भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 45, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 45

गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ४ ॥ ७ कण्डिका ४ स भृगुं सृष्ट्वाऽन्तरधीयत, स भृगुः सृष्टः प्राङेजत् तं वागन्ववदद्वायो वायो इति, स न्यवर्त्तत, स दक्षिणां दिशमेजत् तं वागन्ववदत् मातरिश्वन् मातरिश्वन्निति, स न्यवर्त्तत स प्रतीचीं दिशमेजत् तं वागन्ववदत् पवमानः पवमान इति, स न्यवर्त्तत स उदीचीन्दिशमेजत् तं वागन्ववदद्वात वातेति तमब्रवीन्नन्व- विदामह इति, नहीत्यथार्वाडेनेमेतास्वेवाप्स्वान्विच्छेति तद्यदब्रवोदथार्वाडेनेमेता- स्वेवाप्स्वान्विच्छेति तदथर्वाऽभवत्, तदथर्वणोऽथर्वत्वम्। तस्य ह वा एतस्य भगवतोऽथर्वण ऋषेर्यथैव ब्रह्मणो लोमानि यथाऽङ्गानि यथा प्राण एवमेवास्य सर्वं आत्मा समभवत्तमथर्वाणं ब्रह्माऽब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति। तद्यदब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति, तस्मात् प्रजापतिरभवत्, तत् प्रजापतेः प्रजापतित्वमथर्वा वै प्रजापतिः, प्रजापतिरिव वै स सर्व्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ कण्डिका ४ । अथर्वा और प्रजापति ॥ ( स भृगुं सृष्ट्वा अन्तर् अधीयत ) वह [ परमात्मा ] भृगु [ पकाने वाले वा चमकीले तत्त्व ] को उत्पन्न करके अन्तर्धान हो गया । ( सः भृगुः सृष्टः प्राङ् एजत = ऐजत ) वह भृगु उत्पन्न होकर पूर्व को चला । (तं वाक् अनु अवदत् ) उस से वाणी [ वेद वाणी ] कहने लगी - ( वायो वायो इति ) हे वायु ! वायु ! [ चलनेवाले पवन ] । ( स न्यवर्तत ) वह लोटा । ( स दक्षिणां दिशम् एजत ) वह दक्षिण दिशा को चला । ( तं वाक् अनु अवदत् ) उससे वाणी कहने लगी - ( मातरिश्वन् मातरिश्वन् इति ) हे मातरिश्वन् ! हे मातरिश्वन् ! [ आकाश में बढ़ने वाले पवन ] । ( स न्यवर्तत ) वह लौटा । ( स प्रतीचीं दिशम् एजत ) वह पश्चिम दिशा को चला । (तं वाक् अनु अवदत् ) उससे वाणी कहने लगी-( पवमानः पवमान इति ) हे पवमान ! पवमान [ शोधने वाले पवन ] । ( सः न्यवर्तत ) वह लोटा । ( स उदीचीं दिशम् एजत ) वह उत्तर दिशा को चला । ( तं वाक् अनु अवदत् ) उससे वाणी कहने लगी ( वात वात इति ) हे वात ! वात ! [ सेवनीय पवन ] । ( तम् = ताम् ) उस [ वाणी ] से ( अब्रवीत् ) वह बोला ( ननु अविदामहे इति ) क्या [ उस परमात्मा को ] हमने जाना है ? [ वाणी ने कहा ] ४-( अन्तरधीयत) अन्तर् + डुधाञ् धारणपोषणयोः कर्मणि लङ् । अन्त- हितोऽदृष्टोऽभवत् ( प्राङ् ) प्र + अञ्चु गतिपूजनयोः-क्विन् । पूर्वस्यां दिशि । ( एजत ) एजृ कम्पने-लङ् । बहुलं छन्दस्यमाङ्योगेऽपि ( पा० ६ । ४ । ७५ ) आडभावः । अकम्पत । अगच्छत् । ( वाक् ) वेदवाणी ( अनु ) अनन्तरम् ( वायो ) कृवापाजिमि० ( उ० १ । १ । १) वा गतिगन्धनयोः-उण् युक् च । हे गतिशील पवन ( मातरिश्वन् ) श्वन्नुक्षन्पूषन्० ( उ० १ । १५६ ) मातरि + टुओश्वि गति- वृद्धयोः, श्वस प्राणने, शीङ् स्वप्ने वा-कनिन् । मातरिश्वा वायुर्मातर्यन्तरिक्षे श्वसिति मातर्यश्वनितीति वा - निरु० ७ । २६ । मातरि मानकर्तरि आकाशे हे वृद्धिशील