भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

कण्डिका १ ] गोभिलगृह्यसूत्रे- ४२

वैश्वदेवाहुतिस्तु-द्वादशपर्वपूरिका मुख्या- “पाण्याहुतिर्द्वादशपर्वपूरिका रसाहुतिश्चेत्स्रुवमात्रपूरिका । दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्चिषि तच्च पावके ॥” इतिच्छन्दोगपरिशिष्टात् । तथा चच्छन्दोगाह्निके श्रीदत्तोपाध्यायाः प्राहुः । “क्षारं लवणं परान्नं च विहाय हविष्यमन्नं हविष्यव्यञ्जनान्वितं घृताक्तं दध्यक्तं पयोक्तं वा, असम्भवे जलाक्तमपि, दक्षिणकराङ्गुलिद्वादशपर्वपूरकं स्वङ्गा- रिणि स्वर्चिषि वह्नौ कालीकरालीप्रभृतिसप्तजिह्वा लेलिहाना ध्यायन् प्राङ्मुखो बाहुजान्वासना रूढपादॊऽकृतावसक्थिको जानुद्वयमध्यगतबाहुः साङ्गुष्ठदक्षिणेक- रात्रेण जुहुयादि”ति ॥ अत्र होमात्राक् अग्निः पूज्यः ।- तथाच वायुपुराणम्- “दानं प्रतिग्रहोहोमोभोजनं बलिरेवच । साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ।” इति । “पूजयेच्च ततोवह्निं दद्यादाहुतयः क्रमात्” । इति च मार्कण्डेयपुराणात् ॥ ३ ॥ प्राजापत्या पूर्वाऽऽहुतिर्भवति । सौविष्टकृत्त्युत्तरा ॥ ४ ॥ प्राजापत्या-प्रजापतिदेवताका । पत्युत्तरपदत्त्वान्ण्यत् ( पा० ४ । १ । ८५ ) पूर्वा प्रथमा । आहुतिर्भवति । सौविष्टकृती-स्विष्टकृ-दग्नि-देवताका(१) । उत्तरा-द्वितीया ऽऽहुतिर्भवति । अत्र “प्रजापतयेस्वाहा” “अग्नये स्विष्टकृते स्वा- हा” इत्येवं होममन्त्रः पर्यवस्यति । स्वाहायोगे चतुर्थ्या ( पा० २ । ३ । १६ ) विधानात् । अत्राद्या मनसैवेत्युक्तमधस्तात् ( ) । “होमोदैव” इतिवचनादयन्तावद्देवयज्ञो-वैश्वदेव-इतिवोच्यते । एष आहिताग्नेर्विधिरुक्तः । अनाहिताग्नेस्तु कर्त्तव्यमाह-कात्यायनः- “अग्न्यादिगौतमेनोक्तो होमः शाकल एव च । अनाहिताग्नेरेवैष युज्यते बलिभिः सह ॥” इति । यःखलुअग्न्यादिहोमः “अग्ना-वग्निर्धन्वन्तरिर्विश्वेदेवाः(२) प्रजा-


( १ ) सु-शोभनमिष्टमभिलषितं करोतीति स्विष्टकृत् । यद्वा-इष्टं-यजनं शोभनं यथाविहितफलसम्पादकं करोतीति स्विष्टकृत् अग्निरुच्यते । “अग्नये स्विष्टकृते स्वाहे- त्युत्तराद्धं-पूर्वाद्धं जुहुयात्” ( १ । ८ । १४ ) इतिलिङ्गात् । “देवा वै अग्नि स्विष्टकृत- मब्रुवन् हव्यं नोवहेति । सोऽब्रवीत्किम्मे ततः स्यात् इति । यत्कामयसइत्यब्रुवन् । सोऽब्र- वीत्सर्वन्नेष्टिषु केवला सौविष्टकृतीति । तथेतिसोऽवहद्धवींषि” इति च ब्राह्मणं भवति । स देवताऽस्याङ्गत्यर्थे तस्येदमित्यर्थे वाऽण् (पा० ४ । २ । २४+४। ३ । १००) तस्मिन् “न स्वाभ्याम्”( पा० ७ । ३ । ३ )ति वृद्ध्यपवादभूत आद्यच ऐजागमः । ङीप् । ( २ ) अग्नावित्युक्तं गौतमकल्पेन लौकिकाग्नावेवेति छन्दोगाह्निके श्रीदत्तोपा- ध्यायाः । तदेतत् प्युक्षणान्नं विधाय कार्यम् । एतदन्ते पित्र्येन विधिना “ॐपितृभ्यः ७ गो० गृ० सू०

५० नित्यहोमविधिः । [ १ प्रपाठके- पतिः स्विष्टकृदिति होमाः" इत्येवं गौतमेनोक्तैः स तदुक्तैरेव बलिभिः “दिग्देवता- भ्यश्च यथास्वं द्वारेषु मरुद्भ्यो गृहदेवताभ्यः, गृहं प्रविश्य ब्रह्मणे मध्ये, अद्भ्य- उदकुम्भे, आकाशायेत्यन्तरिक्षे, नक्तञ्चरेभ्यश्च सायम्" इत्येवंलक्षणैः सहित इत्येकः कल्पः । यश्च शाकलहोमो (१) “देवकृतस्यैनसः” इत्याद्यष्टाहुत्यात्मकः स सामवेदपठितः । सचाग्निपुराणोक्तबलिभिः सहित इत्यन्यः कल्पः । तथा- चाग्निपुराण-योगियाज्ञवल्क्यौ— “अन्नं व्याहृतिभिर्हुत्वा (२) तथा मन्त्रैश्च शाकलैः । भूतेभ्यश्च बलिन्दत्त्वा (३) ततोऽश्नीयादनग्निमान्” ॥ इति । भूतेभ्यश्चेति चकारादादौ देवबलिरन्ते च पित्र्यबलिरित्याचक्षते । (४) तस्मादनग्निनाऽपि गृहोक्ता बलयोदेयाः । काम्याश्च बलयो विष्णुपुराणादौ पठितास्ते गौतम-शाकला-न्यतरकल्पं कृत्वा भूतोपकारार्थं शुचिभूमौ देयाः । ते यथा— “ततोऽन्यदन्नमादाय भूमिभागे शुचौ पुनः । दद्यादशेषभूतेभ्यः स्वेच्छया तत्समाहितः ॥” स्वधे”ति पितृबलिं हरेत् । अत्रैव वामदेव्यगानङ्केचिदिच्छन्ति । वस्तुतस्तु । काम्यबलौ क्रियमाणे तदन्त एव तत्कार्यम् । नित्यकृत्यार्णवे तु-अग्नौ गौतमकल्पेन वैश्वदेवहोमम- विधाय अथवाऽग्नेः पश्चिमतः एकत्रैव स्थाने अविकृष्टान् परस्परसंलग्नान्सर्वानेतान्बलीन् प्राच्यादिदिक्षु तथैव दद्यात् । अस्मिंश्च पक्षे उदकुम्भवलिर्भूमावेव । आकाशबलौ त्वन्त- रिक्षक्षेपेडपि-अविरोधः । ततो बलीन्नग्नौ जले वा प्रक्षिप्याचम्याग्निं प्रदक्षिणीकृत्य पात्रस्थ- मुदकशेषं भूमौ निःक्षिप्याद्भिः पात्रं प्रपूर्य ताः स्पृष्ट्वा वामदेव्यं गायेत्” इतिगौतमकल्प- इत्युक्तम् । ( १ ) काष्ठशकल-(खण्ड-)साध्योज्योतिष्टोमे होमः शाकल इत्युच्यते । अनयोः (गौ० शा०) कल्पयोः पद्धतिर्नित्यकृत्यार्णवादौ द्रष्टव्या । अत्र “मन्त्रान्ते स्वाहाकारः” ( १ । ९ । २५ ) इति सुत्रणात्स्वाहान्ततैवाऽमीषाम् । यत्तु श्रौतसूत्रम्” अष्टावष्टौ शक- लान्याहवनीये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकान्तैरि” ( ला० श्रौ० सू० २।११।१४ ) ति तन्मन्त्रस्वरूपज्ञापनार्थम् । तदेतदग्निस्वामिभाष्ये द्रष्टव्यम् । अयमपि अग्नौ पूर्वव- त्परिसमूहनाद्यग्निपूजान्तं कृत्वा कार्यः । ( २ ) व्यस्तैः समस्तैश्चेति चतुर्द्धा होमः । ( ३ ) स्विष्टकृद्धोमश्च शाकलाष्टहोमान्ते स्वाहान्त एव । “मन्त्रान्ते स्वाहाकार” इति ( १ । ९ । २५ ) सूत्रणात् । पितृभ्यश्च स्वधान्तः । पितृभ्यः स्वधेति । तत्र देवे- भ्योभूतेभ्यश्च नमोऽन्ता एव बलिर्भूमौ स्वाग्रे अग्नेर्जलादेर्वा तत्स्थानीयात्पश्चात् । पितृ- भ्यश्च दक्षिणस्यामपसव्येन चेति व्यक्तमन्यत्र । ततोभूतबलिस्तथाच स्कान्दे शाकलहो- मान्ते + तथास्विष्टकृदग्नये । विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलिम् । सर्वे- भ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे दक्षिणेऽपि पितृभ्यश्च प्राचीनावीतिकोददेत्” इत्यादि । ( ४ ) अत्राष्टबल्यन्ते “ॐ अग्नये स्विष्टकृते स्वाहे”-ति स्विष्टकृद्धोमोऽत्रकल्पे पूर्व- स्माद्विशेषः ।

१ कण्डिका ] गोभिलगृह्यसूत्रे- ५१ ( तत्रमन्त्राः ) “देवा मनुष्याः पशवोवयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् ॥ पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्म्मनिबन्धबद्धाः । प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्योविसृष्टं सुखिनोभवन्तु ॥ येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नम्स्ति । तत्तृप्तयेऽन्नम्भुवि दत्तमैतत्त्तेयान्तु तृप्तिम्मुदिता भवन्तु ॥ भूतानि सर्वाणि तथान्नमेतदहञ्च विष्णुर्न यतोऽन्यदस्ति । तस्मादहं भूतनिकायभूतमन्रं प्रयच्छामि भवाय तेषाम् ॥ चतुर्दशोभूतगणोय एष तत्र स्थिता येऽखिलभूतसङ्घाः । तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदन्ते मुदिता भवन्तु ॥ इत्युच्चार्य नरोदद्यादन्नं श्रद्धासमन्वितः । भुविभूतोपकाराय गृही सर्वाश्रयोयतः ॥ श्वचाण्डालविहङ्गानां श्वपचां पापरोगिणाम् । वायसानाङ्कृमीणाञ्च शनकैर्निःक्षिपेद्भुवि ।” इति । अत्रान्यदन्नमादाये- त्युक्त्या काम्यबलिदानमन्येनाऽपि भवितुमर्हतीतिबोध्यते । श्वादिबलिदानञ्च यत्र तेषामुपयोगस्तत्र विधेयमिति निबन्धाराः । क्रमस्त्वत्र नाद्रियते किन्तुअन्य- त्रोक्तक्रमेण वायसबलिः श्वबलिस्ततः पतित-चाण्डाल-पापरोगि-कृमिबलयः । इदञ्च काम्यवलिदानं सर्वशाखिसाधारणं सङ्कोचे मानाभावात् । एवमेवा- चारादर्शादयः । तदत्र “देवा मनुष्या” इत्यादिकां पञ्चश्लोकीमुच्चार्य्य एकएव- बलिर्दातव्यः । इतिन। प्रकृतवाचिना पञ्चश्लोक्याः परामर्शात् । अन्नमिति चैकवचननिर्देशादिति वाचस्पतिमिथ्रादयः । एवमन्येऽपि कल्पस्तन्त्रान्तरे द्रष्टव्याः । स खल्वयं वैश्वदेवहोमो(१) लौकिकाग्नौ जलादावपि कर्त्तव्यः । शाकलकल्पेन । “लौकिके वैदिके वाऽपि हुतोच्छि(त्स्त्रु)ष्टे,(२) जलेक्षितौ ॥ (१) अत्र द्वैतपरिशिष्टे-केशवमिश्राः। यदा च नित्यश्राद्धकरणं तदा ततः प्रागेव वैश्व- देवबलिकर्म्मणी कर्त्तव्ये । यदातुपार्व्वणमेकोद्दिष्टं वा तदा पार्व्वणानन्तरं वैश्वदेवबलिकर्म्म णी । एकोद्दिष्टानन्तरन्तु वश्वदेवबलिनित्यश्राद्धन्तदानीमिति विशेष” इत्याहुः । एते पञ्च महायज्ञाः पञ्चशूनापनुत्तये विहिता इति शूद्रस्यापि कर्त्तव्या भवन्ति । “दानन्दद्याच्च- शूद्रोऽपि पाकयज्ञैर्यजेत चे”ति विष्णुपुराणात् । शूद्र इत्यनुवृत्तौ “भार्यारतः शुचिर्भृत्य- भर्त्ता श्राद्धक्रियान्वितः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदि”ति याज्ञवल्क्यवच- नाच्च । भार्यारतः स्वभार्यामात्ररतः । एवञ्च होमोऽपि “ब्रह्मणे नमः” इत्यादिक्रमेण तः कार्य्येन तु स्वाहान्तदेवतानाम्नेति बोध्यम् । ( २ ) एव “हुतोत्सृष्ट” इति पाठोरत्नाकरीयः ।

५२ नित्यहोमविधिः । [ प्रपाठके १ वैश्वदेवन्तु कुर्वीत पञ्चसूनापनुत्तये । वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे ते वृषला ज्ञेयाः प्राप्नवेदा अपि द्विजाः ।" इति शातातपीयान् । लौकिके पाकसाधने । वैदिके आवसथ्याग्नौ । एतच्च साग्निपरं, शेषं निरग्नेः । हुतोच्छिष्टे-अन्येन हुत्वा त्यक्ते । इदं त्वन- श्नताऽपि गृहस्थेनातिथ्याद्यनुरोधेन द्विष्पाकतापत्रे द्विरवश्यङ्कार्यम । “सायं प्रातर्वैश्वदेवः कर्त्तव्योबलिरेव च । अनश्नताऽपि सततमन्यथा किल्विषी भवेत् ॥” इतिच्छन्दोगपरिशिष्टादित्याचारचिन्तामणिः । अत्र जलादावपि होमे पर्यु- क्षणमाचरन्ति प्रामाणिकाः । युक्तञ्चैतत् । पर्युक्षणं हि होमाङ्गं न वह्नयङ्गम् । तथाच वह्निबाधे तदाधानाङ्गं परिसमूहनादिकं बाध्यतां, होमाङ्गं पर्युक्षणं कथं बाध्यतेत्याचारविवेकः । वाचस्पतिमिश्रास्तु जलक्षित्योः पर्युक्षणादिकमपि नास्त्येव । अग्नावेव तदाम्नानादित्याहुः ॥ ४ ॥ अथबलीन्हरेद्वाह्यतोऽन्तर्वा सुभूमिङ्कृत्वा ॥ ५ ॥ अथेति पूर्वप्रकृतार्थम् । अथ पूर्वप्रकृतेनैवान्नेन होमावशिष्टेन । “देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलि हरेद्”ति याज्ञवल्क्योक्तेः । अपचारे च शेषस्य, अन्य दप्युपादाय बलीहरेत् । पाकासम्भवे एकादश्यादौ तण्डुलैर्वा पयोदधिघृतफलोद- कादिभिर्वा कार्य इति धर्मसिन्धुः । बाह्यतो-बलिविधानाद्वहिर्वा प्रकृतत्वादग्न्य गारस्य । तथाचाग्न्यगारान्निष्क्रम्य तस्मिंस्तस्मिन्प्रदेशे तं तं बलिं हरेत् । यो- योयस्मिन्यस्मिन्प्रदेशे समाम्नातः । अन्त-र्मध्येवाऽग्न्यगारस्यैव । एकस्मिन्ने- व प्रदेशे यथासम्भवं बलीहरेन् । सुभूमिं कृत्वा । यथासम्भवं सम्मार्जनोपलेपना- दिभिः । तथाचापस्तम्बः-“बलीनान्तस्यतस्य देशस्य संस्कारोहस्तेनोपमृज्यावो- क्ष्य न्युप्य पश्चात् परिषेचनम् ।” इति। तस्यतस्येति वीप्सातः प्रत्येकमार्जनादि । अवोक्ष्य-सिक्त्वा । न्युप्य बलिन्दत्त्वा । परिषेचनं-बलेरुपरिसेकः(१) ॥ ५ ॥ सकृदपोनिनय चतुर्द्धा बलिं निदध्यात्सकृदन्ततः परिषिञ्चेत् ॥६॥ सकृदे-कवारमप(२) उदकं निनीय-भूमौ निषिच्य चतुर्द्धा चतुर्षु स्थानेषु बलिं-(३)जातावेकवचनम् बलिचतुष्टयम् । निदध्यात्-स्थापयेत् । अत्र समा- चारात्तदन्नं बलिचतुष्टयमात्रं सकृद्गृहीत्वा चतुर्षु स्थानेषु निदध्यात् । बलिमि- त्येकवचनावृत्तैर्वेति वचनाच्च । तथाच बलिचतुष्टयार्थं सकृदेव सेकः । अन्ततः- ( १ ) परिषेचनं बलीनामुपरि उदकेन वेष्टनमिति कल्पतरुः । ( २ ) अत्र “एकस्य सकृच्च” ( पा० ५ । ४ । १९ ) इति क्रियाऽभ्यावृत्तिगणने सुचः संयोगान्तलोपः । एकशब्दस्य सकृदादेशश्चेति बोध्यम् । ( ३ ) प्रकारार्थेऽत्र धाप्रत्ययः तद्भेदश्च स्थानभेदादित्येवं व्याख्यातम् ।

कण्डिका ] गोभिलगृह्यसूत्रे- ५३

अन्ते । सार्वविभक्तिकस्तसिः । ( पा० ५ । ४ । ४४ ) उपरिष्टादपि सकृदेक- वारमेव परिषिञ्चेत्-बलीन् । बलिप्रमाणमाह कर्म्मप्रदीपः- ' न चावराद्धर्या बलयो भवन्ति महामार्जारश्रवणप्रमाणात् । एकत्र चेदविकृष्टा भवन्ति इतरेतरमसंयुक्ताश्च ॥' इति । अवराद्धर्याः । अवरस्मिन्नर्धभवा इत्यर्थे यत् ( पा० ४ । ३ । ५ ) ऊनपरिमाणा इत्यर्थः । असम्भवे त्वशुष्कामलकमाना अपि कार्याः । “आर्द्रामलकमानेन कुर्याद्धोमहविर्बलीन् । प्राणाहुतिबलिञ्चैव मृदङ्गात्र विशोधिनीम् ॥” इति छन्दोगपरिशिष्टटीकालिखितवचनादित्याचारचिन्तामणिः । एकत्र चेदित्यादिना नानास्थाने बलिदानासम्भवे एकस्मिन्नेव यदा बलयोदीयन्ते तदा अविकृष्टा अव्यवहिता इतरेतरमसंयुक्ताः परस्परम

५४नित्यहोमविधिः ।[ प्रपाठके १

र्म्मप्रदीपे कात्यायनः— “अमुष्मै नमः” इत्येवं बलिदानं विधीयते । बलिदानप्रसिद्धयर्थंनमस्कारः कृतोयतः ॥” इति । अत्र इतिः पदद्वयकीर्त्तनार्थो न तु परिच्छेदार्थः । एवमिति क्रमार्थम्८ अथापरान्वलीन्हरेदुदधानस्य, मध्यमस्य द्वारस्याब्दैवतः प्रथमोब- लिर्भवति, ओषधिवनस्पतिभ्यो द्वितीयः । आकाशाय तृतीयः॥९। अथेति पूर्वविद्ध्यनुकर्षणार्थम् । पूर्वेषामिवामीषामपि बलीनामुभयतः परिषेक इत्यर्थः । कर्म्मप्रदीपोऽप्याह “सर्वेषामप्युभयतः परिषेक” इति ॥ अ- परानन्यान् । एषां स्थानान्याह-उदधानस्य । उदकं धीयत अस्मिन्नित्यधिकरणे ल्युट् (पा० ३।३।११७ ) “उदकस्योदः संज्ञायाम्” ( पा० ६।३।५७ ) इति उदकस्योदादेशः । मणिकस्य कलशस्यवा, सामीप्येऽत्र षष्ठी । एवमग्रेऽपि । द्वारस्येत्यग्निशरणगृहस्येत्यर्थात् । अब्दैवतः आपोदेवता अस्येत्यर्थेऽण् ( पा० ४।२।२४ ) शिवभागवतवत्तद्धितार्थे समासः (पा० २।१।५१) प्रथमः प्रकृतानां बलीनामाद्यो बलिर्भवति । द्वितीयस्तु गृहमध्यमद्वारसमीपनिहित ओषधिवन- पतिभ्यः भवति । तृतीयश्चाकाशाय । स चान्तरीक्षे (तदुद्दिश्य) निधातव्यः । “आकाशायेत्यन्तरिक्षे” इति गौतमीयस्मरणात् । तथाच “ओम्द्भ्यो नमः ।” “ओमोषधिवनस्पतिभ्योनमः” । “ओमाकाशायनमः” इत्येवं मन्त्रप्रयोगः ॥ एवमग्रेऽपि ॥ ९ ॥ अथापरं बलिं हरेत् शयनं वाऽधिवर्च्चोवा(१), स यमाय बलिर्म्मन्मवे वा ॥ १० ॥ अथापरं वलिं हरेदित्युक्तार्थम् । बलिमित्येकवचनात्स्थानद्वयनिर्देशाच्च बलिद्वयमात्रं सकृद्गृहीत्वा द्विधा निदध्यादिति भट्टभाष्यम् । शयनं शय्येत्यन- र्थान्तरम् । अधिवर्च्चोमूत्रोच्चारप्रदेशः । वा शब्दाश्च(२) कारार्थाः । शयनञ्चा-


( १ ) अधिवर्चं वेति भट्टभाष्ये पाठः । स च “येसान्तास्तेऽदन्ता” इति न्यायमू- लकः । सान्तपाठस्तु सर्वत्र दृश्यते । सोऽपि विद्वाऽर्थे । तथाचामरः “तेजः पुरीषयोर्वर्चः” इति । “वर्चोनपुंसकं रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस्य तनये” इतिमेदिनीच । पा- णिनिरपि “ब्रह्महस्तिभ्यां वर्चसः” (पा०५।४।७८) इति वर्चस्तेजसि पुरीषे च प्रयोजयति । ब्रह्मवर्चसं हस्तिवर्चसमिति । मूत्रार्थे तु न क्वापि प्रयुक्तोऽन्यत्र । तथापिअधिश- ब्देन बहुव्रीहिणासो ऽर्थोऽङ्गीतोभट्टभाष्यादौ । अत्र द्वितीया प्रतिशब्दाध्याहारार्थेत्यपि- भट्टभाष्यम् । ( २ ) अन्ये तु वाशब्दान्विकल्पार्थान्नाडुः। एक एवार्यं बलिः शयनं वा प्रति देयोऽधि वर्च वा । स च कामदेवत्योभवति मन्युदेवत्यो वा । अपरे तु विनिवेशविकल्पमाहुः। शय नं प्रति कामाय रात्रौ अधिवर्चं प्रत्यहनि । तदेतदुभयमपि युक्तम् । कुतः ? “अथ तद्धि

धिवर्चश्च प्रति बलिं हरेत् । द्वतश्च स बलिः कामाय भवति मन्यवे च । इति यथासङ्ख्यम् । तदयमर्थः । शयनं(१)प्रति यो बलिर्निधीयते स मन्युदेवताभ्यां भवतीति ॥ अत्र कामो मन्मथः । मन्युः क्रोधः ॥ १० ॥ अथ संस्तूपं स रक्षोजनेभ्यः ॥ ११ ॥ अथेति विशिष्टमानन्तर्यं द्योतयति । मन्युबलिदानानन्तरमिन्द्राय वासु- कये ब्रह्मणे इति बलित्रयं दत्त्वाऽथानन्तरमित्यर्थः । तथा चायमाचार्यो वास्तु- बलौ दशदिक्षु इन्द्रादिवलिदशकमभिधायासूत्रयन् "प्राच्यूर्ध्वावाचीभ्योऽहर- हर्न्नित्यप्रयोग" इति । प्राच्यूर्ध्वाधोदिक्षु खल्विन्द्र-ब्रह्म-वासुकिदेवतया बलयो वास्तुकर्म्मणि समाम्नाताः । तेषामहरहर्नित्यं प्रयोगोभवतीति सूत्रयन्नाचार्यः स्पष्टमिदमाह यदहरहरिन्द्र ब्रह्मवासुकि बलयोभवन्तीति । परिशिष्टप्रकाशेऽप्यु- क्तम् "गृह्यान्तरानुसारेण मन्युबलेरनन्तरमिन्द्र ब्रह्म वासुकिदेवतया बलयोदेया स्ततोरक्षः पितृबली" इति । "चतुर्दश नित्याः" इति च कर्म्मप्रदीपः । संस्तूपः सम्मार्जनरेणुपुञ्जादिप्रक्षेपस्थानम् । तंम्प्रति रक्षोजनेभ्यः बलिं हरेदित्यर्थः ॥११॥ अथैतद्वलिशेषमद्भिरभ्यासिच्यापसलवि दक्षिणा निन- येत्तत्पितृभ्योभवति ॥ १२ ॥ अथ शब्दः प्राचीनावीतित्व-सव्यजानुपात-दक्षिणामुखत्वानि स्मारयति । एतद्वलिशेषम् एतद्वलिदानावशिष्टमन्नम् । अद्भिरभ्यासिच्याऽऽप्लावय्य (२) अ- पसलवि अपसव्येन पितृतीर्थेन चेत्यर्थः । तथाचगृह्यान्तरम् "प्रदेशिन्यङ्गुष्ठयोर- न्तराऽपसलवि अपसव्यं वा, तेन पितृभ्यो ददाती"-ति । दक्षिणा दाक्षिणात्यां मद्दूरे दिशि । अत्र "दक्षिणादाच्" (पा०५।३।३६ ) इत्युक्तार्थे आचप्रत्ययेऽ- व्ययत्वम् । (पा० १।१।३८) । निनयेत् हरेत् । तदिदं पितृभ्यो भवति । तथाच पित्रर्थत्वान्नात्र नमस्कारप्रयोगः किन्तु "पितृभ्यः स्वधे"ति स्वधाकारेण बलि- र्दातव्यः । तदाह कात्यायनः— स्वाहाकारनमस्कारवषट्कारा दिवौकसाम् । स्वधाकारः पितॄणाञ्च हन्तकारो नृणाम्मतः ॥ स्वधाकारेण निनयेत्पित्र्यं बलिमत्तः सदा । तमप्येके नमस्कारैः कुर्वते नेति गौतमः ॥" न्यास्" इत्यारभ्य बलिद्वयस्यापि सायं प्रातर्विधानात् "सर्वेषान्दक्षिणतः पितृभ्य इतिचतु- र्दश नित्या" इति सङ्ख्यावचनस्यार्थपरत्वात् । (१) अत्र योग्यतावशात्तत्सन्निहितं स्थानमभिधित्सितमाचार्यस्य । न हि सत्यं बलि निधीयते । नाऽपि वर्चसि । तथाचोद्दिश्येत्यध्याहारेणात्र द्वितीयाबोद्ध्या । (२) तदिदमाप्लावनं रक्षोबलयवशिष्टत्वादन्नस्य संस्कारार्थम्भवति । तच्च सकृदेव "त्रिर्देवेभ्यो द्विर्मनुष्येभ्यः सकृत्पितृभ्यः" ( १।७।६ ) इति प्रक्षालनप्रकरणेऽभिधानात्।

इति। एके-वाजसनेयिनः। तथाच तेषां स्वधानम(१) इत्येवं पित्र्यबलि- दानम्। नेति गौतम इतिच्छन्दोगानभिप्रेत्य। अथास्य निधानक्रम एकत्र- चेदित्याद्युक्तवचनेनैकत्र चेत्सर्वे बलयो निधीयन्ते तर्हि यथा निधातव्यमित्यु- पक्रम्य (१३-१४) कर्म्मप्रदीपे (१४-१) कात्यायनः॥ “अथ तद्विन्यासो वृद्धिपिण्डानिवोत्तरोत्तरांश्चतुरोबलीन्रिदध्यात्-”पृथिव्यै,” “वायवे” “विश्वेभ्योदेवेभ्यः” “प्रजापतये” इति। सव्यत एतेषामे- कैकस्यैकैकम् “अद्भ्यः” “ओषधिवनस्पतिभ्यः” “आकाशाय” “कामाय” इ- ति। एतेषामपि “मन्यवे” “इन्द्राय” “ब्रह्मणे” “वासुकये” इति। एतेषामपि “रक्षोजनेभ्यः” इति। “सर्वेषान्दक्षिणतः पितृभ्यः” इति। चतुर्दश नित्या। आसस्यप्रभृतयः काम्याः। सर्वेषामुभयतः परिषेकः। पिण्डवच्च पश्चिमा प्रतिपत्तिर”ति पिण्डवच्चेति। यथा पिण्डप्रतिपत्तिर्विप्रगवादिषु तथा बली- नामपि चरमा प्रतिपत्तिरित्यर्थः॥ आधानदिने च वैश्वदेवबलिकर्म्मणी सायमाहुत्यनन्तरं रात्रावेव कर्त्तव्ये। तदाह-कर्म्मप्रदीपः “ऊर्ध्वम्पाक्याहुतेः कुर्यात्सायं होमादनन्तरम्। वैश्वदेवन्तु पाकान्ते बलिकर्म्मसमन्वितम्॥ ब्राह्मणान्भोजयेत्तत्रादभिरूपान्स्वशक्तितः। यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत्॥” इति। सोऽयं भूतयज्ञः “बलिभौतः” इति वचनात्। एतदनन्तरं वामदे- व्यगानं कर्त्तव्यं “बल्यन्ते वैश्वदेविकम्” इति वचनात्। स खल्वयं ब्रह्मय- ज्ञस्य पूर्वोक्तस्तृतीयः कालः। (२)अथेदानीम्मनुष्ययज्ञः। तदर्थमतिथिम्भो- जयेदिति मुख्यः पक्षस्तमाह कात्यायनः-“नृयज्ञोऽतिथिभोजनम्(२)” इति। (१) तथाच वाजसनेयकल्पे शूद्राधिकारस्तत्र वैदिकमन्त्रसम्बन्धाभावात्। “शूद्रा वाजसनेयिनः” इत्यतएव प्रसिद्धेश्चेति आचारविवेके शूलपाणिमहामहोपाध्यायाः प्राहुः। (२) पितृयज्ञस्तु तर्पणरूपः कात्यायनोक्तः स्नानानन्तरं विहितः। यतः प्राग्गायत्री जपरूपो ब्रह्मयज्ञः। स एष स्नानसूत्रमुपक्रम्याग्रे व्यक्तः। यश्च श्राद्धरूपोबलि रूपोवा “श्राद्धं वा पितृयज्ञः स्यात्पितृभ्योबलिरेवापि वे”ति कात्यायनेनोक्तः। स साग्नेर्वैश्वदेवान्तएव निय- मतः। तथाच लौगाक्षिः “पक्षान्तद्धोमं निर्वर्त्त्य वैश्वदेवं च साग्निकः। पिण्डयज्ञन्ततः कुर्या- त्ततोऽन्वाहार्यकं बुधः” इति। पक्षान्तमन्वाधानम्। अन्वाहार्यकन्दर्शश्राद्धम्। देवलोऽ- प्याह “अकृते वैश्वदेवे तु स्थालीपाकः प्रकीर्त्तितः। अन्यत्र पिण्डयज्ञात्तु सोऽपराह्ने विधी यते” इति। स्थालीपाकशब्देनात्र स्थालीपाकसाध्यानि कर्म्माण्युच्यन्ते। एतानि पक्षा- न्तादीनि कर्माणि वैश्वदेवात्पूर्वमेव कर्त्तव्यानि। पिण्डपितृयज्ञस्यापि स्थालीपाकसाध्य- त्वेन तस्यापि पूर्व्वत्र कर्त्तव्यतायाम्प्राप्तायामपवादः। अन्यत्रेति। पिण्डपितृयज्ञादन्यत्रेत्य- र्थः। दर्शश्राद्धस्य पिण्डपितृयज्ञानन्तर्य्यमाह मनुः “पिण्डयज्ञन्तु निर्वर्त्त्य विप्रांश्चन्द्रक्षयेऽ

The provided image is completely blank and contains no text to transcribe. Please upload a clear image of the page you would like transcribed.

“कृत्वैतद्वलिकर्म्मैवमतिथिम्पूर्वमाशयेत् । भिक्षाञ्च भिक्षवे दद्याद्यथावद्ब्रह्मचारिणे ॥” इति स्मरति । अतिथावनागच्छति ब्राह्मणायान्यस्मै अपि भोजनन्दद्यात् । भोजनासम्भवे हन्तकार(१)-पुष्कल-भिक्षो-दपात्राणाँयथासम्भवमेकतमन्द- द्यात् । यथाह— “भिक्षां वा पुष्कलं वापि हन्तकारमथापि वा । असम्भवे सदा दद्यादुदपात्रमथापि वा ॥” इति ॥ तन्मानमाह— ग्रासमात्री भवेद्भिक्षा पुष्कलन्तच्चतुर्गुणम् । पुष्कलानि च चत्वारि हन्तकारं विदुर्बुधाः ॥” इति ॥ तत्प्रकारमाह— “इदमन्नं मनुष्येभ्योहन्तेत्युक्त्वा समुत्सृजेत् ॥” इति ॥ तथाचाभ्यागताय, यतिने, ब्रह्मचारिणे, वा, अन्यस्मै ब्राह्मणाय वा प्राङ्मुखोपविष्टाय भोजनपर्याप्तमन्नन्तदभावे षोडशग्रासरूपं हन्तकारं वा, चतुर्ग्रासरूपमन्नं वा ग्रासमात्ररूपां भिक्षां वा, फलमूलादिकं वा यथाविभव मुदङ्मुखो निवीती कुशत्रयतिलजलैः इदमन्नं ॐ मनुष्याय हन्त इतिप्राजाप- त्यतीर्थेन दद्यात् । यत्याद्यभावेऽपि इदमन्नम् “ॐ सनकादिमनुष्येभ्यो हन्त” इत्युक्तविधिना दद्यात् । अथ गोग्रासः । तत्र सान्नग्रासमुष्टिं परस्य गवे दद्यात् । तामुद्दिश्य वोत्सृजेत् । तत्र मन्त्रः “ॐ सौरभेय्यः सर्वहिताः पवित्राःपुण्यराशयः । प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः” इति ॥ ( इतिपञ्चमहायज्ञविधिः ) अथेदानीमुक्तस्यैव विशेषोऽभिधीयते— आसीन एवाग्नौ जुहुयात् ॥ १३ ॥ आसीन उपविष्ट एव नोर्ध्वो न वा प्रह्वः ॥ १३ ॥


( २ ) नित्यकृत्यार्णवे तु—मनुष्ययज्ञे चात्राऽतिथित्वमविवक्षितमतिथेरनित्यत्वान्म- नुष्ययज्ञस्य नित्यत्वात्तेनातिथ्यभावेऽन्येनापि ब्राह्मणेन मनुष्ययज्ञसिद्धिः । अत एव अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादामूलफलशाकेभ्योऽथैनं मनुष्ययज्ञं समाप्नोति ।” इति ब्रा- ह्मणमात्रं विवक्षति । एवञ्च सनकाद्यन्नदानरूप एव मनुष्ययज्ञ इति भ्रमो हेयः । सति- सम्भवेऽतिथये तदभावे ब्राह्मणाय कस्मै चिद्देयं, सनकादिभ्योऽपीति । अयमपि वक्ष्यति “अग्रं ब्राह्मणाय दत्त्वा भुञ्जीते”( १।४।२६ ) ति ॥ अत्रातिथिपूजाप्रयोगोनित्यकृत्यार्णवे प्रयोगपद्धतावन्यत्र च द्रष्टव्यः ॥ ( १ ) एवञ्चायम्मनुष्ययज्ञोऽपि त्रिविधः । तत्र मुख्योऽतिथिभोजनम् । तदसम्पत्तौ हन्तकारादिदानम् । तदसम्पत्तावुदपात्रदानमपीति ॥

, written as द with a loop of ब inside/below. In line 7, द्ब has the loop. So it is स्वयन्त्वेवैतान्यावद्वसेद्बलीन्हरेत् ॥ १५ ॥.

Let's check line 8: यावत् गृहे वसेत् तावत् एतान्सर्वान्बलीन् पुनः पित्र्यबलेरवरानिवेत्यर्थः ॥ Wait, "पित्र्यबलेरवरानिवेत्यर्थः" or "पित्र्यबलेरपरानिवेत्यर्थः"? Wait! Look at the letter in रवरानि or रपरानि: Is it or ? Wait, look at अपरान्: "पित्र्यबलेः अपरान् इव इति अर्थः" -> "पित्र्यबलेरपरानिवेत्यर्थः"! Wait, "अपरान्" means "the others"! In line 2: "यथोपपादमितरान्", commentary line 3: "इतरान् पित्र्यबलेरन्यान् बलीन्...". Then in line 8: "एतान् सर्वान् बलीन् पुनः पित्र्यबलेरपरानिवेत्यर्थः" -> "पित्र्यबलेः अपरान् इव"! Wait, look at the letter: is it ? Look at in उपविष्टः (line 3): the left stroke goes

६० बलिहरणविधिः । [ १ प्रपाठके इति गृहमेधिव्रतम् ॥ १८ ॥ इति एवमहरहः पञ्चानां यज्ञानामनुष्ठानं गृहमेधिव्रतम् गृहैर्दारैर्मेधन्ते सङ्गच्छन्त इति गृहमेधिनः । "मेधृसङ्गमे" ताच्छील्ये णिनिः (पा० ३।२।७८) सपत्नीकास्तेषां व्रतम् शास्त्रविहितोनियमइत्यर्थः । तदेवम् । पञ्चयज्ञावशिष्ट- मन्नन्दम्पती भुञ्जीयाताम्— “भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैवहि । भुञ्जीयातान्ततः पश्चादवशिष्टन्तु दम्पती ॥” इति–स्मरणात् । स्वेषु–आत्मीयेषु गृहस्थितबन्धुवर्गेषु बालवृद्धातुरपूर्व- केषु ।। अकृत्वा च पञ्च महायज्ञान्भुञ्जतस्तयोर्व्रतलोपोभवति । ऋते सुवासि- नीप्रभृतिभ्यः । तदाह मनुः— “सुवासिनीः कुमारीश्च रोगिणो

४ कण्डिका ] गोभिलगृह्यसूत्रे – ६१ त्यर्थः । तथाच मनुः— “सायन्त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥” इति । तदनेन रात्रावपि वैश्वदेवबलिकर्म्मणोरविशेषेण कर्त्तव्यत्वन्दर्शि- तम्(१) । प्रातरहनि पुमान् समन्त्रमित्यर्थः । बलिं हरेत् ॥ अत्र स्मृतौ—सिद्ध- स्यान्नस्येति पक्षप्राप्तमनूद्यते न तु विधित्सितम् । सायं बलिं हरेदित्येव । तच्चा- न्नाभावे फलादिनाऽपि । तथाच चतुर्विंशतिमते— “अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिघृतैर्वापि वैश्वदेवं स्रुवेण तु ॥ हस्तेनान्नादिना कुर्याद्द्विरञ्जलिना जले ॥” इति । तत्रापि यददनीयन्तेनैव होमस्तथाच परिशिष्टे— “शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । सङ्कल्पयेद्यदाहारं तेनैव जुहुयाद्धविः ॥” इति । इतिकरणं बलिप्रकरणसमाप्तिख्यापकम् ॥ १९ ॥ तदिदं बलिहरणमहरहर्यत्पच्यते तेनैवान्नेन कर्त्तव्यम् । न खल्वेष निय- मोवैश्वदेवेनैवान्नेन विधेयमित्याह— सर्वस्य त्वेवान्नस्यैतान्बलीन्हरेत् पित्र्यस्य वा स्वस्त्ययनस्य वाऽर्थार्थस्य वा ॥ २० ॥ सर्वस्येत्यनेन येन केनाऽपि बलीन्हरेत् । पित्र्यस्य पितृकर्म्मार्थं शृतस्य अमावश्यादावन्वाहार्याद्यर्थस्येत्यर्थः । अत्र तस्येदमित्यर्थे “पितुर्यच्च” ( पा० ४।३।७९ ) इति यति “रीडृतः” ( पा० ७।४।२७ ) इति रीडो “यस्येतिच” युज्यते वैश्वदेविकपाकान्नान्निषेधश्च भोजनप्रकरणीयो। वैश्वदेवविमुखस्वामिकान्नविषयो “नात्मार्थम्पाचयेदन्नमि”ति निषिद्धपाकान्नपरोवेति ॥ ( १ ) अत्र च्छन्दोगाह्निके श्रीदत्तोपाध्याया आहुः “इदं पत्नीकर्तृकं बलिहरणं यज- मानतत्पुत्रादीनामसन्निधान इति केचित् । अन्ते तु—“स्वयन्त्वेवैतान्बलीनि”त्यारभ्य- “स्त्री हि सायं प्रातः पुमानि”ति गोभिलगृह्यानुसाराद्गृहमेधिव्रतपक्षे सायं पत्नीकर्तृकमेव बलिहरणं तत्परञ्च। मानववचनमिति वर्णयन्तीति । वसिष्ठः “वैश्वदेवं सायम्प्रातर्गृह्येऽग्नौ जुहुयात्” इत्यादि। वैश्वदेवं विश्वदेवदेवताकम्। सायमिति। पुनः पाकान्ने। “पुनः पाक- मुपादाय सायमप्यवनीपते । वैश्वदेवनिमित्तन्तु पत्न्या सार्द्धं बलिं हरेत ॥ तत्रापि श्वपचा- दिभ्यस्तथैवान्नापवर्जनम् ।” इति विष्णुपुराणवचनात् । गृह्ये—आवसथ्याग्नौ इति तु साग्निविषयम् । इत्याचारचिन्तामणिः । पत्न्या सार्द्धमिति पाककरणेन सहावस्थानेन च साहित्यम् ।

६२ बलिहरणविधिः । [१ प्रपाठके (पा० ६।४।१४८) इतीकारलोपः॥ वा-अथवा स्वस्त्ययनस्य(१) तदर्थं पक्वस्य । अर्थार्थस्य स्वसमीहितसिद्धयर्थस्य। (२)वाशब्दोऽयं कैमुतिकन्यायम- नुस्मारयति। पूर्वतनावस्थायान्तेन यथाकथञ्चित्पक्वस्येत्यर्थ आयाति। अत्र तु शब्दोऽस्यैव बलिहरणस्य कालविशेषद्योतनार्थः । पूर्वन्तु तावद्वलिहरणंकुर्या- त्पश्चाद्ब्राह्मणं भोजयेदिति चन्द्रकान्तभाष्यम् ॥ २० ॥ तदिदं बलिहरणम् । यज्ञादेव निवर्त्तते ॥ २१ ॥ यज्ञो ज्योतिष्टोमादिस्तस्माद्धेतोर्निवर्त्तते । यद्वा सप्तम्यर्थे व्यत्ययेन (पा० ३।१।८५) पञ्चमी । यज्ञे निवर्त्तते । बलिहरणञ्च होमादीनामप्युपलक्षणम् । “तस्माद्दीक्षितो न ददाति, न पचति, न जुहोति” इति च ब्राह्मणम्। न ददा- तीत्यादि दीक्षणीयेष्टेरन्यत्र बोध्यम् । एवशब्दो बलिहोमादेरावश्यकत्वप्रद- र्शनार्थः । नान्यथा आपद्यपि निवर्त्तते इति । तथा च स्मरन्ति— “आपद्यपि हि कष्टायां पञ्चयज्ञान्न हापयेत् । स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते ॥” इति । सोऽयं सामान्यविधिरपवादविधिनानेनोपरुध्यते । न पुनरेतावता- ऽशौचेऽपि कर्त्तव्यतैवामीषामिति भ्रमितव्यम्— “सन्ध्यां पञ्चमहायज्ञांन्नैत्यकं स्मृतिकर्म्म च । तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रिया ॥” इति-स्मरणात् ॥ “पञ्चयज्ञविधानञ्च न कुर्यान्मृत्युजन्मनोः” इतिचैव- मादिस्मरणात् ॥ २१ ॥ यद्येकस्मिन्काले व्रीहियवौ प्रक्रियेयातामन्यतरस्य कृत्वा कृतंमन्येत २२ यदि-एकस्मिन् भोजनकाले दिवैव वा रात्रावेव वा-इत्यर्थः । व्रीहियवौ उभौ। नानाजातीयात्रोपलक्षणमेतदित्याचारचिन्तामणिः । प्रक्रियेयाताम् । प्रकर्षेण भक्तकरम्भपायसशष्कुल्यादिभेदेन क्रियेयाताम् कृतौ भवेतान्तर्हि अन्यतरस्य एकतरस्य व्रीहे र्यवस्य वा विकारैः कृत्वा बलिहरणं कृतं सम्पादितं मन्येत जानीयात् । न पुनरन्यस्यापि कर्त्तव्यमित्यर्थः ॥ २२ ॥ यद्येकस्मिन्काले पुनः पुनरन्नं पच्येत सकृदेवैतद्बलितन्त्रं कुर्वीत २३ ( १ ) स्वस्तीत्यभिप्रेतार्थं सिद्धिमचष्टे-तस्यायनं प्रापकं यत्कर्म ब्राह्मणभोजना- दिरून्तत्स्वस्त्ययनं, स्वस्ति ईयते प्राप्यतेऽनेनेति करणे ल्युट्। “स्नेहवद्मांसमन्नं ब्राह्म- णान्भोजयित्वा स्वस्ति हैषाम्भवती”त्येव मादिवचनात् । ( २ ) चन्द्रकान्तभाष्ये तु—अर्थोधनम् अर्थः प्रयोजनं यस्य पुरुषस्य सोऽयमर्थार्थः । यस्मात्पुरुषार्थेनाशास्यते तदर्थम्पक्वस्येत्यर्थ इत्युक्तम् ॥ अवयवलक्षणा चात्र षष्ठी पूर्ववत् ।

४ कण्डिका ] गोभिलगृह्यसूत्रे- ६३ यद्येकस्मिन्काल इत्युक्तार्थम्। पुनः पुनर्भूयोभूयः। अन्नं पच्येत अतिथ्यादि- बाहुल्यवशात्। तथापि सकृदेकवारमेव एतद्बलितन्त्रम्बलिवरणं कुर्यात् न प्रति- पचनमित्यर्थः ॥ २३ ॥ भ्रातॄणां भिन्नपाकत्वेऽपि मुख्यपाकादेव बलिहरणमित्याह- यद्येकस्मिन्कुले बहुधाऽन्नं पच्येत गृहपतिमहानसादेवैतद्व- लिकर्म्म कुर्वीत ॥ २४ ॥ यदि-एकस्मिन्कुले गृहे एकपाकोपजीविभ्रात्रादिवर्गेवा। तथाच मेदिनी “कुलं जनपदे गोत्रे सजातीयगणेऽपि च। भवने च तनौ क्लीबम्” इति ॥ बहुधा बहुप्रकारेण ( बहुषु महानसेषु ) अन्नं पच्येत कुतश्चित्कारणात्कदाचि- द्भ्रातृपुत्रादीनां भोजनसौकर्यार्थं वा, तर्हि एषां यो गृहपतिस्तस्य महानसादेव [

बलिहरणविधिः । [ १ प्रपाठके- सः । इति नित्यबलिकर्म्मप्रकरणसमाप्तिं द्योतयति(१) ॥ २६ ॥ अथाऽप्युदाहरन्ति ॥ २७ ॥ अथ-अनन्तरं यत्कर्त्तव्यन्तदप्युदाहरन्ति "ब्राह्मणवाक्यानि" इति शेषः २७ एतस्यैव बलिहरणस्यान्ते कामं प्रब्रूवीत भवति हैवास्य ॥ २८ ॥ एतस्य नित्यस्य एव बलिहरणस्यान्तेऽवसाने, न पुनः काम्यानामपि बलीनामनन्तरमित्यर्थः । कामं काम्यत इति कामस्त(२)मभिलषितमायुरारो- ग्यादिकं प्रब्रूवीत प्रकर्षेण नामार्थङ्कथयेत् । अभिमुद्दिश्य प्रार्थयेदित्यर्थः । "मनोह वै देवा मनुष्यस्य जानन्ती"ति श्रवणान्मनसैव प्रार्थना माभूदिति व्यक्तवागर्थस्य ब्रवीतेः प्रार्थनार्थकलिङन्तस्य प्रयोगः । प्रार्थनाचेयं वामदेव्य- गानात्पुरस्तात्कर्त्तव्या तदाह नित्यान्बलीन्विधाय कात्यायनः— “स्पृष्ट्वापो वीक्ष्यमाणोऽग्निं कृताञ्जलिपुटस्ततः । आयुरारोग्यमैश्वर्यं प्रार्थयेद्द्रविणोदस्रम् ॥” इति । द्रविणोदसमग्निम्(३) । तथा— “आयुरारोग्यमैश्वर्यं धीधृतिः शं बलं यशः । ओजोवर्च्चः पशून्वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥ सौभाग्यङ्कर्म्मसिद्धिञ्च कुलज्यैष्ठं सकर्तृताम् । सर्वमेतत्कर्म्मसाक्षिन्द्रविणोदो रिरीहि नः ॥” इति । रिरीहि-प्रयच्छ । आयुरारोग्यमित्यादिप्रार्थनामन्त्रः । सखल्वयं प्रा- र्थितः कामो भवति निष्पद्यत एव ह किल । अस्य प्रार्थयितुरित्यर्थः ॥ २८ ॥ स्वयन्त्वेवासस्यं बलिं हरेद्यवेभ्योऽध्याव्रीहिभ्यो व्रीहिभ्योऽध्या- यवेभ्यः । सत्वाख्यो नाम बलिर्भवति ॥ २८ ॥ तुशब्दः सुभूमिकरणादिकं विशेषं स्मारयति । नित्यबलिवत्सुभूमिकरणम्


( १ ) अत्र चन्द्रकान्तभाष्यम् “सेयमपञ्चसूत्री द्रव्यस्य कर्म्मार्थतामाह । कर्म्मणश्च पुरुषार्थताम् । कर्म्मणां द्रव्यार्थत्वे खल्वावर्त्तत प्रति

२. द्वितीय प्रपाठक: विवाह-संस्कार, गर्भाधान, पुंसवन, सीमन्तोन्नयन एवं जातकर्म

४ कण्डिका ] गोभिलगृह्यसूत्रे- ६५ उभयतः परिषेक इत्येवमादिकया रीत्या आसस्यं तन्नामकं बलिं स्वयमेव हरेत् न पुनःप्रवासादावप्यन्येन तं कारयेत् । उक्तञ्चायमर्थः “स्वयमेव हरेत्कामान्” इत्यादिगृह्यान्तरेण । कोऽयमासस्योनाम बलिः कस्मै च हर्तव्यः ? इत्यत्राह- यवेभ्य इति । अत्र चतुर्थ्या त्यागोद्देश्यत्वलक्षणं देवतात्वं यवानाम्भिधीयते । यथाचोक्तम्- “तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन चेष्यते । देवतासङ्गतिस्तत्र दुर्बलन्तु परं परम् ॥” इति । तस्माद्यवदैवतोऽयं बलिः “यवेभ्योनमः” इति प्रयोक्तव्यः । बलि- कालमाह-अधि उपरि । अर्थाद्यवोत्पत्तेरेव । अवधिकालमाह आब्रीहिभ्य इति । व्रीह्युत्पत्तेरा-अर्वाक् । इत्यर्थः । एतेन व्रीहिभ्योऽध्यायवेभ्य इति व्याख्यातम् ॥ स त्वासस्य इति । स इति प्रकृतपरामर्शिना सर्वनाम्ना नि- रपेक्षं बलिद्वयं परामृश्यते । तुशब्दोऽन्येभ्योवलिभ्योऽस्य वैशिष्ट्यमवग- मयति(१) । स खल्वयं बलिरेकस्मात् सस्यादारभ्यापरसस्यपर्यन्तं कर्त्तव्यत्वा- दासस्योनाम(२) भवति ॥ २९ ॥ दीर्घायुर्हेव भवति ॥ ३० ॥ दीर्घमायुर्यस्य सोऽयं दीर्घायुर्ह-किल(नूनं) भवत्येव । नाऽल्पायुर्यं य- जमानोभवतीत्यर्थः ॥ ३० ॥ विश्राणिते फलीकरणानामाचामस्यापामिति बलिं हरेत् स रौद्रो भवति स रौद्रो भवति ॥ ३१ ॥ इति गोभिलीयगृह्यसूत्रे चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ ॐ ॥ विशेषेण श्राणिते “शृणुदाते” ( चु०प ० ) इति स्मरणाद्दत्तेऽन्ने क्षीण- प्राये इत्यर्थः । एवञ्च रात्रा(३)वयं बलिर्भवति । तत्र हि सर्वमन्नं श्राणितन्दत्तं क्षीणप्रायं भवतीति भट्टभाष्यम् ॥ शिष्टान्नानां फलीकरणानां तुषाणामाचाम- स्य भक्तमण्डस्य “मासराचामनि (वि)स्रावा मण्डे भक्तसमुद्भवे” इत्यमरः । स्मर्यते च “ओदनाम्रद्रवं प्राहुराचामं हि मनीषिणः” इति । अपाम् उदकस्य च । अवयवार्थेऽत्र षष्ठ्यः । इतिना मिलितमुच्यते । त्रीण्येतान्येकीकृत्येत्यर्थः । ( १ ) स्वयमेव खल्वयं बलिर्हर्त्तव्योलोप एवास्य प्रवासादावित्युक्तप्रायम् । ( २ ) अन्नार्था हीयं संज्ञा आश्वारूसस्याद्भावसन्तसस्येन यस्य हरणम् । एवमावस- न्तसस्यादाशारत्सस्येनेति । सोऽयमासस्योनामेति ॥ ( ३ ) तथाच गृह्यान्तरम्- “यक्ष्मणे चोदकन्दद्याद्यक्ष्मैतत्त इति ब्रुवन् । आरोग्यमस्य तेन स्यात्सार्यं रौद्राद्यथेप्सित- म्॥” इति । अत्रयथेप्सितमिति वचनाद्यत्किञ्चित्कामयते तद्रौद्रबलेः फलमवगच्छामः ॥ ९ गो० गृ० सू०

६६ अथ दर्शपौर्णमासविधिः । [ १ प्रपाठके- बलिं हरेत् । स खल्वयं बलिः रौद्रो रुद्रदेवताको भवति ॥ अन्तेऽभ्यासः क- ण्डिकापवर्गद्योतनार्थः ॥ ३१ ॥ इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्याया-“मृदुला” ख्यायां मुकुन्दशर्म्मसङ्कलितायां प्रथमप्रपाठकस्य चतुर्थी कण्डिका ॥ १ ॥ ४ ॥ * ॥ अथ पञ्चमी कण्डिका— (अथ दर्शपौर्णमासप्रकरणम्) पञ्चमहायज्ञानभिधायेदानीन्तद्वृत्तिकौ दर्शपौर्णमासौ विवक्षुराह— अथ दर्शपौर्णमासयोः ॥ १ ॥ अथे-त्ययमधिकारार्थः । दर्शश्च पौर्णमासश्च(१) तयोरधिकार “इदानीं वर्त्तिष्यत” इति वाक्यशेषः ॥ १ ॥ तत्र तावदुपवासपूर्वकत्वाद्दर्शपौर्णमासयोरुपवासव्यवस्थैव प्रथममभिधा- तव्या । तत्रापि-“दर्शान्तं पौर्णमासाद्यमेकमेव प्रचक्षते', इति कर्म्म

५ खण्डिका ] गोभिलगृह्यसूत्रे- ६७ “उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम्” इति च स्मरणम् । एके पुनः “उपास्मिन् श्वोयक्ष्यमाणा देवा वसन्ति एवं विद्वानग्निमुपस्तृ- णाति” इति तैत्तिरीयब्राह्मणं पश्यन्तः “उपवासोऽग्न्याधानम्” इति वर्णयन्ति । तदप्यादरणीयम् “पूर्वेद्युरग्निं गृह्णाति उत्तरमहर्देवतां यजते” इत्येवमादिशा- स्त्रादप्येतदवगमात् ॥ २ ॥ उत्तरामित्येके ॥ ३ ॥ सन्ध्याम्पौर्णमासीमनुपोष्य पौर्णमासीमुपवसेत्सखण्डामपीत्येक आचार्या मन्यन्ते । अपरे पुनरुत्तराम्पौर्णमासीतः, प्रतिपदमुपवसेन् । इति मन्यन्ते । न वयमेवं ब्रूम इत्यर्थः । तथाच रौरकीये ब्राह्मणम् । “द्वे ह वै पौर्णमास्यौ द्वे अ- मावास्ये, तस्मात् प्रतिपद्युपवसन् यजेतापरेद्युः” इति । तस्मात्परशाखिकोऽयं पक्षः कौथुमीयो न भवति ॥ ३ ॥ अत्र “त्रयः पौर्णमासीकाला भवन्ती” त्यत्र पौर्णमासीकथायाः सम्भाविनं प्रसङ्गमपर्यवस्यन्नेवामावास्यायाः खल्विदानीं व्यवस्थोच्यते— अथ-यदहश्चन्द्रमा न दृश्येत ताममावास्याम् ॥ ४ ॥ अथ-उभयत्रामावास्यालाभे यदहर् यस्मिन्नहनि चन्द्रमा न दृश्येत नावलो- क्येत । ताममावास्यामुपवसेदित्यनुवर्त्तते । सा खल्वियं कुहूरुच्यते इति सैवो- पवस्तव्या न सिनीवाली । तस्यां खल्ववलोक्यते प्रातश्चन्द्रमाः । तस्मान्नात्र क्षयलक्षणा । तदिदं सूत्रं वर्द्धमानाभिप्रायम् । कात्यायनोऽप्याह— “वर्द्धमानाममावास्यां लक्षयेदपरेऽहनि । यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततोभवेत् ॥” इति ॥ ४ ॥ कस्याश्चिदमावास्यायाः कस्याश्चिच्च पौर्णमास्या उपवासव्यवस्थामभिधाय अथेदानीन्दर्शपौर्णमासयोः कश्चिन्नियमः पौर्णमास्यमावास्ययोश्च स्वरूपं वक्त- व्यमित्युत्तरो ग्रन्थ आरभ्यते-अथ तत्र— कस्मात्पुनः कारणात्पौर्णमास्याममावास्यायाञ्चोपवासो व्यवस्थाप्यते ? न पुनश्चतुर्द्दश्यामुपोष्य तयोरेवेज्यते(१)इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते। पक्षान्ता उपवस्तव्याः पक्षादयोऽभियष्टव्याः ॥ ५ ॥ पक्षोऽर्द्धमासः । स च शुक्लकृष्णभेदाद् द्विविधः । तदन्तातिथिश्च द्वयी पौर्ण- मासी अमावास्या च । बहुवचनं व्यक्तिभेदाभिप्रायम् । तदयमर्थः । पक्षाणा- ( १ ) तथा चामरः “सा दृष्टेन्दुः सिनीवाली सानष्टेन्दुकला कुहूः” इति । सा अमा- वस्या । अमा-सह-वसतश्चन्द्रार्कौ यस्यां सा । अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौस- त्यां पाक्षिकोह्रस्वश्चनिपात्यते इति “अमावस्यदन्यतरस्याम्” ( पा० ३।१।१२२ ) इति सूत्रेवृत्तिकृतः प्राहुः ॥

मन्ता अवसानतिथय उपवस्तव्याः। पक्षाणामादयः प्रतिपदश्च अभियाष्टव्याः आभिमुख्येन यष्टव्या इति। अस्मादपि कारणात् पौर्णमासीमुपवसेन्नोत्तरा- मित्यवधार्यते॥ ५॥ आमावास्येन हविषा पूर्वपक्षमभियजते पौर्णमासेनापरपक्षम्॥ ६॥ अमावास्यायायँदुपक्लृप्तं हविस्तदामावास्यम् इत्युच्यते। तेनामावास्येन हविषा पूर्वपक्षं शुक्लपक्षमभियजते। पौर्णमासेन पौर्णमास्यामुपक्लृप्तेन हविषा अपरपक्षं कृष्णपक्षम् अभियजत इत्यनुषज्यते। पूर्वपक्षप्रतिपदिष्ट्या कृत्स्न एव पूर्वः पक्ष इष्टोभवति। अपरपक्षप्रतिपदिष्ट्या च कृत्स्नोऽपरपक्ष इत्यभिप्रायः। न खलु पक्षमभिव्याप्येष्टिराम्नायते तस्माद्यथोक्त एवार्थः॥ ६॥ अथ केयं पौर्णमासी का वाऽमावास्या ? तदुच्यते— यः परमोविप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी यः परमः सङ्कर्षः साऽमावास्या ॥ ७ ॥ यः परमो महान् विप्रकर्षो व्यवधानं सप्तमराश्यवस्थानं सूर्याचन्द्रमसोः सा पौर्णमासी पूर्णिमा । इत्येकोऽर्थः। सा इति विधेयपौर्णमास्यपेक्षया स्त्रीत्वम् । यः खलु परमः सङ्कर्षः सन्निकर्षः। एकराश्यवच्छेदेनँकांशावस्थानं सूर्याचन्द्रम- सोः सा अमावास्या दर्शः सूर्येन्दुसङ्गम इत्यनर्थान्तरम् ॥७॥ एवं प्रासङ्गिकाङ्कथामवसाय प्रकृतामेवामावास्याव्यवस्थामाह— यदहस्त्वेव चन्द्रमा न दृश्येत, ताममावास्यां कुर्वीत ॥८॥ न दृश्येत न दर्शनं सम्भाव्येत आगमबलात् क्षीण इत्यवगम्येत ताममावा- स्यां कुर्वीत। तुशब्दश्चशब्दार्थः समुच्चये। एवशब्दोऽवधारणार्थः। उपवास- मन्यच्च यद्विहितम् “अमावास्यायां तच्छ्राद्धमितरदन्वाहार्य्यम्” इति । तदपि तस्यामेव कुर्वीतेत्येवमवध्रियते। तदनेन उपवासपिण्डपितृयज्ञान्वाहार्य्यश्राद्धा- नामेकस्मिन्काले कर्त्तव्यत्वमवगम्यते। अत एव कात्यायनोऽमीभिरेव वचनैः श्राद्धमपि व्यवस्थापयाञ्चकार॥ तदिदं क्षीणामावास्याऽभिप्रायं सूत्रम्। क्षय- श्चात्र लक्ष्यते अतो “यदहश्चन्द्रमा न दृश्येत ताममावावस्याम्” इत्य- नेन सूत्रेण न पौनरुक्त्यम्। तत्र खल्ववलोकनाभावोऽर्थः, वर्द्धमानाभिप्रायञ्च वचनम्। इत्यवोचाम। तदाह कात्यायनः— “पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते। वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः॥ यद्वा चतुर्दशीं यामं तुरीयमनुपूरयेत्। अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते॥ यदुक्तं यदहस्त्वेवं दर्शनं नैति चन्द्रमाः।