गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 43, कुल 332 में से
संदर्भ में पढ़ें१२ अग्न्याधानविधिः। [ १ प्रपाठके पादानमाह—गृह्यसङ्ग्रहः— “कपालैर्भिन्नपात्रैर्वा न त्वास्मैलौमयेन वा । अग्निप्रणयनङ्कार्यं यजमानभयावहम् ॥ अल्पः प्रणीतोविच्छिन्नोऽसमिद्धश्चापरिश्रुतः । त्वरया पुनरानीतोयजमानभयावहः ॥ तस्माच्छुभेन पात्रेण अविच्छिन्नाङ्कुशं बहु । अग्निप्रणयनं कुर्याद्यजमानसुखावहम् ॥ शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तम् ॥” इति । यत्तु—“शरावे भिन्नपात्रे वा कपाले वोन्मुखेऽपि वा । नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम्” ॥ इति स्मृत्यन्तरन्तदुदाहृतवचनविरोधात्कौथुमादिव्यतिरिक्तविषयम् । कांस्यादिपात्रसद्भावे शरावनिषेधकमिति राघवभट्टप्रभृतयः ॥ ११ ॥ एवं लक्षणादिकर्म्माभिधायाथान्यानपि आधानकालानुपदिशति— त्रिभिः सूत्रैः प्रेते वा गृहपतौ परमेष्ठिकरणम्॥ १२ ॥ वा-अथवा गृहपतौ गृहस्वामिनि पितरि । अत्र वा शब्दोवैकल्पिकत्वमस्य ( आधानकालस्य ) दर्शयति(१) । प्रेते-इति प्रपूर्वा “इण्गताविति (अ० प०) धातोः “गत्यर्थाकर्मके”—( पा० ३।४।७२ )-त्यादिना कर्त्तरि क्तः । प्रक- र्षेण इते गते अस्माल्लोकाल्लोकान्तरं , मृते इति तदर्थः । भ्रातृमतस्तु ज्येष्ठेन सर्वानुमतेन पैतृकधनविभागकाले(२) परमेष्ठिकरणम् । परमे श्रेष्ठे स्थाने ति- स्वीयमधिकारं प्रकर्षेण जानानः । देवेभ्योऽस्मत्प्रत्तं हव्यं हवनीयं ( हविः ) वहतु- प्रापयतु । इति ॥ ( १ ) वस्तुतस्त्वनास्थायाम् । अग्रिम-( १।१।२० )-सूत्रदर्शनेन कालद्वयस्यैव मुख्यत्वेन सूत्रकृतोपसंहृतत्वावगमात् ॥ ( २ ) एतच्च गौतममतम् । वस्तुतस्त्वेतज्ज्येष्ठक्रमन्नानुरुन्धे । पृथक् पृथक् धन- स्वाम्यात् । यद्येकत्र तिष्ठेत्तदा तत्र—“ज्येष्ठः कुर्यात्तथाधानम्” इति कात्यायनस्वरसः । तथाच गौतमः । “भार्यादिरग्निर्दायादिर्वा” इति । “दायाद्यकाल एकेषाम्” इति च गृह्या- न्तरम् । दायः पैतृकन्धनम् । परेते हि गृहस्वामिनि दायसम्बन्धः पुत्राणामिष्यते । “ऊर्ध्वम्पितुश्च मातुश्च समेत्य भ्रातरस्समम् । भजेरन्पैतृकमृक्थमनीशास्ते हि जीवतोः ॥ इति“पितर्युपरते पुत्रा विभजेयुर्धनं पितुः । अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते”इति चैवमादि । तच्चैकादशेऽहनि स्यात्प्रागनधिकारात् । दोषश्चाऽयथाविनियोक्तृत्वादिः । तथाच याज्ञवल्क्यः “अयथा विनियोक्ता च न विभागे पिता प्रभुः”इति । कर्कोपाध्याया- स्त्वाहुः व्यवस्थितोऽयं गौतमाद्युक्तोविकल्पः । अभ्रातृकस्य दारकालः । भ्रातृमतोदायाद्य-