गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 111, कुल 332 में से
संदर्भ में पढ़ेंइति । प्रह्वेण-अवनतेन । न तिष्ठता-नोर्ध्वजानुना । तथा— “यत्र दिङ्नियमोनास्ति जपहोमादिकर्म्मसु । तिस्रस्तत्र दिशोज्ञेया ऐन्द्री सौम्याऽपराजिता ॥” इति । ऐन्द्री-पूर्वा । सौमी-उत्तरा । अपराजिता-ऐशानी ॥ १३ ॥ तेषाम्पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्सव्यस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्या ब्रह्मासनात्तृणमभिसङ्गृह्य दक्षिणापरमष्टमन्देशन्निर- स्यति “निरस्तः परावसुर्—”ति ॥ १४ ॥ तेषाम्—आसनास्तृतदर्भाणां पुरस्तात्-पूर्वदिशि । प्रत्यङ्मुखः-पश्चिमा- भिमुखस्तिष्ठन्-ऊर्ध्वावस्थितः । सव्यस्य-वामस्य । पाणेः-करस्य । अङ्गुष्ठे न(१) उपकनिष्ठिकया अनामिकया चाङ्गुल्या तृणं दर्भं सामान्यशक्तस्यापि वा- क्यैकवाक्यतया विशेषे तात्पर्यनिर्णयात् । दक्षिणापरं-दक्षिणस्याश्चापरायाश्च- दिशोर्यदन्तरालं स दक्षिणापरस्तमष्टमं देशं(२) निर्ऋतिकोणलक्षणमुद्दिश्य(३) निरस्यति-क्षिपति । तत्र करणमन्त्रमाह “निरस्त” इति । मन्त्रार्थस्तु-अपकृ- ष्टभागोरक्षोऽधिष्ठानभूतः “परावसुः” इत्युच्यते । स चानेन तृणनिरसनेन स्थानादस्मान्निरस्तोनिराकृतः वेदितव्यः । “प्रत्यादिष्टोनिरस्तःस्यात्प्रत्याख्या- तोनिराकृतः” इत्यमरः । तेनतत्स्थानं पवित्रतरमुपजातमित्यर्थः ॥ १४ ॥ अप उपस्पृश्याथ ब्रह्माऽऽसन उपविशति । “आवसोः सदने सीदामी”—ति ॥ १५ ॥ अप उदकम् । उपस्पृश्य(४)-आचम्य । “उपस्पर्शस्त्वाचमनम्” इत्यमरः । अन्यच्चेष्टेत” इति वक्ष्यमाणेन ( १।६।२१ ) अस्याभिसम्बन्धोवर्णनीयः । तथा च श्लोकम्पठति— “येन यस्याभिसम्बन्धो दूरस्थस्यापि तस्य सः । अर्थतोह्यसमर्थानामानन्तर्यमकारणम् ॥”
( १ ) कनिष्ठामुपगतोपकनिष्ठिकेति तत्पुरुषः समासः । ( पा० १।४।७९ ) चन्द्रका- न्तभाष्येषु तु कनिष्ठिकाया उपसमीपे तिष्ठतीति व्युत्पत्तिर्दर्शिता ॥ ( २ ) प्रत्यङ्मुखावस्थितस्य यजमानस्य प्रथमोदेशः प्रत्यग्भवति सम्मुखः, ततश्चा- ष्टमः प्रादक्षिण्येन निर्ऋतिकोण एव भवतीति साधीयसी वचनव्यक्तिः । ( ३ ) तथाचोद्दिश्येत्यध्याहार्यम् । चन्द्रकान्तभाष्ये तु सप्तम्यर्थे व्यत्ययेन ( पा० ३।१।८५ ) द्वितीया दर्शिता ॥ ( ४ ) अत्राचमने निमित्तं नैरृतस्य (निर्ऋतिदेवताकस्य) आसुरस्य मन्त्रस्य जप एवेति प्रतिभाति । “रौद्रपैत्राऽऽसुरा मन्त्रांस्तथा चैवाभिचारिकान् । व्याहृत्यालभ्य चात्मानमपः स्पृष्ट्वा शुचिर्भवेत्” इति कातीयस्मरणात् ॥