भारतकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 115, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 115

६६ श्रीहम्मीरमहाकाव्ये [ सर्गः ततश्च संवन्नववह्निवह्नि—भूहायने माघवलक्षपक्षे । पौष्यां तिथौ हेलिदिने सपुष्ये दैवज्ञनिर्दिष्टबले ऽलिलग्ने ॥ ५६ ॥ पुरा पुरोधास्तदनु क्षितीन्दु भूपास्ततोन्ये सचिवास्ततश्च । ततो महेभ्यास्तदनु प्रजाश्च तस्याभिषेकं रचयांबभूवुः ॥ ५७ ॥ युग्मं ॥ छायाकरैस्तस्य सितांशुशुभ्रं यदातपत्रं विभरांबभूवे । छायाखिलस्यापि जगत्त्रयस्य बभूव तेनाऽद्भुतमेतदुच्चैः ॥ ५८ ॥ एवं पतिष्यत्यसकृत् पदेऽस्य क्षितिक्षितः ख्यातुमिवेति लोके । शिरोभितोप्यापतती नृपस्य तस्याञ्च वालव्यजने व्यभातां ॥ ५९ ॥ अपाठिषुुर्विद्विजनास्तदानी मराणिषुर्मंगलतूर्यकाणि । अनर्त्तिषुर्नर्त्तविदश्च गीत मगासिषुुर्गायकमंडलािन ॥ ६० ॥ पदेपदे वंदनमालिकानां माला निबद्धा बभुरुल्लसंत्यः । गृहावलीनां नयनायमान—द्वारामिव भ्रूलतिकाः सलीलाः ॥ ६१ ॥ नरेंद्रमार्गेष्वभितो विकीर्णा विस्मेरपुष्पप्रकरा विरेजुः । कांतं नवीनं प्रति भूमिदेव्या हासा इव स्फारतरप्रकाशाः ॥ ६२ ॥ हर्षप्रकर्षेण समंततोपि सद्यस्रक्वाल्हीकजलप्रसिक्ताः । नवे हृदीशे प्रकटीकृतात्म—रागा इवोद्रंगभुवो विरेजुः ॥ ६३ ॥ प्रत्यालयोत्तंसितशातकुंभ—मांजिष्ठकौसुंभिककेतुदंभात् । अधीश्वरं प्राप्य नवं हमीर—देवं विशंके पुरमप्यरज्यत् ॥ ६४ ॥ साम्राज्यलब्ध्या मुदितोप्यमुष्य भूभंगमाशंक्य शिरांस्यधुन्वन् । वृथा व्यषीदत्फणिराट् विवेद —————— ॥ ६५ ॥ हृत्वा श्रियं शात्रवकैरवाणां सुहृज्जनांभोजकुले दधानः । प्राप्तोदयो भूवलये स राजा ऽऽऽ न कस्याऽजनि विस्मयाय ॥ ६६ ॥ विश्राणने कर्णनृपस्य नीतौ रामस्य शौर्ये च धनंजयस्य । काले कलौ पंडितमंडलीनां किं जायतोदाहरणं समास्म ॥ ६७ ॥ धर्मो जगर्जैव दरिद्रमुद्रा काचिन्ननाशेव बभाविव श्रीः । समुल्ललासेव नयद्रुमोपि समं जनैरेव तदीयराज्ये ॥ ६८ ॥

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास) · पृष्ठ 115, कुल 185 में से · BharatKosha