भारतकोश
गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

पृष्ठ 324, कुल 360 में से

संदर्भ में पढ़ें
पृष्ठ 324

सानुवाद-मिताक्षरावृत्तिसहितानि २५७

सावित्रीं वा सहस्रकृत्व आवर्तयन्पुनीते हैवाऽऽत्मानम् ॥१०॥

तद् व्रत एवेत्यनुवर्तते । प्राणायामैस्तान्त इति च । सावित्रीं सहस्र- कृत्व आवर्तयन्निति जप्यमात्रं भिद्यते । अन्यत्समानम् । एवं कुर्वन्नात्मानं पुनीते ब्रह्महत्यादिभ्यश्चतुर्भ्यः शोधयति । हेति प्रसिद्धौ । एवेत्यवधारणे । सतश्चान्येष्वपि पापेषु सावित्र्यभ्यासः शुद्धिहेतुः । तथा च वसिष्ठः—

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥ इति ।

व्याघ्रोऽप्याह—न सावित्रीसमं जप्यं न व्याहृतिसमं हुतम् ।

नान्नतोयसमं दानं न चाहिंसासमं तपः ॥ इति ॥ १० ॥

अथवा सहस्र बार गायत्री मन्त्र का जप करने पर वह निश्चय ही पापमुक्त हो जाता है ॥ १० ॥

प्रायश्चित्तान्तरमाह—

अन्तर्जले वाऽघमर्षणं त्रिरावर्तयन्सर्वपापेभ्यो विमुच्यते [ विमुच्यते ] ॥ ११ ॥

तद्व्रत एवोदकस्यान्तर्निमग्नस्त्रिश्छात्रामघमर्षणं त्रिरभ्यस्य सर्वस्मा- त्पापाज्ज्ञानकृतादज्ञानकृताच मुच्यते । द्विरुक्तिश्च व्याख्याता ॥ ११ ॥

अथवा जल में डूब कर तीन बार अघमर्षण ऋषि के सूक्त का जप करने पर सभी पापों से मुक्त होता है ॥ ११ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने षष्ठोऽध्यायः ॥ ५ ॥


१७ गौ०

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित) · पृष्ठ 324, कुल 360 में से · BharatKosha