गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 236, कुल 448 में से
संदर्भ में पढ़ें२०४ श्रीगीतगोविन्दम् है। अतःपर नायक-नायिकाओंको अन्धकारमें लज्जामिश्रित सम्पूर्ण रसोंका अनुभव होता है। राधे! तुम्हें ऐसी प्रतीति होगी कि अहो! इतने दिनोंके पश्चात् जब हम दोनों मिले, तब इतने गहरे शृङ्गार रसमें क्यों डूबे? प्रस्तुत सन्दर्भमें चौर्यरतके सम्पूर्ण क्रमको भी बतलाया गया है। भरतमुनिने कहा है- आश्लेषचुम्बननखक्षतकामबोधशीघ्रत्वमैथुनमनन्तसुखप्रबोधम् । प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्तनतुराः सुचिरं रमन्ते ॥ प्रस्तुत श्लोकमें दीपक, समुच्चय तथा भ्रान्तिमान अलङ्कार द्रष्टव्य हैं। शार्दूलविक्रीड़ित छन्द है। सभय-चकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम्। कथमपि रहःप्राप्तामङ्गैरनङ्ग-तरङ्गिभिः सुमुखि! सुभगः पश्यन् स त्वामुपैतु कृतार्थताम् ॥४ ॥ अन्वय-[अथैतच्छ्रवणव्यग्रतया गमनाय उद्यतामवलोक्य गमनप्रकार-माह]-अयि सुमुखि (सुवदने) सुभगः (भाग्यवान्; तव प्रणय- सौभाग्यशालीति यावत्) [हरिः] तिमिरे (तमसावृते इत्यर्थः) पथि (वर्त्मनि) प्रतितरु (प्रतिवृक्षे) सभयचकितं [यथा तथा; कुत्रचित् तिष्ठता केनचित् द्रक्ष्येऽहमिति नेत्रस्य सभयचकितत्वम्) दृशं (नेत्रं) विन्यस्यन्तीं (निक्षिपन्तीं) मुहुः (पुनः पुनः) स्थित्वा (ससाध्वसं विश्रम्य) मन्दं [यथा तथा] पदानि वितन्वर्तीं (विक्षिपन्तीं) [दौर्बल्यात् शीघ्रगमनाशक्त्या पदयोः मन्द-मन्द- विन्यासत्वम्] [अतः] कथमपि (अतिक्लशेन) रहःप्राप्तां (एकान्ते उपस्थितां) अनङ्ग-तरङ्गिभिः (कामतरङ्गपूर्णैः, उत्कण्ठया अनङ्ग-तरङ्गितवसङ्गनानाम्) अङ्गैः [उपलक्षितां] त्वां पश्यन् कृतार्थतां (साफल्यं) उपैतु (प्राप्नोतु; कृतार्थो भवतु इत्यर्थः) ॥४॥