गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 85, कुल 360 में से
संदर्भ में पढ़ें२० गौतमधर्मसूत्राणि
तत्कदा कथं चेत्याह—
तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वा- ग्यतः ॥ १७ ॥
प्रातःसंध्यां तिष्ठेत्सायंसंध्यामासीत । अत्यन्तसंयोगे द्वितीया । स्थानासनयोरुपक्रमोपसंहारौ कथयति-सज्योतिषि काले समारभ्याऽऽज्यो-तिरन्तरदर्शनात् । प्रातर्नक्षत्रज्योतिरारभ्याऽऽसूर्यज्योतिर्दर्शनात्सायमादि-त्यज्योतिरारभ्याऽऽनक्षत्रदर्शनादिति । तावन्तं कालं वाग्यतश्च स्यात् । तथा च मनु :— पूर्वां संध्यां जपस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु समासीत सम्यगृक्षविभावनात् ॥ इति ॥ १७ ॥
प्रातः सन्ध्या में नक्षत्रों के दिखाई पड़ते रहने के समय से लेकर सूर्योदय के समय तक खड़ा होवे और सायं सन्ध्या में सूर्य की ज्योति दिखाई पड़ते रहने के समय से लेकर नक्षत्रों के दिखाई पड़ने के समय तक बैठे और मौन होकर ( सन्ध्योपासन ) करे ॥ १७ ॥
नाऽऽदित्यमीक्षेत ॥ १८ ॥
ब्रह्मचारिणोऽयं सदाऽऽदित्यदर्शने प्रतिषेधः । स्नातकस्य तु— मानवी०—नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥ इति ॥ १८ ॥
ब्रह्मचारी कदापि सूर्य को न देखे ॥ १८ ॥
वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपान- च्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षणृत्यगीतपरि- वादभयानि ॥ १९ ॥
मध्वादीनि वर्जयेत् । मधु माक्षिकम् । मांसं मृगादेः । गन्धश्चन्द-नादिः । माल्यानि पुष्पाणि । दिवास्वप्नो दिवानिद्रा । अञ्जनमक्ष्णोः । अभ्यञ्जनं तैलाभ्यङ्गः । यानं शकटादि । उपानच्छत्रे प्रसिद्धे । कामः स्त्री-सङ्गः । क्रोधः कोपः । लोभो द्रव्याभिलाषः । मोहो विवेकशून्यता । वादो बहुजल्पः । वादनं वीणादीनाम् । स्नानं सुखार्थमुष्णतोयादिना कण्ठादधः प्रक्षालनम् । दन्तधावनं दन्तमलापकर्षणम् । हर्षोऽभिमतलाभाच्चित्तोद्रेकः । नृत्यगीते प्रसिद्धे । परिवादः परदोषकथनम् । भयं भयहेतुः कान्तारप्रवे-शादिः । इदं हर्षेऽपि द्रष्टव्यम् ॥ १९ ॥