गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 400, कुल 448 में से
संदर्भ में पढ़ें३६८ श्रीगीतगोविन्दम् श्रीराधासे जुड़कर द्विगुणित हो जाते हैं। ऐसे श्रीकृष्ण जिन्हें श्रीराधा निरन्तर देख रही हैं, नित्यकालके लिए हृदयमें विराजमान हो जायें। श्रीगीतगोविन्द काव्यके इस बाईसवें प्रबन्धका नाम 'सानन्द गोविन्दराग श्रेणिकुसुमाभरण' है। अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः। तदानीं राधायाः प्रियतम-समालोकसमये पपात स्वेदाम्बुप्रकर इव हर्षाश्रुनिकरः ॥१॥ अन्वय—[अथ श्रीकृष्णस्य श्रीराधिकादर्शनानन्द-विकारमुक्त्वा इदानीं श्रीराधायास्तद्दर्शनानन्दविकारमाह]—तदानीं प्रियतम-समालोक समये (प्रियतमस्य श्रीकृष्णस्य दर्शनकाले) अपाङ्गम् (नेत्रप्रान्तं) अतिक्रम्य श्रवण-पथपर्यन्त गमनप्रयासेनेव (कर्णान्तपर्यन्तं बहुदूरमित्यर्थः गमनप्रयासेनेव) तरलतर-तारं (तरलतरा अतिचञ्चला तारा नेत्रकनीनिका यत्र तद्यथा तथा) पतितयोः राधायाः अक्ष्णोः (नेत्रयोः अतृप्तयोरिति शेषः) स्वेदाम्भः-प्रकरः (श्रमजातघर्मजलप्रवाहः) इव हर्षाश्रुनिकरः (आनन्दाश्रुचयः) पपात। [अत्रायं भावः—यः अत्यन्तं गच्छति गतिवेगवशात् स घर्माक्तः भूमौ पतति; पतित्वाच झटिति उत्थाय किमहं केनापि दृष्ट इति सलज्जः तरलतरतारः दिशः अवलोकयति; द्रुततरगमनायासात् तस्य तनोः घर्मवारि प्रसरति च; तद्वत् श्रीकृष्णावलोकनसमये श्रीराधायाः नेत्रयुग्मम् अपाङ्गमतिक्रम्य कर्णयुगलं यावत् गतं, तेन च सुदूरगमनश्रमादिव आनन्दाश्रु- व्याजेन घर्मवारि निःससार] ॥१॥ अनुवाद—प्राणेश्वरके मिलन-क्षणोंमें श्रीराधाके अतृप्त नयन-युगलने अपाङ्गको अतिक्रमण कर श्रवण-पथ पहुँचनेका प्रयास किया। इस प्रयासमें चंचल बने नेत्रोंसे पसीनेके प्रसारके रूपमें हर्ष ही अश्रु-धारा बनकर प्रवाहित होने लगा।