गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 177, कुल 360 में से
संदर्भ में पढ़ें११२ | गौतमधर्मसूत्राणि
च नित्या यथा गृहमेध इति । तेषामन्यतमोऽत्र शालाग्निर्नौपासनो नापि त्रेताग्निर्गार्ह्येषु श्रौतेषु कर्मसु तयोर्नियतत्वात् । शान्तिसंयुक्तं दैव्योत्पात-चिन्तकसूचितापचयनिवृत्त्यर्थं यत्क्रियते ग्रहशान्तिमहाशान्त्यादि । पुण्या-हसंयुक्तं दिनदोषनाशाय विवाहादौ यत्क्रियते । स्वस्त्ययनसंयुक्तं यात्रादौ यत्क्रियते । आयुष्मत्संयुक्तं जन्मनक्षत्रादावायुर्वृद्ध्यर्थं यत्क्रियते । दूर्वा-होमादि मङ्गलसंयुक्तं गृहप्रवेशादौ यत्क्रियते वास्तुहोमादि । एतान्याभ्यु-दयिकान्यभ्युदयनिमित्तानि । विद्वेषणसंयुक्तं येनास्य शत्रुः प्रकृतोनां विद्वेष्यो भवति । संवननसंयुक्तं येनास्य शत्रवो वश्याः प्रणिपतन्ति । अभिचार-संयुक्तं येनास्य शत्रवो म्रियन्ते । ऋद्धेरभावो व्यृद्धिः । द्विषतां व्यृद्धिर्द्विष-द्व्यूद्धिः । येनास्य शत्रवो विगतैश्वर्या भवन्ति । उच्चाटनादीन्येतानि च शालाग्नौ कुर्यात् । कः । राजा । तस्य च कर्तृत्वमिदमेव । यत्तत्संविधा-तृत्वमर्थसंप्रदानादिना । तद्यथा योऽप्येकान्ते तूष्णीमासीनो भक्तभोज-बलीवर्दैः प्रतिसंविधत्ते सोऽप्युच्यते पञ्चभिर्हलैः कृष्यतीति । अपर आह—आभ्युदयिकानि पुरोहितः स्वयं कुर्यादितराणि कारयेदिति । यस्मिन्नाग्नावभ्युदयिकानि न तन्नेतराणि कुर्वन्ति किन्त्वग्न्यन्तरे पूर्वो-क्तानामन्यस्मिन् ॥ १७ ॥
दैवी उत्पातों के शमन के लिए ग्रहशान्ति या महाशान्ति आदि शान्ति कर्म, दिन के दोष को दूर करने के लिए विवाह आदि में किया जाने वाला पुण्याह कर्म, यात्रा के आरम्भ में किया जाने वाला स्वस्त्ययन, आयु के लिए जन्म नक्षत्र पर किया जाने वाला आयुष्मन् कर्म, गृह प्रवेश आदि के समय वास्तुहोम आदि मंगलसंयुक्त कर्म—ये अभ्युदय के लिए किये जाने वाले कर्म, शत्रुओं के विरुद्ध किये जाने वाले विद्वेष्य कर्म, शत्रुओं को वश में किये जाने वाले संवनन, शत्रुनाश के लिए किए जाने वाले अभिचार संयुक्त कर्म, शत्रु की समृद्धि नष्ट करने के लिए किये जाने वाले कर्म (राजा) शालाग्नि में करे ॥ १७ ॥
यथोक्तमृत्विजोऽन्यानि ॥ १८ ॥
अन्यानि गार्ह्याणि श्रौतानि च तानि कर्माणि यथोक्तं यस्मिन्कर्मणि यावन्त ऋत्विज उक्तास्तावन्तः कुर्युः । तद्यथा—औपासने चाग्निहोत्रे चाध्वर्यु रेकः दर्शपूर्णमासयोश्चत्वारः । चातुर्मास्ये पञ्च । पशुबन्धे षट् । ज्योतिष्टोमादौ षोडश । अत्र मनुः—
पुरोहितं च वृणुयाद्वृणुयादेव चर्त्विजः ॥ इति ।
तत्र येष्वेव ऋत्विक्तत्र पुरोहितोऽध्वर्युर्ब्रह्मेत्यन्ये ॥ १८ ॥