गीतगोविन्दम् (महाकवि जयदेव - सम्पूर्ण १२ सर्ग व २४ अष्टपदी सटीक)
Gita Govinda of Jayadeva with Hindi Commentary
महाकवि जयदेव / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 446, कुल 448 में से
संदर्भ में पढ़ें४१४ श्रीगीतगोविन्दम् इत्थं पूर्वकथाभिरन्य मनसो विक्षिप्य वक्षोञ्चलं पद्मायाः स्तनकोरकोपरि मिलन्नेत्रोहरिः पातु वः ॥ अन्वय—[एवं चिन्तयन् अत्युच्छलितोत्कण्ठया तदवलोकनाय तस्य वैचित्त्यापत्तेः पुनः श्रीनारायण-चरित-वर्णन-कौतुकमातनोदिति स्मरन् पुनः अशिशयति]—अयि सुन्दरि (त्रिलोकसौन्दर्यसारभूते) क्षीरोदतीरोदरे (क्षीरोदस्य क्षीरसागरस्य तीरोदरे तटमध्ये) मयि स्वयंवरपरां (मदेकचित्तामित्यर्थः) त्वाम् अप्राप्य मूढः (तव सौन्दर्यविमुग्धः) मृडानीपतिः (गिरिजानाथः) कालकूटं (विषं) अपिबत् (वृथैव मे जीवितमिति मन्यमानः तत्त्यागार्थमिति भावः] [इति अहं] शङ्के (सम्भावयामि); [एतेन गिरिजाया अपि पद्मायाः सौन्दर्याधिक्यं सूचितम्], इत्थं (एवं) पूर्वकथाभिः (पुराणप्रसिद्धाभिस्तदश्रुतपूर्वाभिः) अन्यमनसः (विस्मितचित्तायाः) पद्मायाः (लक्ष्म्याः) वक्षोऽञ्चलं (वक्षःस्थमुत्तरीयवसनं) विक्षिप्य (अपसार्य) स्तनकोरकोपरि (कुचकुट्मलयोः उपरि) मिलन्नेत्रः (संक्रान्तदृष्टिः) हरिः वः (प्रेमरसज्ञान् भक्तान् युष्मान्) पातु ॥ अनुवाद—हे सुन्दरि! मूढ़ मृड़ानीपति रुद्र क्षीर-सागरके तटपर जब तुम्हें प्राप्त नहीं कर सके, तब तुमने स्वयं मुझे वरण कर लिया। इस प्रकार पूर्ण कथाको मनमें स्मरण कर महापद्मारूपा श्रीराधाके स्तन कोरकके ऊपर जिन्होंने नेत्र भर-भरकर दर्शन प्राप्त किये, वे श्रीहरि आप सबकी रक्षा करें। श्रीभोज-देव-प्रभवस्य रामा-देवीसुत श्रीजयदेवकस्य। पराशरादिबन्धुवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ इति श्रीजयदेवकृतौ गीतगोविन्द सुप्रीतपीताम्बरो नाम द्वादशः सर्गः। अन्वय—[अथ स्वमातृपितृस्मरणपूर्वकं पराशरादिमत-ज्ञातार एव अस्य अधिकारिणः इति तान् प्रति अशिशयति]—श्रीभोजदेव- प्रभवस्य (श्रीभोजदेवः प्रभवः जनको यस्य श्रीभोजदेव-सुतस्य)