भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि , २८९

कुछ आचार्यों का मत है कि अपने वर्ण की पत्नी से उत्पन्न पुत्र यदि अधर्माचरण करने वाला हो तो उसे भी सम्पत्ति मिले ॥ ३८ ॥

श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ॥ ३९ ॥

अपत्यग्रहणं पिण्डगोत्रर्षिसंबन्धादेरुपलक्षणम् । अनपत्यस्याविद्यमानधनभाजो ब्राह्मणस्य श्रोत्रिया हि रिक्थं भजेरन् ॥ ३९ ॥

पुत्रहीन ब्राह्मण की सम्पत्ति श्रोत्रिय बाँट लेते हैं ॥ ३९ ॥

राजेतरेषाम् ॥ ४० ॥

इतरेषां क्षत्रियादीनां रिक्थमनपत्यानां राजा भजेत ॥ ४० ॥

राजा अन्य वर्णों के पुरुषों की सम्पत्ति ग्रहण करता है ॥ ४० ॥

जडक्लीबौ भर्तव्यौ ॥ ४१ ॥

जडो नष्टचित्तः । क्लीबस्तृतीयाप्रकृतिः । एतावशनाच्छादनदानेन भर्तव्यो । मनुस्तु— अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकश्च ये च केचिन्निरिन्द्रियाः ॥ इति ॥ ४१ ॥

मूर्ख और नपुंसक का पालन पोषण करे ॥ ४१ ॥

अपत्यं जडस्य भागार्हम् ॥ ४२ ॥

यदि तु जडस्यापत्यं भवति तदा तद्भागार्हं भवति । तस्मै स भागो देयस्तत्पितुः । अत्र मनुः— यद्यर्थिता तु दारैः स्यात्क्लीबादीनां कथंचन ।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ ४२ ॥

मूर्ख व्यक्ति का पुत्र भी सम्पत्ति का भागी होता है ॥ ४२ ॥

शूद्रापुत्रवत्प्रतिलोमास्तु ॥ ४३ ॥

प्रातिलोम्येन जातानां सूतादीनामपि गुणोत्कृष्टानां शूद्रापुत्रवद् वृत्तिमूलं दातव्यमिति ॥ ४३ ॥

प्रतिलोम से ( निम्न वर्ण के पुरुष द्वारा उत्तम वर्ण की स्त्री से उत्पन्न ) पुत्र ब्राह्मण द्वारा शूद्रा से उत्पन्न पुत्र के समान अंश का भागी होता है ॥ ४३ ॥

उदकयोगक्षेमकृतान्नेष्वविभागः ॥ ४४ ॥

उदकं कूपादि । योगक्षेमाविष्टापूर्ते । तथा च लौगाक्षिः—
योगः पूर्तं क्षेम इष्टा इत्याहुस्तत्त्वदर्शिनः ।

१९ गौ०

०९०गौतमधर्मसूत्राणि

अविभाज्ये तु ते प्रोक्ते शयनं चान्नमेव च ॥ इति ।
कृतान्ने तूत्सवादिषु कल्पिते प्रभूतेऽपि । एतेषु विभागो न कर्तव्यः । यथावस्थितेष्वेव सोदर्य्यानुरूपेण भोगः ॥ ४४ ॥

जल, धार्मिक कृत्य के लिये निर्धारित सम्पत्ति और बने हुए भोजन का विभाजन नहीं होता ॥ ४४ ॥

स्त्रीषु च संयुक्तासु ॥ ४५ ॥

याश्च स्त्रियो दास्यो भ्रात्रादिषु केनचित्संयुक्ता उपभोगपरिगृहीतास्तास्तस्यैव । यद्यन्याः सन्त्यन्यत्रान्येषां भागः । यदि न सन्ति तदा द्रव्येण साम्यमापादनीयम् । यदा पुनरेकैव दास्यसंयुक्ता च तदा पर्यायेण कर्म करोतु ॥ ४५ ॥

परिवार के सदस्यों से सम्बद्ध स्त्रियों का विभाजन नहीं होता ॥ ४५ ॥

अनाज्ञाते दशावरैः शिष्टैरूहविद्भिर्अलुब्धैः प्रशस्तं कार्यम् ॥४६॥

ज्ञायत इवाऽऽज्ञातम् । तद्विपरीतमनाज्ञातम् । योऽर्थो यथावदविज्ञातः संदिग्धो वा तत्रानाज्ञाते दशावरैर्दशभ्योऽन्यूनैः शिष्टैः ।

धर्मेणाधिगतो यैस्तु वेदः सपरिवृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥

इति मनूक्तैः । ऊहविद्भिरूहापोहकुशलैः । अलुब्धैरुत्कोचादिषु निःस्पृहैः । एवम्भूतैर्ब्राह्मणैर्यत्प्रशस्तं स्तुतमिदमत्र युक्तमिति तत्कार्यं कर्तुं युक्तम् ॥ ४६ ॥

जिस विषय में किसी नियम का विधान नहीं किया गया है उसके सम्बन्ध में वही करना चाहिए जो कम-से-कम दस विद्वान्, विवेकवान् और लोभहीन ब्राह्मण कहें ॥ ४६ ॥

के पुनस्ते दशावरास्तानाह—

चत्वारश्चतुर्णा पारगा वेदानां प्रागुत्तमात्त्रय आश्रमिणः पृथग्धर्मविदस्त्रय एतान्दशावरान्परिषदित्याचक्षते ॥ ४७ ॥

चतुर्णां वेदानां पारगाः साङ्गानामध्येतारोऽर्थज्ञाश्च । एवंभूताश्चत्वारो न चातुर्वेद्य एकः । आश्रमिणस्तृतीयेऽध्याय उक्ता ब्रह्मचारी गृहस्थो भिक्षुर्वैखानस इति । तेषूत्तमाद्वैखानसात्पूर्वे त्रय आश्रमिणः । पृथग्धर्मशास्त्रविदस्त्रयः । पृथग्ग्रहणमेकमेव धर्मशास्त्रं विदुषां त्रयाणां ग्रहणं मा भूदिति । तानेतान्दशावरान्परिषदित्याचक्षते धर्मज्ञाः ॥ ४७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २९१

उनका कहना है कि परिषद् में कम-से-कम ये दस सदस्य हों—चार वेदों- के पूर्ण ज्ञानी, चार व्यक्ति, ब्रह्मचारी, गृहस्थ, भिक्षु तथा पृथक् पृथक् धर्मशास्त्रों के ज्ञाता तीन व्यक्ति ॥ ४७ ॥

असंभवे त्वेतेषां श्रोत्रियो वेदविच्छिष्टो विप्रतिपत्तौ यदाह ॥ ४८ ॥

एतेषां व्यस्तानां समस्तानां च बहूनामसंभवे श्रोत्रियः साङ्गस्य वेदस्याध्येता । वेदवित्तदर्थज्ञः । शिष्टः स्वधर्मनिरतः । एवंभूत एकोऽपि विप्रतिपत्तिविषये यदाहेदमत्र युक्तमिदं कार्यमिति तत्कार्यम् । तथा च मनुः—

एकोऽपि वेदविद्धर्मं यं व्यवस्येत्समाहितः ।
स धर्मः परमो ज्ञेयो नाज्ञानामुदितो युतैः ॥ इति ॥ ४८ ॥

इन अनेक व्यक्तियों के न होने पर अङ्गों सहित सम्पूर्ण वेद का ज्ञाता श्रोत्रिय ही अकेला पर्याप्त होता है (उसके वचन मान्य होते हैं क्योंकि ) ॥४८॥

कस्मात्पुनरेकस्यापि श्रोत्रियस्य वेदविदः शिष्टस्य वचनं कर्तव्यमित्यत आह—

यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु ॥ ४९ ॥

प्रभवत्यस्मादिति प्रभवः कारणम् । तन्न विद्यते यस्य सोऽप्रभवः । यस्मादयं भूतानां हिंसानुग्रहयोगेषु दण्डप्रायश्चित्तादिष्वगृह्यमाणकारणः केवलं शास्त्रनेत्रस्तस्मादेकस्यापि वचनमनुष्ठेयमिति । अपर आह—प्रभवनं प्रभवः प्रभुत्वं तद्यस्य नास्ति सोऽप्रभवः । न ह्यसौ शास्त्रनिरपेक्षः स्वतन्त्रः किंचिदनुगृह्णाति निगृह्णाति वा । तस्मादस्य वचनमनुष्ठेयमिति ॥ ४९ ॥

वह प्राणियों के हिंसा और अनुग्रह मे दण्ड और प्रायश्चित्त में कारण होता है ॥ ४९ ॥

सांप्रतं ये केवलं धर्ममनुतिष्ठन्ति तेभ्यो ज्ञात्वाऽनुतिष्ठन्विशिष्ट इत्याह—

धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोति ज्ञानाभिनिवेशाभ्याम् ॥ ५० ॥

धर्मिणो धर्मवन्तो धार्मिकाः । तेषां मध्ये यो धर्मविद्धर्मशास्त्रं यावतोऽर्थतोऽधीत्य धर्मं तावतो वेत्ति सः । ज्ञानाभिनिवेशाभ्याम् । ज्ञानं समर्थावगतिः—अभिनिवेशस्तात्पर्येणानुष्ठानम् । ज्ञानेनाभिनिवेशेन च केवलानुष्ठातृभ्यो विशेषेण स्वर्गं लोकमाप्नोति ॥ ५० ॥

२९२ गौतमधर्मसूत्राणि

धार्मिक व्यक्तियों में धर्म को जानने वाला ज्ञान और उसके अनुष्ठान द्वारा विशेष रूप से स्वर्गलोक प्राप्त करता है ॥ ५० ॥

इति धर्मो धर्मः ॥ ५१ ॥

सोऽयमादितो वेदो धर्ममूलमित्यारभ्यैवमन्तो धर्म उक्तः । द्विरुक्तिः शास्त्रपरिसमाप्त्यर्था ॥ ५१ ॥

गौतमोक्ते धर्मशास्त्रे हरदत्तकृताविह ।
अष्टाविंशोऽयमध्यायो वृत्तौ दायः समाप्तः ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
तृतीयप्रश्ने दशमोऽध्यायः ॥ १० ॥

इस प्रकार धर्म की व्याख्या समाप्त हुई ॥ ५१ ॥

गौतमधर्मसूत्र समाप्त


समाप्तोऽयं ग्रन्थः

इस पृष्ठ पर कोई पाठ्य सामग्री (Text) उपलब्ध नहीं है (यह एक रिक्त पृष्ठ है)।