भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 318, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 318

सानुवाद-मिताक्षरावृत्तिसहितानि २५१

प्येवम्। फलाफलाद्यपेक्षया ब्राह्मणादिस्वामिकेषु वृक्षादिषु हिंसायाम- प्येवम्। अत्र प्रजापतिः—

अनृते सोमपः कुर्यात्त्रिरात्रं परमं तपः। पूर्णाहुतिं वा जुहुयात्सप्त ते अग्न इत्यृचा॥ इति। अनृतोक्तौ ष्ठीवने च दन्तस्पर्शन एव च। पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्॥ इति।

इदं परिहासादिनिमित्तानृतविषयम्। हारीतः—

प्रत्याश्रुत्यानृतं ब्रूयान्मिथ्या सत्यमथापि वा। स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतम्॥

प्रजापतिः—मांसं भुक्त्वा ब्रह्मचारी पुनः संस्कारमर्हति।

अभ्यास ऐन्दवं चैव नैष्ठिको द्विगुणं चरेत्॥ वनस्थस्त्रिगुणं कुर्याद्यतिः कुर्याच्चतुर्गुणम्। मांसाशनेऽनृतोक्तौ च शवनिर्हरणे तथा॥ इति॥ २७॥

दोष देकर भर्त्सना करने, झूठ बोलने और दूसरे की हिंसा करने पर तीन दिन-रात का व्रत करे॥ २७॥

आक्रोशे विशेषः—

सत्यवाक्ये वारुणीमानवीभिर्होमः॥ २८॥

आक्रोशे सत्यवाक्ये सति वारुणीभिर्मानवीमिश्राऽऽज्यहोमः कर्तव्यः। त्रिरात्रं परममित्येव। “यत्किंचेदम्” “इमं मे वरुण” “तन्त्वा यामि” “अवते हेड” इति वारुण्यः। अग्निरुक्थे पुरोहित इत्यारभ्याध्यायपरिसमाप्तेर्मानव्य ऋच एकोनषष्टिर्मनुना दृष्टाः। तास्वन्त्याश्चतस्रो मक्षू देववत इत्याद्यास्तैत्तिरीयके सौमारौद्रयामिक्षौ धाय्यत्वेन विनियुक्ताः। असावादित्य इत्यस्मिन्ननुवाके मानवीऋचो धाय्ये कुर्यादिति। सूत्रकारोऽप्याह-मानवीऋचौ धाय्ये मक्षू देववत इत्येतासां द्वे इति। तत्रान्त्यभिरभिश्चतसृभिर्होम इत्येके। अन्ये तु ऋग्वेदपठिताभिः सर्वाभिमृग्भिरिति॥ २८॥

यदि आक्रोश सत्य हो तो मनु के वरुण-सूक्तों का उच्चारण करते हुए होम करे॥ २८॥

विवाहमैथुननमार्त्तसंयोगेष्वदोषमेकेऽनृतम्॥ २९॥

विवाहकाले कन्यावरयोरसत्स्वपि गुणेषु कथितेष्विदं ते दास्यामीति प्रतिश्रुत्याप्रदाने च न दोषः। तथा मैथुनसंयोग इदं ते दास्यामीत्युक्त्वा

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित) · पृष्ठ 318, कुल 360 में से · BharatKosha