भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 46, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 46

१ कण्डिका ] गोभिलगृह्यसूत्रे- १५ पनं तदनु पोषणं (रक्षणं) (१) च कुर्वीत । इदञ्चाधानमग्रजे क्लीबत्वादिदोषरहिते तदैव कार्यं, यदासौऽनुमन्यते नान्यथा । तथा चोक्तं शङ्खेन-- अग्रजः स्याद्यदाऽनग्निरधिकार्यनुजः कथम् ? । अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि” ।। इति पितर्य्यनग्नावपि पुत्रस्याधानाधिकारोन विहन्यते तथाचोक्तं तेनैव(श०) “पितुर्यस्य न चाधानं कथम्पुत्रस्तु कारयेत् ? । अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा” ।। आधानपरिपाटी चाचार्य्येणानुक्ताऽपि- “परिधायाऽहतं वासः प्रावृत्य च यथाविधि” इत्येवमादिकर्म्मप्रदीपवच- नेभ्य एवावगन्तव्यन्त्रत्वध्वर्य्युभ्योगृहीतव्यम् । परोक्त(२)त्वात् । वा शब्दद्वयं तुल्यवद्विकल्पार्थम् । इति भाष्यकृतः । वस्तुतस्तु । कालविलम्बस्य सोढुमयो- ग्यत्वात् यदा तदा वा झटिति समाधान(३)मग्नेः कुर्वीतेति-अनास्थायामप- रोवाशब्दः ॥ १४ ॥ र्य्याकाङ्क्षायामाह कर्मप्रदीपः--“नैकयाऽपि विना कार्य्यमाधानं भार्यया द्विजैः । अकृत- न्तद्विजानीयात्सर्वा न त्वारभन्ति यत्” इति । अत्र विशेषमाह-कात्यायनः-- “वर्णज्यैष्ठ्येन बह्वीभिः सवर्णाभिश्च जन्मतः । कार्यमग्निच्युते नाभिः साध्वीभिर्मन्थनं पृथक् ।। नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् । नाशासनस्थां नान्येन पुंसा च सह संगताम् ।। ततः शक्तिवरा पश्चादासांमान्यतमैव या । उपेतानाञ्चान्यतमा मन्थेद्वाग्निं निकामतः ॥” इति ॥ ( १ ) दधातेर्द्धारणपोषणोभयार्थत्वस्मरणात् । पोषणमत्र संरक्षणन्दधातेरर्थः । ( २ ) परोक्तत्वेनाक्रियात्वात् । तथाचच्छन्दोगपरिशिष्टम्- “अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया ।। स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः । कर्त्तुमिच्छति दुर्मेधा मोघन्तत्तस्य चेष्टितम् ।।” इति ॥ ( ३ ) दश वा पौर्णमासे वा यस्मिन्कस्मिन्नप्येकस्मिन् तु नक्षत्रयोगाद्यपेक्षया करणविलम्बी स्यात् । “न श्वः श्वरुपासीत कोहि मनुष्यस्य श्वोवेद” इति श्रुतेः । “श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाकृतम्” इति स्मृतेश्च । कालाऽतिक्रमेऽप्यग्न्याधानस्य प्रायश्चित्तमाहकात्यायनः “यावन्त्यब्दान्यती तानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धोम्यन्दद्याद्यथाविधि” ॥ इति । तथा चातिक्रान्तसंव्वत्सरसंख्यया प्राजापत्यव्रतरूपं प्रायश्चित्तम्मुख्यविधिना चरित्वा तद- शक्तौ प्रतिप्राजापत्यन्धेनुं तन्मूल्यं वा दत्त्वा द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय होम्यं-सायम्प्रातर्होमद्रव्यं प्रत्यहमाहुतिचतुष्टयपर्याप्तमतिक्रान्तदिवसान्गणयित्वा ब्राह्मणेभ्योदद्यात् । अत्र प्रशंसा