भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 524, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 524

४८६ गोपथब्राह्मणे उत्तरभागे प्र० ५। क० १५ यज्ञँ सन्तन्वामहा इति । तदेतद्यज्ञस्य समानमपश्यत् । समानां प्रगाथां समानीः प्रतिपदः समानानि सूक्तानि ओकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वं गच्छति, गच्छत्येव तत्रापरं यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥ इत्यथर्ववेदस्य गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः समाप्तः ॥ ५ ॥ कण्डिका १५ ॥ यज्ञों में अच्छावाक ऋत्विज् के विशेष स्तोत्र ॥ ( यः श्वःस्तोत्रियम् अद्यस्तोत्रियस्य अनुरूपं कुर्वन्ति, प्रातःसवने अहीनम् एव तत् अहीनस्य सन्तत्यै सन्तन्वन्ति ) जब आगामी दिन में होने वाले स्तोत्रिय [ स्तोत्र ] को आज होने वाले स्तोत्रिय के अनुरूप [ छन्द, देवता आदि से सदृश ] करते हैं, प्रातःसवन में अहीन [ बहुत दिनों में होने वाले यज्ञ ] को ही तब अहीन [ पूर्ण व्यवहार ] के फैलाव के लिए फैलाते हैं [ कण्डिका ११ तथा ऐ० ब्रा० ६ । १७ ] । ( ते एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शंस्त्वा माध्यन्दिने अहीनसूक्तानि शंसन्ति ) वे ही यह होत्रक लोग प्रातःसवन में छह दिन वाले यज्ञ के स्तोत्रिय बोलकर माध्यंदिन सवन में अहीन [ बहुत दिनों में होने वाले यज्ञ ] के सूक्तों को बोलते हैं— ( आ सत्यो यातु मघवान् ऋजीषी इति, सत्यवत् मैत्रावरुणः, अस्मा इदु प्र तवसे तुराय इति, ब्राह्मणाच्छंसी, शासद् वह्निर्दुहितुर्नप्त्यं गात् इति, अच्छावाकः । आ सत्यो यातु मघवां ऋजीषी ⋯ अथर्व० २० । ७७ । १—८, इस सत्यवत् [ सत्य शब्द वाले आठ मन्त्र के सूक्त ] को मैत्रावरुण [ बोलता है ] । ( अस्मा इदु प्र तवसे तुराय ⋯ अथर्व० २० । ३५ । १—१६ इस [ सोलह मन्त्र वाले सूक्त ] को ब्राह्मणाच्छंसी [ बोलता है ] । ( शासद् वह्निर्दुहितु- र्नप्त्यं गात् इति ⋯ ऋग्० ३ । ३१ । १—२२, इस [ बाईस मन्त्र वाले सूक्त ] को अच्छावाक [ बोलता है ] ॥ ( तद् आहुः, कस्मात् अच्छावाकः वह्निवत् एतत् सूक्तम् उभयत्र शंसति सः पराक्षु च एव सर्वाक्षु च आह इति ) वे कहते हैं—किसलिये अच्छावाक वह्निवत् [ वह्निशब्द वाले ] इस सूक्त को दो जगह बोलता है, [ अर्थात् ] आवृत्ति रहित [ चतुर्विंश आदि यज्ञों ] में और भी आवृत्ति वाले [ षडह आदि यज्ञों ] में बोलता है। [ समाधान ] ( वीर्यवान् वै एषः बहुवृत., यत् अच्छावाकः वह्नेः धुरः ह वै वहति यासु १५—( यः ) यत् । यदा ( मघवान् ) धनवान् ( ऋजीषी ) ऋजीष-इनिः । सरलस्वभावः । ( सत्यवत् ) सत्यशब्दयुक्तं सूक्तम् (अस्मै) संसारहिताय ( इत् ) एव (उ) विचारे ( तवसे ) बलाय ( तुराय ) त्वर त्वरणे—कः । वेगवते ( शासत् ) शासु अनुशिष्टौ—शतृ । जक्षित्यादयः षट् (पा० ६ । १ । ६) अभ्यस्तसंज्ञात्वात् नुमभावः । अनुशासनं कुर्वन् (वह्निः) वोढा । गृहवाहकः (दुहितुः) नप्तृनेष्टृत्वष्टृ० (उ० २ । १५) दुह प्रपूरणे—तृच् । इडागमः । सुखस्य पूरयित्र्याः कन्यायाः (नप्त्यम्) नप्तृ—यत् स्वार्थे । रलोपः । नप्तारम् । दौहित्रम्-निरु० ३ । २१ । दुहितृपुत्रम् ( गात् ) अगमत् । प्राप्नोति । ( पराक्षु ) परा—अञ्चु गतिपूजनयोः-क्विन् । परा अञ्चति गच्छतीति पराक् । आवृत्तिरहितेषु चतुर्विंशादिषु अहस्सु (आह ) ब्रवीति (सर्वाक्षु)