गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 473, कुल 600 में से
संदर्भ में पढ़ेंगोपथब्राह्मणे उत्तरभागे प्र० ४ । क० १३ ४३५ कण्डिका १२ ॥ आख्यायिका—प्रजापति पांच प्राणों से पांच देवताओं को उत्पन्न करता है और पांच देवता स्तुति किये जाते हैं ॥ ( प्रजापतिः हि एतेभ्यः पञ्चभ्यः प्राणेभ्यः देवान् ससृजे ) प्रजापति [ इन्द्रिय आदि प्रजा के पालक यज्ञ ] ने ही इन पांच प्राणों से देवताओं को उत्पन्न किया [ देखो कण्डिका ११ ] । ( यत् उ च इदं किंच पाङ्क्तं तत् सृष्ट्वा व्याज्वलयत् ) और जो कुछ भी पाङ्क्त [ पङ्क्ति पांच वा विस्तार में होने वाला] है, उसको उत्पन्न करके उसने विविध प्रकार प्रकाशित किया। ( ते ह देवाः ऊचुः, अयं मयोभूः पिता म्लानः, पुनः इमं समीर्यं उत्थापयामः इति ) वे ही देवता बोले—यह सुख पहुँचाने वाला पिता [ प्रजापति ] मुरझाया हुआ है, फिर इसको हम मिलकर उठावें। ( सः ह सत्त्वम् आख्याय अभ्यु- पतिष्ठते ) वह [ प्रजापति ] ही सत्त्व [ पौरुष ] दिखा कर सब ओर उपस्थित हुआ । ( यदि ह वै अपि निर्णिंक्तस्य एव कुलस्य सन्धुक्षणेन यजते, सत्त्वं ह एव आख्याय अभ्युपतिष्ठते ) जब ही मनुष्य निश्चय करके शुद्ध किये हुये ही कुल के संयोग बढ़ाने से यज्ञ करता है, वह पुरुषार्थं ही दिखाकर सब ओर उपस्थित होता है। ( यः वै प्रजापतिः सः यज्ञः ) जो ही प्रजापति है वह यज्ञ है। ( सः एतैः एव पञ्चभिः प्राणैः समीर्यं उत्थापितः ) वह [ प्रजापति वा यज्ञ ] इन ही पांच प्राणों से मिल कर उठाया गया है। ( ये ह वै एनं पञ्चभिः प्राणैः समीर्य उदस्थापयन्, ताः उ एव एताः पञ्च देवताः उक्थे शस्यन्ते ) जिन ही [ देवताओं ] ने इस [ प्रजापति वा यज्ञ ] को पांच प्राणों से मिल कर उठाया है, वे ही यह पांच देवता उक्थ [ स्तोत्र ] में स्तुति किये जाते हैं ॥ १२ ॥ भावार्थः—कण्डिका ११ के विषय का विशेष वर्णन है ॥ १२ ॥ कण्डिका १३ ॥ तदाहुः, यद् द्वयोर्देवतयो स्तुवत इन्द्राग्न्योरिति, अथ कस्माद्भूयिष्ठो देवता उक्थे शस्यन्त इति । अन्तो वा अग्निमारुतमन्तरुक्थान्यन्त आश्विनं कनीयसीषु देवतासु स्तुवते, अन्तेष्विति । अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति । द्वे द्वे॑ उक्थमुखे भवतः, तद्यद् द्वे॑ द्वे॑ ॥ १३ ॥ १२—( देवान् ) इन्द्रियाणां दिव्यव्यापारान् ( ससृजे ) सृष्टवान् ( पाङ्- क्तम् ) पङ्क्तिभवम् । पञ्चभवम् । विस्तारयुक्तम् ( व्याज्वलयत् ) विशेषेण अदीपयत् ( म्लानः ) म्लै हर्षक्षये—क्तः । ग्लानियुक्तः ( मयोभूः ) मिञ् हिंसायाम् —असुन् । मिनोति हिनस्ति दुःखम् । मयः सुखम्--निघ० ३ । ६ । मयः+भू सत्तायाम्—क्विप् । सुखस्य भावयिता प्रापकः ( सत्त्वम् ) सत्ताम् । पौरुषम् ( आख्याय ) व्याख्याय । प्रसिद्धं कृत्वा ( निर्णिंक्तस्य ) णिजिर् शोधे--क्तः । निरन्तरशोधितस्य ( सन्धुक्षणेन ) उक्ष सेचने वृद्धौ च घञ् । उक्षणः उक्षतेर्वृद्धि- कर्मण उक्षन्त्युदकेनेति वा--निरु० १२ । ६ । संयोगवर्धनेन ( समीर्यं ) संगत्य ॥