भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 169, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 169
१०४गौतमधर्मसूत्राणि

षेधात्तत्पूर्वकमध्ययनमपि न भवति। तद्विषये गृह्यकार आह— शूद्रस्यापि निषेकपुंसवनसीमन्तोन्नयन जातकर्मनामकरणान्नप्राशनचौळान्यमन्त्रकाणि यथाकालमुपदिष्टानि। इति विवाहोप्यमन्त्रको यथाचारं भवति ॥ ५१ ॥

शूद्र चौथा वर्ण होता है और वह एक जाति होता है (अर्थात् अन्य तीन वर्णों के समान उपनयन संस्कार द्वारा 'द्विज' नहीं होता) ॥ ५१ ॥

तस्यापि सत्यमक्रोधः शौचम् ॥ ५२ ॥

उपनयनाध्ययनरहितत्वेऽपि यथावृत्तित्वं मा भूदिति तस्यापि शूद्रस्य सत्यादयो धर्मा भवन्ति। सत्यं यथादृष्टार्थवादित्वम्। अक्रोधः परानभिद्रोहबुद्धिः। शौचं पूर्वोक्तद्रव्यशौचं मनःशौचमित्यादि।

वसिष्ठस्तु— सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं चेति ॥ ५२ ॥

उसके लिए भी सत्य, अक्रोध और शौच के नियमों का विधान है ॥५२॥

आचमनार्थे पाणिपादप्रक्षालनमेवैके ॥ ५३ ॥

पूर्वेषां वर्णानां यत्राऽऽचमनमुक्तं तस्मिन्विषये शूद्रस्य पाणिपादप्रक्षालनमेव भवति नान्य आचमनकल्प इत्येके मन्यन्ते। मनुस्तु— सकृदम्बुपानमिच्छति स्त्रीशूद्रौ तु सकृत्सकृदिति। नित्यस्नानविषये तूशना— सच्छूद्रः स्नायादसच्छूद्रः पाणिपादं प्रक्षालयेत्। इति ॥ ५३ ॥

कुछ आचार्यों का मत है कि शूद्र (ब्राह्मणादि तीन वर्णों के लिए विहित) आचमन के स्थान पर केवल हाथ पैर धोने का विधान है ॥ ५३ ॥

श्राद्धकर्म ॥ ५४ ॥

अमावास्यायामित्यारभ्य यच्छ्राद्धकर्म वक्ष्यते तदपि शूद्रस्य कर्तव्यं मन्त्रवर्जम् ॥ ५४ ॥

श्राद्धकर्म भी शूद्र के लिए विहित है ॥ ५४ ॥

भृत्यभरणम् ॥ ५५ ॥

भृत्यो भरणीयः पोष्यवर्गः। तस्य च भरणं कर्तव्यम्। तेन तदनुरूपमर्थार्जनमप्यस्य कर्तव्यमिति ॥ ५५ ॥

आश्रित जनों का भरण पोषण (भी शूद्र करे) ॥ ५५ ॥

स्वदारवृत्तिः ॥ ५६ ॥

स्वेष्वेव दारेष्वस्य वृत्तिः। सजातीयेष्वपि परदारेषु वेश्यासु च प्रसञ्जन् दण्ड्य इति। अपर आह— स्वदारवृत्तिरेवास्य भवतिनाऽऽश्रमान्तरप्राप्तिरिति ॥ ५६ ॥