भारतकोश
गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)

गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)

Gita Govinda of Jayadeva with Hindi Commentary

महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 440, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 440

४०८ श्रीगीतगोविन्दम् यद्गान्धर्व-कलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गार विवेक-तत्त्व-रचना-काव्येषु लीलायितम्। तत्सर्वं जयदेव पण्डित-कवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥२॥ अन्वय—[अथोपसंहारेऽपि स्वाभीष्टोपासनायाः सर्वोत्तमता निश्चयावेशेन कारुण्योदयात् तत्र सन्दिहानान् भक्तरसिकजनान् प्रत्याह]—भोः सुधियः (श्रीकृष्णभक्तिरसोल्लासितचित्ताः साधवः) [भवन्तः] सानन्दाः (आनन्देन सहिताः सन्तः) कृष्णैकतानात्मनः (कृष्णे एकतानः एकाग्रः अनन्यवृत्तिरिति यावत् आत्मा मनः यस्य तस्य; श्रीकृष्णैकान्तभक्तस्यैव सर्वगुणाश्रयत्वादित्यर्थः; यस्यास्ति भक्तिर्भगवत्यकिञ्चने इत्युक्तेः) जयदेव-पण्डितकवेः (पण्डासद-सद्विवेचिका बुद्धिः तया अन्वितः कविः सत्काव्य- कर्त्ता; जयदेव एव पण्डितकविस्तस्य) श्रीगीतगोविन्दतः (श्रीगीत- गोविन्द-ग्रन्थात्) [वक्ष्यमाणं] तत् सर्वं परिशोधयन्तु (परि सर्वतोभावेन शोधयन्तु आशङ्कापङ्कमुद्धार्य निश्चिन्वन्तु इत्यर्थः) [तत् किमित्याह]—यत् गान्धर्वकलासु (सङ्गीतशास्त्रोक्त- गीतराग- तालादिषु) कौशलं (नैपुण्यं) [तदेव निर्बन्धानुसारेण जानन्तु इत्यर्थः]; [न केवलमेतत्, अपि तु] यत् वैष्णवं (वेवेष्टि विश्वं व्याप्नोतीति विष्णुः; सर्वव्यापनशीलस्य विष्णोः अचिन्त्या- नन्तशक्तेः स्वयं भगवतः श्रीकृष्णस्य भजन-विषयकं) अनुध्यानं (अनुचिन्तनं स्वाभीष्ट-तल्लीलाविचार-समाधानात् अनुक्षण- चिन्तनमित्यर्थः) [तदपि एतद्दृष्ट्येव निश्चिन्वन्तु; नित्यत्व- सर्वोत्तमत्वनिश्चयात् द्रढ़ीकुर्वन्तु इतिभावः] यदपि शृङ्गारविवेकतत्त्वं (तत्रापि दुरूहगतेः शृङ्गारस्य-महाप्रेमरसस्य विवेके विचारे यत् तत्त्वं दुरूहातिदुरूह-व्रजलीलागतं) [तदपि निश्चिन्वन्तु]; काव्येषु यत् लीलायितं (विलसितं, रासलीलादि-व्यञ्जनाविशेष ग्रथनं) [तदपि परिशेषयन्तु एतदनुसारेण निश्चिन्वन्तु] ॥२॥ अनुवाद—जो गान्धर्व कलाओंमें कौशल हैं, श्रीकृष्णका जो ध्यान है, शृङ्गार रसका जो वास्तविक तत्त्व-विवेचन है,