गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 119, कुल 360 में से
संदर्भ में पढ़ें५४ | गौतमधर्मसूत्राणि
राज्ञश्च श्रोत्रियस्य ॥ २८ ॥
श्रोत्रियस्य सतो राज्ञश्चैव मधुपर्को देयः ॥ २८ ॥
श्रोत्रिय राजा को भी मधुपर्क दे ॥ २८ ॥
अश्रोत्रियस्याऽऽसनोदके ॥ २९ ॥
अश्रोत्रियस्य राज्ञ आसनोदकमात्रेण पूजनं मधुपर्कः ॥ २९ ॥
अश्रोत्रिय (जो वेदज्ञानी न हो) राजा को आसन और जल देकर सत्कार करे ॥ २९ ॥
श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्च प्रकारयेत् ॥ ३० ॥
तुशब्दो न ब्राह्मणं व्यावर्तयति। श्रोत्रियस्य ब्राह्मणस्यातिथेः पाद्यं पादोदकम्। अर्घ्यं फलोपहारताम्बूलादि। अन्नविशेषाः पायसापूपाद्यस्तांश्च प्रकर्षेण कारयेत्समर्थः ॥ ३० ॥
श्रोत्रिय ब्राह्मण को पैर धोने के लिए जल, अर्घ्य (फल, ताम्बूल आदि) और विशेष अन्न (खीर, पुआ आदि) देकर विशेष रूप से सत्कार करे ॥ ३० ॥
असमर्थस्तु—
नित्यं वा संस्कारविशिष्टम् ॥ ३१ ॥
यदस्य गृहे नित्यं विद्यमानं तदेव मरीचजीरकादिसंस्कारविशिष्टं साधयेत् ॥ ३१ ॥
अथवा (विशेष भोजन न करा सकें तो) घर में नित्य जो भोजन बनता हो उसे (मरीच, जीरा आदि से छौंक बघारकर) विशेष स्वादयुक्त बनाकर ब्राह्मण को खिलावे ॥ ३१ ॥
मध्यतोऽन्नदानमवैद्ये साधुवृत्ते ॥ ३२ ॥
यस्त्वतिथिर्विद्यारहितोऽपि साधुवृत्तो भवति तस्मिन्नुपस्थिते मध्यमेन संस्कारेणान्नं देयम् ॥ ३२ ॥
जो अतिथि विद्याहीन होने पर भी सदाचारी हो उसे मध्यम कोटि का भोजन कराये ॥ ३२ ॥
विपरीतेषु तृणोदकभूमिस्वागतमन्ततः पूजाऽनत्याशश्च ॥ ३३ ॥
विपरीतो विद्यायुक्तोऽपि न साधुवृत्तः। तस्मिन्निहाऽऽस्यतामिति भूमिं तृणमासनमुदकं च दद्यात्। स्वागतमन्ततोऽनन्तरं स्वागतं च प्रयुञ्जीत। संभाषणेन पूजा कर्तव्या। अनत्याशश्च। अत्याशः पायसापूपादिविशिष्टमंस्तदन्यो मध्यमरीत्या कर्तव्यः। आशोऽशनमिति यावत् ॥ ३३ ॥