भारतकोश
गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

पृष्ठ 78, कुल 332 में से

संदर्भ में पढ़ें
पृष्ठ 78

१ कण्डिका ] गोभिलगृह्यसूत्रे- ४७ चतुर्थी कण्डिका । ( अथ बलिवैश्वदेवप्रकरणम् ) अथ पत्न्योपक्लृप्तस्यान्नस्य विनियोगमाचष्टे— अथ वाग्यतोबलीन्हरेत् ॥ १ ॥ अथेति-प्रकृतापेक्षार्थकम । प्रक्रान्तेनान्नेन वाग्यतः सयँतवाक् ( मौनी ) सन् बलीन्-देव-भूत-(१)पितृ-बलीन् वक्ष्यमाणान् । हरेत्-दद्यादित्यर्थः । बलिपदं चोपलक्षणं होमादेरपि(२) । “स्वशाखाविधिना हुत्वा तच्छेषेण बली- न्हरेत्” इति कात्यायनवचनात् ॥ १ ॥ अथ वाग्यत इत्यस्यापवादमाह— भाषेताऽन्नसंसिद्धिम् । अतिथिभिः कामं सम्भाषेत ॥ २ ॥ अन्नसंसिद्धिम-उपक्लृप्तस्यान्नस्य सम्यक् सिद्धिं “प्रकृत्य” इति शेषः । किमिदमन्नमुपसिक्तं न वेति भाषेत-वदेत् । एवम् अतिथिभिः(३) अभ्यागतैः सह कामम्-इच्छया सम्भाषेत । बलिहरणकालेऽपि । अतिथिगुणविशेषादिकं ज्ञात्वा इच्छया सम्भाषेत न वा सम्भाषेतेत्यनियमोऽत्र कामशब्देन दर्शितोभवति एतदुभयादन्यत्र मौनमित्यर्थः ॥ २ ॥ अथ हविष्यस्यान्नस्योद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्याग्नौ जु- हुयात्तूष्णीम्पाणिनैव ॥ ३ ॥ अथेति प्रकृतापेक्षममन्त्रकपरिसमूहनादिपर्युक्षणान्तं कर्म्म स्मारयति । क- र्म्मप्रदीपोऽप्याह— “पर्युक्षणञ्च सर्व्वत्र कर्त्तव्यमदितेऽन्विति । अन्ते च वामदेव्यस्य गानकुर्याद्विचक्षणा ॥” इति । सर्व्वत्र-सर्व्वस्मिन्होमकर्म्मणि “वामदेव्यगानं शान्त्यर्थं शान्त्यर्थम्” ( १।९।२१ ) इति । हविष्यस्यान्नस्य पूर्व्वोक्त—( १।३।६ ) रूपस्य । अवयव- लक्षणाऽत्र षष्ठी । सावशेषः खल्वेष होमोभवति । एतदवशिष्टेनैवान्नेन बलि-


( १ ) यद्यपि-कात्यायनेन “होमोदैवोबलिर्भौतः” इत्युक्तं, तथापि देवपदमिह देह- लीदीपन्यायेन पूर्व्वोत्तरयोरन्वयि द्रष्टव्यम् । एवं “पित्र्योबलिरथापि वे”त्युक्त्या तृतीयो- ऽपि । मनुष्येभ्यस्तु — हन्तेत्युक्तेर्न बलित्वेन प्रदानमभिहितमितित्रयोबल्योऽत्र ( वैश्व- देवे,) बहुवचनेनोपात्ताः । नमोऽन्तएवार्य्यबलिर्भवतीत । ( २ ) आदिनाऽतिथिभोजनम् । ततश्च स्वेभ्योऽपि । ( ३ ) न द्वितीया-तिथिरस्येति अतिथिरुच्यते । बहुवचननिर्देशात्सतिसम्भवे बह- वोऽप्यतिथयोभवन्ति इति दर्शयति ।