भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 45, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 45

१४ अग्न्याधानविधिः । [प्रपाठके १

थिश्च नक्षत्रं च तिथिनक्षत्रे । नक्षत्रञ्च पर्व च नक्षत्रपर्वणी । तयोस्तयोश्च समवायः संयोगस्तस्मिन् । तिथिरत्र पर्वेतरा(१)पर्वेति पुनः करणात् । नक्षत्रं (२)मघामृगशिरोहस्तादि । तयोः समवाये । पर्वाणि तु(३)— “चतुर्द्दश्यष्टमीचैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च” ॥ इत्यन्यत्रोक्तानि । अत्र रविसङ्क्रान्तिरित्‍येकम्पदम् । “पञ्च पर्वाणी”ति पृथक् स्मृतेः । ततश्च तिथिनक्षत्रयोः, नक्षत्रपर्वणोश्च समवाये इत्यर्थः । उपलक्ष- ञ्चैदम्— “वह्निग्रहं कुज-गुरु-ज्ञ-दिनेश-वारे माघादिषट्सु च मृदुध्रुववाह्रभेषु । कुम्भान्तभांशकविलग्नमशुद्धकालं लभ्नस्थशीतगुसितौ च विहाय कुर्यात्” इत्यादे र्ज्योतिःशास्त्रोक्तकालविशेषस्य ॥ १३ ॥ तादृशः समयः शीघ्रं न घटेत चेत्तत्राह— दर्शे वा पौर्णमासे वाऽग्निसमाधानङ्कुर्वीत ॥१४॥ वा-अथवा दर्शे-अमावास्यायाम् । पौर्णमासे-पूर्णिमायां वा अग्नि समाधानम् । अग्नेः सम्यक्(४) ( यथाशास्त्रम् ) आधानम्-आभिमुख्येन स्था-


सम्भवात् । एवमर्थकरणं युज्यत एव । भट्टभाष्येतु-“नक्षत्रशब्दः काकाक्षिगोलक न्याया- दुभयत्र संबध्यते” इत्युक्तम् । वाशब्दोल्लुप्तवद्द्रष्टव्य” इतिच ॥ ( १ ) “पौर्वापर्ये सति पूर्वदौर्बल्यम्” इतिन्यायात् । एषन्यायः “विप्रतिषेधे परं कार्यम्” ( १।४।२ ) इति पाणिनिस्मृतिमूलकः ॥ ( २ ) अत्र नक्षत्रं माससंज्ञानिमित्तं चित्रादिकमितिचन्द्रकान्तभाष्यम् । वसन्तर्त्तो- रेवाग्न्याधानकालत्वेन विप्रेषु प्रसिद्धेश्चित्रायाः स्वोपलक्षितमासस्य वर्षादिज्ञापकत्वात् । वस्तुतस्तु न चित्राया एवस्वोपलक्षितमासान्तस्य वर्षादिज्ञापकत्वम् । अतएवाग्रहायणिक इतिसमाख्या कोशेषु वर्षादिमासस्योपपद्यते । मघाद्यानामेवाधानत्वंज्योतिषे । यथा- चोपरिष्टाद् व्यक्तीभविष्यति ॥ ( ३ ) अत्रपर्व पौर्णमासम् । तयोः समवाये वाऽग्निसमाधानं कुर्वीतेति चन्द्रकान्त- भाष्यम् । यद्वाऽत्र (उत्तरवाक्ये) नक्षत्रपदं श्रुत्युक्तनक्षत्रपरं, तथाच “कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां कस्मिंश्चित्” इतिश्रौताश्व- लायनयोः “या वैशाखस्यामावास्या रोहिण्या सम्बध्यते तस्यामादधीत” इति श्रुत्यु- क्तयोर्वा समवाये इत्यर्थः । तदिदमाधानकालद्वयं, यच्च तिथिनक्षत्रसमवायः । यश्च नक्षत्र- पर्वसमवायः । इति ।। भट्टभाष्येतु तिथिया पौर्णमास्या यानि नक्षत्राणि समाख्या- यन्ते तानि तिथिनक्षत्राणि मघादीनि द्वादश । तेषामन्यतमस्य पर्वेणा पौर्णमासेन सम- वायः संयोगस्तिथिनक्षत्रपर्वसमवायस्तस्मिन् इत्युक्तम् । अस्मिंश्च नयेऽनेन सूत्रेणैक एवाधानकालोऽभिहित इत्यवगन्तव्यम् ॥ ( ४ ) अन्ये तु व्याचक्षते—समेत्य मिलित्वा आधानं समाधानम् । अन्यथाऽन्वा- धानं कुर्वीतेत्युक्त्यापि प्रकृतार्थसिद्धिसम्भवात्समिति व्यर्थं स्यादिति । केनेति सहका-