गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 62, कुल 600 में से
संदर्भ में पढ़ें२४ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० १२ ॥ भावार्थः—मनुष्य परब्रह्म को पास और दूर वर्तमान जानकर उसके शान्त स्वरूप का ध्यान करके अपने आत्मा को शान्त रक्खे ॥ ११ ॥ कण्डिका १२ ॥ स भूयोऽश्राम्यत्, भूयोऽतप्यत्, भूय आत्मानं समतपतस् मनस एव चन्द्र- मसम्रिमित, नखेभ्यो नक्षत्राणि, लोमभ्य ओषधिवनस्पतीन्, क्षुद्रेभ्यः प्राणेभ्यो- ऽन्यान् बहून् देवान् । स भूयोऽश्राम्यद् भूयोऽतप्यत्, भूय आत्मानं समतपत् स एतं त्रिवृतं सप्ततन्तुमेकविंशतिसंस्थं यज्ञमपश्यत् । तदप्येतदृचोक्तम् । अग्निर्यज्ञं त्रिवृतं सप्ततन्तुमिति । अथाप्येष प्राक्रोडितः श्लोकः प्रत्यभिवदति सप्त स्तुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥ कण्डिका १२ ॥ चन्द्रमा, नक्षत्र आदि पदार्थ ॥ (सः भूयः आत्मानम् अश्राम्यत्) उस [परमात्मा] ने फिर अपने को दबाया, (भूयः अतप्यत्) फिर तपाया, (भूयः सम् अतपत्) फिर भली भाँति तपाया। (सः मनसः एव) उसने मनन सामर्थ्य से ही (चन्द्रमसम्) आनन्द देने वाले चन्द्रलोक को (निर् अमिमत) बनाया (नखेभ्यः) नखों अर्थात् बन्धन वा आकर्षण सामर्थ्यों से (नक्षत्राणि) चलने वाले ताराओं को, (लोमभ्यः) लोमों वा छेदन सामर्थ्यों से (ओषधिवनस्पतीन्) सोमलता आदि ओषधियों और वनस्पतियों को (क्षुद्रेभ्यः) सूक्ष्म (प्राणेभ्यः) प्राणों वा जीवन सामर्थ्यों से (अन्यान् बहून् देवान्) दूसरे बहुत से दिव्य पदार्थों को । (सः भूय आत्मानम् अश्राम्यत्) उसने फिर अपने को दबाया, (भूयः अतप्यत्) फिर तपाया, (भूयः सम् अतपत्) फिर भली भाँति तपाया। (सः) उस [परमात्मा] ने (एतम्) इस (त्रिवृतम्) [सत्त्व, रज, तम इन तीनों गुणों से प्रत्येक] तिगुने किये हुए (सप्ततन्तुम्) [तीन काल, तीन लोक अर्थात् सृष्टि, स्थिति, प्रलय और एक जीवात्मा इन] सात तन्तु [विस्तार] वाले (एकविंशति- १२--(मनसः) मननसामर्थ्यात् (चन्द्रमसम्) स्फायितञ्चि० (उ० २। १३) चदि आह्लादने-रक् । चन्द्रश्चन्दतेः कान्तिकर्मणः-निरु० ११ । ५। चन्द्रमानन्दं मिमीते । चन्द्रे मऔ ङित् (उ० ४। २२८) चन्द्र+माङ् माने-असिः ङित् । आनन्द- प्रदचन्द्रलोकम् (नखेभ्यः) नहेर्हलोपश्च (उ० ५। २३) णह बन्धने-खप्रत्ययः, हलोपः । यद्वा णख गतौ-अच् । बन्धनस्य आकर्षणस्य सामर्थ्येभ्यः (नक्षत्राणि) अमिनक्षियजि० (उ० ३। १०५) णक्ष गतौ-अत्रन् । गतिशीलान् तारागणान् । (लोमभ्यः) नामन्सीमन्मूर्धोमन्मूर्धोमन्लोमन्० (उ० ४। १५१) लूँञ् छेदने- मनिन् । गात्रकेशेष्वः, छेदनसामर्थ्येभ्यो वा । (क्षुद्रेभ्यः) स्फायितञ्चिवञ्चि० (उ० २। १३) क्षुदिर् सम्पेषणे-रक् । पिष्टेभ्यः सूक्ष्मेभ्यः (प्राणेभ्यः) प्र+अन प्राणने-अच् घञ् वा । कायस्थवायुभ्यो जीवनसामर्थ्येभ्यो वा (देवान्) दिव्यपदार्थान् (त्रिवृतम्) सत्त्वरजतमोभिः त्रिगुणीकृतम् (सप्ततन्तुम्) मितनिगमि० (उ० १। ६६) तनु विस्तारे-तुन् । कालत्रयेण, लोकत्रयेण, अर्थात् सृष्टिस्थितिप्रलयेन