गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 113, कुल 332 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown in Devanagari:
८२ अथ दर्शपूर्णमासविधिः । [ १ प्रपाठके- यद्ययज्ञियां वाचं वदेत् वैष्णवीमृचँयद्यजुर्वा जपेत् ॥ १९ ॥ यदि-कुतश्चित्कारणात्(१) अयज्ञियां यज्ञानर्हां वाचं वदेत्तर्हि वैष्णवीं वि- ष्णुदेवताकामृचम् “इदंविँष्णुर्र्विचक्रमे”-इत्यादिलक्षणाम्। तदज्ञाने-यजु रपि(२) “विष्णोस्राटमसि” इत्यादिकम्। जपेद्दोषशान्त्या इत्यर्थः । “प्रमादात्कुर्वताङ्कर्म प्रचवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः” इति स्मृत्यन्तराभिधानञ्चात्रोद्बलकं द्रष्टव्यम् ॥ १९ ॥ अपि वा “नमोविष्णवे” इति ब्रूयात् ॥ २० ॥ अपि वा-अथवा । तयोरज्ञानदशायां क्रियालाघवेन वा । विष्णुस्मरणमा- त्रस्य विधेयस्य ता