गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 289, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे पूर्वभागे प्र० ५ । क० २४ ॥ २५१ है । १२ । ( प्रातःसवनस्तुतः गायत्रस्तोममितः एकविंशः एकः एव सप्तदशेन कॢप्तः माध्यन्दिनः, त्रयस्त्रिंशेन तृतीय सवनम् १३ ) प्रातःसवन में स्तुति किया गया गायत्र [ गाने योग्य ] स्तोम से परिमाण किया गया एकविंश यज्ञ एक ही है, सप्तदश यज्ञ से ठीक किया हुआ माध्यन्दिन सवन है और त्रयस्त्रिंश यज्ञ से [ ठीक किया हुआ ] तृतीय सवन है । १३ ॥ २३ ॥ भावार्थः—याजक लोग यज्ञ में समय, हव्य द्रव्य, वेदमन्त्र और उन सब के अङ्गों की गणना और विनियोग यथावत् जानें यह कण्डिका श्लोकबद्ध है ॥ २३ ॥ कण्डिका २४ ॥ श्रद्धायां रेतस्तपसा तपस्वी वैश्वानरः सिषिचेऽपत्यमीप्सन् । ततो यज्ञे लोकजित्सोमजम्भा ऋचेर्ऋग्भिरङ्गिराः सम्बभूव । १ । ऋषेर्यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकमिमुं जिगाय । यस्मै वेदाः प्रस्रुताः सोमबिन्दुयुक्ता वहन्ति सुकृतामु लोकम् । २ । ऋचोऽस्य भागांश्चतुरो वहन्त्युक्थशस्त्रैः प्रमुदा मोदमानाः । ग्रहैर्हविर्भिश्च कृताकृतै यजूंषि भागांश्चतुरो वहन्ति । ३ । औदुम्बर्यां साम- घोषेण तावत् संत्रिष्टुतिभिश्च स्तोमैः छन्दसा । सामानि भागांश्चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च । ४ । प्रायश्चित्तैर्भेषजैः संस्तु¹वन्तोऽथर्वाणोऽङ्गि- रसश्च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंमृष्टान् भागांश्चतुरो वहन्ति । ५ । यो ब्रह्मवित् सोऽभिकरोऽस्तु वः शिवो धिया धीरो रक्षतु धर्ममे- तम् । मा वः प्रमत्ताममृताच्च यज्ञात् कर्माच्च येनानङ्गिरसोऽपियासीत् । ६ । मायुं दशं मारुशस्ताः प्रमेष्ठा मा मे भूर्युक्त विद्धाथ लोकान् । दिव्यं भयं रक्षत धर्म- मुद्यतं यज्ञं कलाशस्तुतिगोपलायनम् । ७ । होता च मैत्रावरुणश्च पादमच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भिःस्तुवन्तो अहरहः पृथिव्याः अग्निं पादं ब्रह्मणा धार- यन्ति । ८ । अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादमेकम् । समन्तरिक्षं यजुषः स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति । ९ । साम्नोद्गाता ²च्छादयन्नप्रमत्त औदुम्बर्यां स्तोमदयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्त्ताऽथ यज्ञे । साम्ना दिव्येकं निहितं निस्तुवन्तः सूर्य्यं पादं ब्रह्मणा धार- यन्ति । १० । ब्रह्माहैकं ब्राह्मणाच्छंसिनः सह पोत्राऽऽग्नीध्रो निहितं पादमेकम् । अथर्वभिरङ्गिरोभिश्च गुप्तोऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । १ । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताश्च पृथक् चतुर्धा । मनीषिणो दीक्षिताः श्रद्द- धाना होतारो गुप्ता अभिवहन्ति यज्ञम् । १२ । दक्षिणतो ब्राह्मणस्यो³ जनदित्येतां व्याहृतिं जपन् । सप्तदशं सदस्यं तं कीर्त्तयन्ति पुरा विदुः । १३ । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्धानेह युक्ता । एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिरेव सुन्वन् । १४ । एकविंशतिरेवेषां संस्थायामङ्गिरो वह । वेदैर्भि- ष्टुतो लोको नानात्रेणापराजितः । १५ ॥ २४ ॥ १. पू. सं. 'संस्तवन्तः' इति पाठः ॥ २. पू. सं. "छादयन्तः प्रमत्तः" इति पाठः ॥ ३. पू. सं 'ब्रह्मणस्याम्' इति पाठः ॥ सम्पा० ॥