हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 108, कुल 185 में से
संदर्भ में पढ़ें७ ] शृंगारवर्णनम् ५९ अधिशिरोधि मिथः करकंकत—प्रगुणिताननयुग्ममिपादभात् । प्रणवसंपुटयंत्रमिव स्फुर—द्विवलयं रतिकृष्टिकृतेन्ययोः ॥ १०६ ॥ प्रणयिनो मुखचंद्रमसि स्फुर—त्यभिमुखं तरले परिचुंबितुं । अनुचितं किमिदं नवनायिका—मुखसरोजमजायत यत्पराक् ॥ १०७ ॥ रतिविरामभवादुपगूहनात् विघटनेच्छुमवेक्ष परा प्रियं । सुदृढमूरुयुगेन निपीडयं—स्तत हुंहुमिति स्मितजल्पितं ॥ १०८ ॥ परिपिबन् दयितो दयिताधरं मुकुलिते नयने यदसौ व्यधात् । किममुनैव जगाद न यत्पुरो ऽमृतमवेक्षितुमप्यरमंजसं ॥ १०९ ॥ सुरतकौशलशालिनि वलभे मुकुलिताक्षिमियात्समीविक्षत् । अविषयो वचसां किमिहांतरा स्फुरति द्रष्टुमिवेति परा दृशौ ॥ ११० ॥ रतकलां कलयत्यसुवलभे किमपि कुंचिमुखी सुमुखी नवा । हह ननेति ममेति वचोमिषात् मदनदीपनमंत्रमिवास्मरत् ॥ १११ ॥ अपदयं दयितस्य रतोत्सवं रचयतो नतनाभिपथादधः । करतलं ददती मुदमातनो न्नववधूरधिकां सुरतादपि ॥ ११२ ॥ अदहदीश्वरनेत्रहुताशनो रतिपतिं विदुषामिति यद्वचः । ऋतममंस्त तदत्र स एव यो वशयितुं प्रबभूव न मानिनीं ॥ ११३ ॥ मदनोरिरस्य मदनारिरित्यसौ मदनेन देह इति साधुरन्वयः । भुवि कामतलमधुनेति केवलं कथमप्यथालसदहो समंततः ॥ ११४ ॥ उत्थुष्य तल्पादितरा रतांति कांतं भुजाभ्यां दृढमालिलिंग । आदातुकामेव तदंगयष्टे रंगसर्वस्तमपि प्रपीड्य ॥ ११५ ॥ दद्यैांगानि यथा यथातिकठिनान्त्येपा नवोढा रते शंके धत्त तथा तथातिकठिनं चेतोपि चित्तप्रियः । मा मा मा न न मुंच मुंच हहहेत्युल्लापवत्यां मुहु- स्तस्यां नो कथमप्यथास्य करुणातारुण्यमासादयत् ॥ ११६ ॥ दंपत्योर्वदनैर्दुसंगममिपात्तथ्यं मिथश्चुंबने किं नैवाभ्युदगच्छदच्छरुचिभृत्सद्यः शशांकद्वयं ।