गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 39, कुल 600 में से
संदर्भ में पढ़ेंओ३म् अथर्ववेदस्य गोपथब्राह्मणम् पूर्व-भागः ─::o::─ प्रथमः प्रपाठकः कण्डिका १ ओ३म् ब्रह्म ह वा इदमग्र आसीत्, स्वयन्त्वेकमेव तदैक्षत, महद्वै यक्षं, तदेकमेवास्मि, हन्ताहं मदेव मन्मात्रं द्वितीयं देवं निर्मम इति, तदभ्यश्राम्यदभ्य- तपत् समतपत्, तस्य श्रान्तस्य तप्तस्य सन्तप्तस्य ललाटे स्नेहो यदार्द्रमोजा- यत तेनानन्दत्तमब्रवीत् महद्वै यक्षं सुवेदमविदामह इति । तद्यदब्रवीत् महद्वै यक्षं सुवेदमविदामह इति, तस्मात् सुवेदोऽभवत्तं वा एतं सुवेदं सन्तं स्वेद इत्या- चक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥ कण्डिका १ । ब्रह्म और सृष्टि की इच्छा ।। (ओ३म् ब्रह्म ह वै इदमग्रे आसीत्) ओ३म् [रक्षक परमात्मा है] ब्रह्म [सबसे बड़ा परमात्मा ] ही निश्चय करके इस [ जगत् ] के पहिले था । ( स्वयम् तु एकम् एव तत् ऐक्षत ) और अपने को अकेला ही उसने देखा ( महत् वै यक्षम्, तत् एकम् एव अस्मि ) मैं बड़ा ही पूजनीय हूँ, सो मैं अकेला ही हूं। ( हन्त अहम् मत् एव मन्मात्रं द्वितीयं देवं निर्ममे इति ) अरे ! मैं अपने से ही अपने समान दूसरा देव [दिव्य पदार्थ] बनाऊं । ( तत् अभि अश्राम्यत् अभि अतपत् सम् अतपत् ) उसने सब ओर से श्रम किया, सब ओर से तप किया, भली भांति तप किया। (तस्य श्रान्तस्य सन्तप्तस्य ललाटे स्नेहः यत् आर्द्रम् आ-अजायत ) उस श्रम किये हुए, तपे हुये, भली भांति तपे हुये के ललाट पर चिकना द्रव्य, जो गीलापन है, सब ओर से प्रकट हुआ । ( तेन अनन्दत् ) १- ओ३म्-अवतेष्टिलोपश्च (उ० १ । १४२) अव रक्षणादौ-मन्, टिलोपः । अथवा अः = विराडादिः, उः = हिरण्यगर्भादिः, मकारः = ईश्वरादिः । हे रक्षक ! परमेश्वरस्य सर्वोत्तमनाम । आरम्भः । अनुमतिः । ब्रह्म-वृंहेर्नोऽच्च (उ० ४ । १४६) बृंहि वृद्धौ-मनिन्, नकारस्य अकारः रत्वं च । ब्रह्म परिवृढं सर्वतः (निरु० १ । ८) सर्ववृद्धः परमेश्वरः (ह) निश्चयेन (वै) एव (इदमग्रे) अस्य जगतः पूर्वम्-प्रलयकाले (ऐक्षत) ईक्ष दर्शने-लङ् । अपश्यत् (यक्षम्) यक्ष पूजा-