गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 79, कुल 332 में से
संदर्भ में पढ़ें४८ बलिवैश्वदेवविधिः । [ १ प्रपाठके- हरणस्योक्तत्वान् । गृहमेधिनो भोजनमप्येतदवशिष्टेनेव । अमृत(१)रूपत्वादस्य अन्नस्येत्युक्त्या नात्र चरोरावृदस्तीति(२) बोध्यते । स्थालीपाके खलु चरौ ता- मावृतं वक्ष्यति । नात्र स्थालीपाकः श्रूयते । मनुरप्याह- "वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ॥” इति । विश्वेषां ( सर्वेषां ) देव-भूत-पितृ-मनुष्याणामिदमित्यर्थे ऽण् (पा० ४।३।१२० ) वैश्वदेवमन्नम् तस्येत्यर्थः । व्यञ्जनैरिति । क्षारलवणसंसृष्टै- रित्यर्थः । "न क्षारलवणहोमो विद्यते, तथा परान्नसंस्सृष्टस्ये"-त्यापस्तम्बस्मर- णात् । क्षारलवणसंसृष्टेन हविषा न होतव्यमिति मदनपारिजाते व्याख्या- तम् । क्षारलव(३)णमिति समाहारद्वन्द्वः । “क्षारञ्चलवणं सर्वं वैश्वदेवे विवर्ज- येत्” इति मदनपारिजातधृतस्मृतेः । तत्र क्षारगणः शुभकर्म्मनिर्णयेस्मर्य्यते- “तिलमुद्गह्रते शिम्बिसस्ये गोधूमकोद्रवौ । चीनकन्देवधान्यञ्च सर्वशाकान्तथैव च । स्विन्नधान्यन्तशौर्य्यं स्थूलं क्षारगणः स्मृतः ॥” इति । लवणं च सर्वविधं निषिद्धम् । उपसिच्य । सन्नीय । तूष्णीमिति वाग्व्यापारप्रतिषेधान्मनसा मन्त्रमुच्चारयेत्यर्थः (४) । पाणिनेवेत्येवकारः स्रुवा- दिपात्रान्तरं(५) व्यवच्छिनत्ति । अत्र (पाण्याहुतौ ) अङ्गुष्ठयोग आवश्यकः । ( १ ) यज्ञावशिष्टस्यामृतत्वमभिधीयते "अमृतं विघसोयज्ञशेषभोजनशेषयोः” इति । भगवानप्याह- "यज्ञशिष्टासृतभुजोयान्ति ब्रह्म सनातनम्” इति । एतच्चान्नं पर्यु- षितादि न ग्राह्यम् । "अन्नंपर्युषितञ्चैव परान्नं पायसन्तथा । दग्धमन्नं तथा क्षारं वैश्वदेवे विवर्जयेत्” । इति धर्मार्थधर्मप्रबोधिभ्यां प्रेमनिधिकुराः प्राहुः । ( २ ) तथाच । गृह्यपरिशिष्टे-"अथवैश्वदेवोदिवास्य प्रारम्भोनार्न्नपाकयज्ञतन्त्रमौपा- सनवचनं वा परिसमूह्य पर्युक्ष्यायतनमलङ्कृत्य सिद्धं हविष्यमधिश्रित्याद्भिः प्रोक्ष्योद्गु- द्वास्याग्नेः प्रत्यक् दर्भेषु निधाय सर्पिषाऽभ्यज्य । सव्यं पाणितलं हृदये न्यस्य सकृदवदानेन जुहुयात् । अन्नाभावे तण्डुलादिभिः कुर्यात् । अन्ने च परिसमूह्य पर्युक्षेद्देवं नात्र तन्त्र- मि”ति । अन्नम्-भक्तम् । "भित्सास्त्रीभक्तमन्धोऽन्नम्” इत्यमरः । (३) पारस्कारोऽपि-"त्रिरात्रमक्षारलवणाशिनौ स्याता म”ति वधूवरनियमप्रक्रमे पृथगेव क्षार-लवणावभिहितवान् । तत्र क्षारञ्च लवणञ्चेति हरिहरादिभाष्येषु स्पष्टम- भिहितम् । ( ४ ) "वाग्यतोबलीन्हरेदि"-( ५। ४ । १ ) ति बलिहरण एव वाग्यतत्वमुक्तमि- तीह होमे न प्राप्तोतीत्यतोऽत्रतूष्णीमित्युक्तम् । ( ५ ) तदेतद्धवनं देवतीर्थेन जानुमध्यघृतकरेण च कार्यम् । तथाच हारीतः-“मार्जना- चमनभोजनानि देवेने"-ति । बौधायनश्च-"भोजनं, हवनं दानमुपहारः प्रतिग्रहः । बहि- र्जानु न कार्याणि तद्वदाचमनं स्मृतमि-ति ।