गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 116, कुल 360 में से
संदर्भ में पढ़ेंसानुवाद-मिताक्षरावृत्तिसहितानि ५१
बलिहरण के बाद भिक्षुक के हाथ में पहले जल देकर फिर ( 'स्वस्त्यस्तु' कहते हुए ) स्वस्ति वाचन करके भिक्षा देनी चाहिए ॥ १६ ॥
ददातिषु चैवं धर्म्येषु ॥ १७ ॥
ददातयो दानानि यानि दानानि धर्म्याणि न भयादिनिमित्तानि तेषु चैवमप्पूर्वदानमिति ॥ १७ ॥
धर्मानुसार दिये जाने वाले दानों में भी इसी प्रकार ( पहले हाथ पर जल देकर ) दान किया जाता है ॥ १७ ॥
दानप्रसङ्गात्फलविशेषमाह—
समद्विगुणसाहस्रामन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रिय-वेदपारगेभ्यः ॥ १८ ॥
अब्राह्मणः क्षत्रियादिः । ब्राह्मणो जातिमात्रम् । श्रोत्रियोऽधीतवेदः । साङ्गं सकल्पं सरहस्यं चाधीतवेदो वेदपारगः । एभ्यो दत्तं यथाक्रमं समद्विगुणसाहस्रमानन्त्यं च फलं ददाति ।
तथा च मनुः—
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
श्रोत्रिये शतसाहस्रमन्तं वेदपारगे ॥ इति ॥ १८ ॥
अब्राह्मण ( ब्राह्मणेतर क्षत्रिय आदि ), ब्राह्मण, श्रोत्रिय ( जिसने वेद का अध्ययन किया है ) और वेद विद्या में पारंगत व्यक्ति को दान देने पर क्रमशः समान, दुगुना, सौगुना और अनन्त फल की प्राप्ति होती है ॥ १८ ॥
दानप्रसङ्गाद्यत्रावश्यदेयमदाने च प्रत्यवायस्तं विषयमाह—
गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोग-वैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥ १९ ॥
यज्ञे दक्षिणाकाले सदस्येभ्यो यद्दानं तदन्तर्वेदि । ततोऽन्यत्र बहिर्वेदि । द्रव्यसंविभागो हिरण्यादेर्दानम् । तद्गुर्वादिकविषयेऽवश्यं दानं कर्तव्यम् । अधीतवेदस्य दक्षिणार्थं गुर्वर्थम् । निवेशौषधार्थं निवेशो विवाहः । स च प्रथमस्तदर्थम् । औषधार्थं रुग्णस्य भेषजार्थम् । वृत्त्या तदहर्जीवनेन हीनो वृत्तिक्षीणः । यक्ष्यमाणो यज्ञं करिष्यन् । अध्ययनाध्वसंयोगः । अध्ययनेन संयोगो यस्य सोऽध्ययनसंयोगः । अध्वना संयोगो यस्य सोऽध्वसंयोगः । बहुव्रीहिः । वैश्वजितो विश्वजिद्यागः । सर्वस्वदानेन निर्द्रव्यः । एतैर्याचितोऽवश्यं यथाशक्ति हिरण्यादि दद्यात् ।