हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 109, कुल 185 में से
संदर्भ में पढ़ें६० श्रीहम्मीरमहाकाव्ये [सर्गः आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत् प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥ दृष्ट्वा स्वं प्रतिबिम्बमेव वहति प्रेयानयं स्वप्रिया- मक्ष्णीति स्ववदश्रुवारिभिरकरोन्मुग्धानिपानं पुरः । तत्रैव प्रतिबिम्बनान्निपतितां भर्त्रा समंयत्पद- द्वंद्वे स्वे मुमुदे च वीक्ष्य किमितोपि स्यात्परं योषितां ॥ ११८ ॥ कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्च्छामतुच्छामिव हंतुकामः । शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः ॥ ११९ ॥ सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया- पणेणाक्ष्या प्रोक्तं स्मरशरशरव्यत्वमितया । परेषां सर्वेषामवनि हिमरुचे तव पुनः करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२० ॥ स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां । निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥ १२१ ॥ स्मरस्मेरलीलासुतल्पोदधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति । मृगाक्षीवपुर्वल्लिविश्लेषभावा-न्निरासानदुःखाद्ददंतीव झंपां ॥ १२२ ॥ यस्यांगं तावदेवं बहिरपि विहितस्पर्शनं कामिनीना- मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः । इत्थं ध्यात्वा रता॑ते सुदृढतमपरीरंभदंभेन मध्ये कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ॥ १२३ ॥ भानोः संक्र्मणे श्रयेत मृदुतां विश्वं समस्तं यथा मन्ये शिश्रियतुस्तनावपि तथा स्त्रीणां रतेः संक्रमे । नैवं चेदुरुशैलवत्कठिनयोः श्रांता रता॑ते भृशं प्रेयांसः कणशोभवन्न पतिता मध्ये तयोस्तत्कथं ॥ १२४ ॥ क्षणं माने॑माने क्षणमथ मिथः काक्षकषणे क्षणं हासोल्लासे क्षणमथ दृढालिंगनविधौ ।