गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 80, कुल 332 में से
संदर्भ में पढ़ेंकण्डिका १ ] गोभिलगृह्यसूत्रे- ४२
वैश्वदेवाहुतिस्तु-द्वादशपर्वपूरिका मुख्या- “पाण्याहुतिर्द्वादशपर्वपूरिका रसाहुतिश्चेत्स्रुवमात्रपूरिका । दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तच्च पावके ॥” इतिच्छन्दोगपरिशिष्टात् । तथा चच्छन्दोगाह्निके श्रीदत्तोपाध्यायाः प्राहुः । “क्षारं लवणं परान्नं च विहाय हविष्यमन्नं हविष्यव्यञ्जनान्वितं घृताक्तं दध्यक्तं पयोक्तं वा, असम्भवे जलाक्तमपि, दक्षिणकराङ्गुलिद्वादशपर्वपूरकं स्वङ्गा- रिणि स्वर्चिषि वह्नौ कालीकरालीप्रभृतिसप्तजिह्वा लेलिहाना ध्यायन् प्राङ्मुखो बाहुजान्वासना रूढपादॊऽकृतावसक्थिको जानुद्वयमध्यगतबाहुः साङ्गुष्ठदक्षिणेक- रात्रेण जुहुयादि”ति ॥ अत्र होमात्राक् अग्निः पूज्यः ।- तथाच वायुपुराणम्- “दानं प्रतिग्रहोहोमोभोजनं बलिरेवच । साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।” इति । “पूजयेच्च ततोवह्निं दद्यादाहुतयः क्रमात्” । इति च मार्कण्डेयपुराणात् ॥ ३ ॥ प्राजापत्या पूर्वाऽऽहुतिर्भवति । सौविष्टकृत्त्युत्तरा ॥ ४ ॥ प्राजापत्या-प्रजापतिदेवताका । पत्युत्तरपदत्त्वान्ण्यत् ( पा० ४ । १ । ८५ ) पूर्वा प्रथमा । आहुतिर्भवति । सौविष्टकृती-स्विष्टकृ-दग्नि-देवताका(१) । उत्तरा-द्वितीया ऽऽहुतिर्भवति । अत्र “प्रजापतयेस्वाहा” “अग्नये स्विष्टकृते स्वा- हा” इत्येवं होममन्त्रः पर्यवस्यति । स्वाहायोगे चतुर्थ्या ( पा० २ । ३ । १६ ) विधानात् । अत्राद्या मनसैवेत्युक्तमधस्तात् ( ) । “होमोदैव” इतिवचनादयन्तावद्देवयज्ञो-वैश्वदेव-इतिवोच्यते । एष आहिताग्नेर्विधिरुक्तः । अनाहिताग्नेस्तु कर्त्तव्यमाह-कात्यायनः- “अग्न्यादिगौतमेनोक्तो होमः शाकल एव च । अनाहिताग्नेरेवैष युज्यते बलिभिः सह ॥” इति । यःखलुअग्न्यादिहोमः “अग्ना-वग्निर्धन्वन्तरिर्विश्वेदेवाः(२) प्रजा-
( १ ) सु-शोभनमिष्टमभिलषितं करोतीति स्विष्टकृत् । यद्वा-इष्टं-यजनं शोभनं यथाविहितफलसम्पादकं करोतीति स्विष्टकृत् अग्निरुच्यते । “अग्नये स्विष्टकृते स्वाहे- त्युत्तराद्धं-पूर्वाद्धं जुहुयात्” ( १ । ८ । १४ ) इतिलिङ्गात् । “देवा वै अग्नि स्विष्टकृत- मब्रुवन् हव्यं नोवहेति । सोऽब्रवीत्किम्मे ततः स्यात् इति । यत्कामयसइत्यब्रुवन् । सोऽब्र- वीत्सर्वन्नेष्टिषु केवला सौविष्टकृतीति । तथेतिसोऽवहद्धवींषि” इति च ब्राह्मणं भवति । स देवताऽस्याङ्गत्यर्थे तस्येदमित्यर्थे वाऽण् (पा० ४ । २ । २४+४। ३ । १००) तस्मिन् “न स्वाभ्याम्”( पा० ७ । ३ । ३ )ति वृद्ध्यपवादभूत आद्यच ऐजागमः । ङीप् । ( २ ) अग्नावित्युक्तं गौतमकल्पेन लौकिकाग्नावेवेति छन्दोगाह्निके श्रीदत्तोपा- ध्यायाः । तदेतत् प्युक्षणान्नं विधाय कार्यम् । एतदन्ते पित्र्येन विधिना “ॐपितृभ्यः ७ गो० गृ० सू०