥

तस्मिन्गृह्याणि कर्माणि ॥ ७ ॥

तस्मिन्नेवंपरिगृहीतेऽग्नौ गृह्ये मनुष्यभूतानि पुंसवनादीनि कर्माणि कर्तव्यानीति ॥ ७ ॥