भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 123, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 123

५८ गौतमधर्मसूत्राणि

माता आदि इन सभी श्रेष्ठ जनों से एक साथ भेंट होने पर इनमें सबसे श्रेष्ठ व्यक्ति का चरण सर्वप्रथम छूना चाहिए ॥ ४ ॥

अभिवादनविधिमाह— स्वनाम प्रोच्याहमयमित्यभिवादो ज्ञसमवाये ॥ ५ ॥

यः प्रत्यभिवादनाभिज्ञस्तेन संगमे स्वनाम प्रोच्य व्यावहारिकं प्रसिद्धं नाम प्रोच्याहमयमिति प्रकर्षेणोच्चैरुक्त्वाऽभिवादः कार्यः । अभिवादोऽभिवादनं ण्यन्तादेरच् । एवं चार्थज्ञानां ज्ञातवरसमवायेऽभिवादनक्रमेणायमहमिति स्वनाम गुह्यं प्रोच्याभिवादनं कार्यम् । हीनव्यतिरिक्ताभिवाद्यविषयम् । तद्यथा—अभिवादये हरदत्तशर्मा नामाहमस्मि भो इति । तत्र प्रत्यभिवादनविधिर्मनुना दर्शितः—

आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

अस्यार्थः । विप्रशब्देन ब्राह्मणविषयमिदम् । अभिवादयिता विप्र आयुष्मान्भव सौम्येति वाच्यः । अस्य नाम्नोऽन्ते पूर्वाक्षरप्लुतोऽकारश्च वाच्यः । पूर्वाक्षरप्लुतः इत्यकारस्य विशेषणम् । यस्मात्पूर्वमक्षरं प्लुतरूपं स तथोक्तः । अक्षरमित्यचोऽभिधानम् । अकारात्पूर्वो योऽच् स प्लुतो वाच्यः । तेन व्यञ्जनव्यवधानेऽपि भवति । आयुष्मान्भव सौम्य हरदत्त ३ अ । व्यञ्जनव्यवधानेन यथाऽऽयुष्मान्भव सौम्याग्निचि ३ द॑ । इति प्रयोगः ।

वसिष्ठस्तु संध्यक्षरे विशेषमाह—आमन्त्रिते योऽन्त्यः स्वरः स प्लवते संध्यक्षरमप्रगृह्यामाहुः [ इ ] आउभावं चाऽऽपद्यत इति ।

एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुताविति वैयाकरणः । तत्रान्तेऽकारे प्रयुक्ते तयोर्वावांच संहितायामिति यकारवकारौ । आयुष्मान्भव सौम्य पिनाकपाणा३येति विष्णा३वेति च प्रयोगः । अज्ञसमवाय इति पक्षे नायमभिवादनप्रकारः । तत्र स्मृत्यन्तरम्—

अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥ इति ।

यथा स्त्रीषूक्तप्रकारं विना तादात्मिकेन देशभाषादिना येन केनापि शब्देनाभिवादनं तद्वत्तेष्वपि भवति । अभिवादनमिति सामान्योपलक्षणम् । प्रकारवर्जितस्य ख्यादिप्रयुक्तस्याप्यभिधानात् । अभिवादनप्रकारे त्वापस्तम्बः—दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्राञ्जलिरिति ॥ ५ ॥