गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
पृष्ठ 81, कुल 332 में से
संदर्भ में पढ़ें५० नित्यहोमविधिः । [ १ प्रपाठके- पतिः स्विष्टकृदिति होमाः" इत्येवं गौतमेनोक्तैः स तदुक्तैरेव बलिभिः “दिग्देवता- भ्यश्च यथास्वं द्वारेषु मरुद्भ्यो गृहदेवताभ्यः, गृहं प्रविश्य ब्रह्मणे मध्ये, अद्भ्य- उदकुम्भे, आकाशायेत्यन्तरिक्षे, नक्तञ्चरेभ्यश्च सायम्" इत्येवंलक्षणैः सहित इत्येकः कल्पः । यश्च शाकलहोमो (१) “देवकृतस्यैनसः” इत्याद्यष्टाहुत्यात्मकः स सामवेदपठितः । सचाग्निपुराणोक्तबलिभिः सहित इत्यन्यः कल्पः । तथा- चाग्निपुराण-योगियाज्ञवल्क्यौ— “अन्नं व्याहृतिभिर्हुत्वा (२) तथा मन्त्रैश्च शाकलैः । भूतेभ्यश्च बलिन्दत्त्वा (३) ततोऽश्नीयादनग्निमान्” ॥ इति । भूतेभ्यश्चेति चकारादादौ देवबलिरन्ते च पित्र्यबलिरित्याचक्षते । (४) तस्मादनग्निनाऽपि गृहोक्ता बलयोदेयाः । काम्याश्च बलयो विष्णुपुराणादौ पठितास्ते गौतम-शाकला-न्यतरकल्पं कृत्वा भूतोपकारार्थं शुचिभूमौ देयाः । ते यथा— “ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः । दद्यादशेषभूतेभ्यः स्वेच्छया तत्समाहितः ॥” स्वधे”ति पितृबलिं हरेत् । अत्रैव वामदेव्यगानङ्केचिदिच्छन्ति । वस्तुतस्तु । काम्यबलौ क्रियमाणे तदन्त एव तत्कार्यम् । नित्यकृत्यार्णवे तु-अग्नौ गौतमकल्पेन वैश्वदेवहोमम- विधाय अथवाऽग्नेः पश्चिमतः एकत्रैव स्थाने अविकृष्टान् परस्परसंलग्नान्सर्वानेतान्बलीन् प्राच्यादिदिक्षु तथैव दद्यात् । अस्मिंश्च पक्षे उदकुम्भवलिर्भूमावेव । आकाशबलौ त्वन्त- रिक्षक्षेपेडपि-अविरोधः । ततो बलीन्नग्नौ जले वा प्रक्षिप्याचम्याग्निं प्रदक्षिणीकृत्य पात्रस्थ- मुदकशेषं भूमौ निःक्षिप्याद्भिः पात्रं प्रपूर्य ताः स्पृष्ट्वा वामदेव्यं गायेत्” इतिगौतमकल्प- इत्युक्तम् । ( १ ) काष्ठशकल-(खण्ड-)साध्योज्योतिष्टोमे होमः शाकल इत्युच्यते । अनयोः (गौ० शा०) कल्पयोः पद्धतिर्नित्यकृत्यार्णवादौ द्रष्टव्या । अत्र “मन्त्रान्ते स्वाहाकारः” ( १ । ९ । २५ ) इति सुत्रणात्स्वाहान्ततैवाऽमीषाम् । यत्तु श्रौतसूत्रम्” अष्टावष्टौ शक- लान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकान्तैरि” ( ला० श्रौ० सू० २।११।१४ ) ति तन्मन्त्रस्वरूपज्ञापनार्थम् । तदेतदग्निस्वामिभाष्ये द्रष्टव्यम् । अयमपि अग्नौ पूर्वव- त्परिसमूहनाद्यग्निपूजान्तं कृत्वा कार्यः । ( २ ) व्यस्तैः समस्तैश्चेति चतुर्द्धा होमः । ( ३ ) स्विष्टकृद्धोमश्च शाकलाष्टहोमान्ते स्वाहान्त एव । “मन्त्रान्ते स्वाहाकार” इति ( १ । ९ । २५ ) सूत्रणात् । पितृभ्यश्च स्वधान्तः । पितृभ्यः स्वधेति । तत्र देवे- भ्योभूतेभ्यश्च नमोऽन्ता एव बलिर्भूमौ स्वाग्रे अग्नेर्जलादेर्वा तत्स्थानीयात्पश्चात् । पितृ- भ्यश्च दक्षिणस्यामपसव्येन चेति व्यक्तमन्यत्र । ततोभूतबलिस्तथाच स्कान्दे शाकलहो- मान्ते + तथास्विष्टकृदग्नये । विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलिम् । सर्वे- भ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे दक्षिणेऽपि पितृभ्यश्च प्राचीनावीतिकोददेत्” इत्यादि । ( ४ ) अत्राष्टबल्यन्ते “ॐ अग्नये स्विष्टकृते स्वाहे”-ति स्विष्टकृद्धोमोऽत्रकल्पे पूर्व- स्माद्विशेषः ।