गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
पृष्ठ 95, कुल 360 में से
संदर्भ में पढ़ेंअथ प्रथमप्रश्ने तृतीयोऽध्यायः
तस्याऽऽश्रमविकल्पमेके ब्रुवते ॥ १ ॥
तस्यैवमधीतवेदस्य ब्रह्मचारिणो वक्ष्यमाणाश्चत्वार आश्रमा विकल्प्यन्त इत्येक आचार्या ब्रुवते । अन्ये तु समुच्चीयन्त इति । तत्राऽऽपस्तम्बः—
तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छतीति । बुद्ध्वा कर्माणि यत्कामयेत तदारभेतेति च ।
तथा च ब्रह्मचर्याश्रममुक्त्वा “अत एव ब्रह्मचर्यवान्प्रव्रजति” इति बौधायनः ।
मनुना तु समुच्चयो दर्शितः—
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु ब्रजमानः पतत्यधः ॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् । इति ॥ १ ॥
कतिपय आचार्यों का मत है कि उस (वेद का अध्ययन पूरा कर लेने वाले) ब्रह्मचारी को (चारों आश्रमों में से) किसी भी आश्रम को स्वीकार करने की छूट होती है ॥ १ ॥
के पुनस्त आश्रमाः—
ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः ॥ २ ॥
यद्यप्यसौ पूर्वमपि ब्रह्मचर्याश्रम उक्तस्तथाऽपि प्रपित्सितनैष्ठिकब्रह्मचारित्वमत्र विवक्षितम् । भिक्षुः संन्यासी । वैखानसो वानप्रस्थः । वैखानसप्रोक्तेन मार्गेण वर्त्तत इति । तेन स आश्रमः प्राधान्येन दर्शितः । शास्त्रान्तरेषु वैखानसस्तृतीयो भिक्षुश्चतुर्थ आश्रमः । इह तु क्रमभेदः प्रागुक्तास्त्रय आश्रमिरण इत्यत्र वैखानसवर्ननार्थः ॥ २ ॥
(वेदाध्ययन समाप्त करने के उपरान्त) ब्रह्मचारी, गृहस्थ, संन्यासी या वानप्रस्थ का जीवन आरम्भ कर सकता है (यहाँ प्रधानता के भेद से संन्यास को वानप्रस्थ के पहले रखा गया है) ॥ २ ॥
तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम् ॥ ३ ॥
तेषां चतुर्ष्वप्याश्रमेषु वर्तमानानां गृहस्थो योनिरुपस (त्प) त्तिस्थानम् । गृहस्थेनैवोत्पादिताश्चतुर्भिराश्रमैरधिक्रियन्ते । गृहस्थव्यतिरिक्ताश्रमस्थानां प्रजोत्पादनस्य निषिद्धत्वात् । तत्र शातातपः—