भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 58, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 58

१ कण्डिका ] गोभिलगृह्यसूत्र- २७ भ्यां नासापुटद्वयं स्पृष्ट्वाऽङ्गुष्ठकनिष्ठाभ्यां सजलाभ्यां कर्णौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठा- भ्यां नाभिं स्पृशेत् । प्रकृतसूत्रानुसाराइक्तः क्रमोऽत्र कल्पे न विवक्षितः । स हि सर्वशाखिसर्ववर्णसाधारणः कल्प (१) । तत्र तर्जन्यङ्गुष्ठाभ्यां सोदका- भ्यां नासापुटे स्पृष्ट्वाऽङ्गुष्ठानामिकाभ्यां सोदकाभ्यामक्षिणी स्पृष्ट्वा एवमेव(२) श्रोत्रे ततः कनिष्ठाङ्गुष्ठाभ्यां नाभिं स्पृशेदिति । तथाच शङ्खः— “तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठमध्यायोगेन स्पृशेन्नेत्रद्वयं ततः ॥ अङ्गुष्ठानामिकायोगे श्रवणौ समुपस्पृशेत्” । इत्येवं विशेषोदृश्यते । परिगृहीतश्चायमाचारेणापि बहूनाम्—अत्र कर्ण- स्पर्शो कनिष्ठाङ्गुष्ठयोगः । “कनिष्ठाङ्गुष्ठाभ्याञ्च कर्णावालभते ततः” इत्या- चारविवेकधृतभविष्यपुराणवचनात् । ततः पाणिं प्रक्षाल्य करतलेन हृदयं स- र्वाङ्गुलीभिः शिरोऽङ्गुल्यग्रेणांसद्वयं स्पृष्ट्वा शेषं जलञ्चिच्छिदामहस्ते दद्यात् । इदमाचमने, द्विराचमने तु पादप्रक्षालनवर्जमखिलमावर्तते । भोजनोपक्रमाच- मने सकृदेवोष्ठस्पर्श इति निबन्धाराः ॥ ८ ॥ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥ ९ ॥ यद्यत् इन्द्रियमन्यद्वाऽङ्गं मीमांस्यं विचार्य्यं ( विचारार्हं ) स्यात्तत्तदद्भिरु- दकैः संस्पृशेत् । प्रक्षालयेत् । न तु (३)संशयनिरासाय विचारमेव कुर्य्यादित्यर्थः९ तत्रैतदाहुः ॥ १० ॥ तत्र तस्मिन्नाचमने एतत्—“नोपस्पृशेद्द्रजन्नि”त्यादि—“उच्छिष्टो हैवातोऽन्यथ भवति” (१।२।३०) इत्येतदन्तं वक्ष्यमाणमाहु“र्ब्राह्मणवाक्यानी”ति वाक्यशेषः१० नोपस्पृशेद्द्रवजन् ॥ ११ ॥ व्रजन्—गच्छन् । नोपस्पृशेत्-नाचामेत् । “उपस्पर्शस्त्वाचमनम्” इत्य- मरः ॥ ११ ॥ न तिष्ठन् ॥ १२ ॥ स्थितिरूर्ध्वावस्थानम् । उपस्पृशेदित्यग्रेऽपि यथायथमभिसम्बध्यते ॥१२॥ न हसन् ॥ १३ ॥ न हसन्हासस्यकुर्वन्स्मयमानोवा । तन्मनाः सुमनाश्चेत्यर्थः ॥ १३ ॥ न विलोकयन् ॥ १४ ॥ ( १ ) तत्र घ्राणं पश्चादनन्तरं चक्षुरित्येव तदभिमतमिति कश्चित् ॥ ( २ ) अङ्गुष्ठानामिकाभ्यां सोदकाभ्याम् ॥ ( ३ ) मीमांसा-विचारः इदमङ्गं शुद्धं जातन्न वेति सन्देहनिरासायेत्यर्थः ॥