भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 115, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 115

५७ गौतमधर्मसूत्राणि

गृहदेवताभ्यः प्रविश्य ॥ १२ ॥

अन्तः प्रविश्य गृहदेवताभ्यः स्वाहेति बलिहरणम् । प्रविश्येति वचनाद् द्वारबहिष्ठेन न कर्तव्यम् ॥ १२ ॥

घर के भीतर प्रवेश करके ( 'गृहदेवताभ्यः स्वाहा' कहते हुए ) गृहदेवताओं के लिए बलिहरण करे ॥ १२ ॥

ब्रह्मणे मध्ये ॥ १३ ॥

गृहस्य मध्ये ब्रह्मणे स्वाहेति बलिर्हर्तव्यः । दिग्देवताभ्यश्चेति चकारात्पृथिवी वायुः प्रजापतिर्विश्वे देवा इति सूत्रकारोक्तदेवताभ्यश्च ब्रह्मणोऽनन्तरं बलिर्हर्तव्यः ॥ १३ ॥

घर के मध्य में ( 'ब्रह्मणे स्वाहा' कहकर ) ब्रह्मा के लिए बलि प्रदान करे ॥ १३ ॥

आकाशायेत्यन्तरिक्षे बलिरुत्क्षेप्यः ॥ १४ ॥

विश्वेभ्यश्चैव देवेभ्यो बलिराकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ इति मनुः ॥ १४ ॥

( आकाशाय स्वाहा कहते हुए ) आकाश के लिए अन्तरिक्ष में बलि फेंक दे ॥ १४ ॥

नक्तंचरेभ्यश्च सायम् ॥ १५ ॥

सायं बलिहरणेऽयं विशेषः । नक्तंचरेभ्यः स्वाहेति बलिर्हर्तव्यः । चकारात्पूर्वोक्ताभ्यश्च भवति ॥ १५ ॥

सायंकाल के बलिहरण में ( 'नक्तंचरेभ्यः स्वाहा' कहकर ) रात्रि में विचरण करने वाले प्रणियों के लिए बलि दे ॥ १५ ॥

स्वस्ति वाच्य भिक्षादानमप्पूर्वम् ॥ १६ ॥

बलिहरणानन्तरं भिक्षादानं कर्तव्यम् । स्वस्त्यस्त्विति स्वस्तिवचनमुक्त्वा भिक्षोर्हस्ते पूर्वमपो दत्त्वा चेति । परिव्राजके विशेषः—
यतिहस्ते जलं दत्त्वा भैक्षं दत्त्वा पुनर्जलंम् ।
भैक्षं पर्वतमात्रं स्यात्तज्जलं सागरोपमम् ॥ इति ।
एतद्भिक्षादानमतिथिपूजाभावे मनुष्ययज्ञः स्यात् । एते पञ्च महायज्ञा ब्रह्मयज्ञवर्ज्याः कर्तव्याः सायं प्रातश्च । कस्मात् ।
अथ सायं प्रातः सिद्धस्य हविष्कस्य जुहुयादित्याश्वलायनस्मरणात् । सायं प्रातर्भूतमित्युक्त इत्यादिकात्यायनसूत्रवचनाच्च ॥ १६ ॥